Ṛk 7.61.1
Saṃhitā
उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् ।
अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥
उद् वां चक्षुर् वरुण सुप्रतीकं देवयोर् एति सूर्यस् ततन्वान् |
अभि यो विश्वा भुवनानि चष्टे स मन्युम् मर्त्येष्व् आ चिकेत ||
údvām cákṣurvaruṇa suprátīkam deváyoreti sū́ryastatanvā́n ǀ
abhí yó víśvā bhúvanāni cáṣṭe sá manyúm mártyeṣvā́ ciketa ǁ
ud vāṃ cakṣur varuṇa supratīkaṃ devayor eti sūryas tatanvān |
abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa ||
Padapāṭha
उत् । वा॒म् । चक्षुः॑ । व॒रु॒णा॒ । सु॒ऽप्रती॑कम् । दे॒वयोः॑ । ए॒ति॒ । सूर्यः॑ । त॒त॒न्वान् ।
अ॒भि । यः । विश्वा॑ । भुव॑नानि । चष्टे॑ । सः । म॒न्युम् । मर्त्ये॑षु । आ । चि॒के॒त॒ ॥
उत् । वाम् । चक्षुः । वरुणा । सुऽप्रतीकम् । देवयोः । एति । सूर्यः । ततन्वान् ।
अभि । यः । विश्वा । भुवनानि । चष्टे । सः । मन्युम् । मर्त्येषु । आ । चिकेत ॥
út ǀ vām ǀ cákṣuḥ ǀ varuṇā ǀ su-prátīkam ǀ deváyoḥ ǀ eti ǀ sū́ryaḥ ǀ tatanvā́n ǀ
abhí ǀ yáḥ ǀ víśvā ǀ bhúvanāni ǀ cáṣṭe ǀ sáḥ ǀ manyúm ǀ mártyeṣu ǀ ā́ ǀ ciketa ǁ
ut ǀ vām ǀ cakṣuḥ ǀ varuṇā ǀ su-pratīkam ǀ devayoḥ ǀ eti ǀ sūryaḥ ǀ tatanvān ǀ
abhi ǀ yaḥ ǀ viśvā ǀ bhuvanāni ǀ caṣṭe ǀ saḥ ǀ manyum ǀ martyeṣu ǀ ā ǀ ciketa ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.061.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.03.01
- Maṇḍala · Anuvāka · Ṛk
- 07.04.063
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.