Ṛk 7.61.6
Saṃhitā
समु॑ वां य॒ज्ञं म॑हयं॒ नमो॑भिर्हु॒वे वां॑ मित्रावरुणा स॒बाधः॑ ।
प्र वां॒ मन्मा॑न्यृ॒चसे॒ नवा॑नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ॥
सम् उ वां यज्ञम् महयं नमोभिर् हुवे वाम् मित्रावरुणा सबाधः |
प्र वाम् मन्मान्य् ऋचसे नवानि कृतानि ब्रह्म जुजुषन्न् इमानि ||
sámu vām yajñám mahayam námobhirhuvé vām mitrāvaruṇā sabā́dhaḥ ǀ
prá vām mánmānyṛcáse návāni kṛtā́ni bráhma jujuṣannimā́ni ǁ
sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ |
pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni ||
Padapāṭha
सम् । ऊं॒ इति॑ । वा॒म् । य॒ज्ञम् । म॒ह॒य॒म् । नमः॑ऽभिः । हु॒वे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स॒ऽबाधः॑ ।
प्र । वा॒म् । मन्मा॑नि । ऋ॒चसे॑ । नवा॑नि । कृ॒तानि॑ । ब्रह्म॑ । जु॒जु॒ष॒न् । इ॒मानि॑ ॥
सम् । ऊं इति । वाम् । यज्ञम् । महयम् । नमःऽभिः । हुवे । वाम् । मित्रावरुणा । सऽबाधः ।
प्र । वाम् । मन्मानि । ऋचसे । नवानि । कृतानि । ब्रह्म । जुजुषन् । इमानि ॥
sám ǀ ūṃ íti ǀ vām ǀ yajñám ǀ mahayam ǀ námaḥ-bhiḥ ǀ huvé ǀ vām ǀ mitrāvaruṇā ǀ sa-bā́dhaḥ ǀ
prá ǀ vām ǀ mánmāni ǀ ṛcáse ǀ návāni ǀ kṛtā́ni ǀ bráhma ǀ jujuṣan ǀ imā́ni ǁ
sam ǀ ūṃ iti ǀ vām ǀ yajñam ǀ mahayam ǀ namaḥ-bhiḥ ǀ huve ǀ vām ǀ mitrāvaruṇā ǀ sa-bādhaḥ ǀ
pra ǀ vām ǀ manmāni ǀ ṛcase ǀ navāni ǀ kṛtāni ǀ brahma ǀ jujuṣan ǀ imāni ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.061.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.03.06
- Maṇḍala · Anuvāka · Ṛk
- 07.04.068
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.