Ṛk 7.2.5
Saṃhitā
स्वा॒ध्यो॒३॒॑ वि दुरो॑ देव॒यंतोऽशि॑श्रयू रथ॒युर्दे॒वता॑ता ।
पू॒र्वी शिशुं॒ न मा॒तरा॑ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वंजन् ॥
स्वाध्यो वि दुरो देवयन्तो ऽशिश्रयू रथयुर् देवताता |
पूर्वी शिशुं न मातरा रिहाणे सम् अग्रुवो न समनेष्व् अञ्जन् ||
svādhyo ví dúro devayántó’śiśrayū rathayúrdevátātā ǀ
pūrvī́ śíśum ná mātárā rihāṇé sámagrúvo ná sámaneṣvañjan ǁ
svādhyo vi duro devayanto 'śiśrayū rathayur devatātā |
pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan ||
Padapāṭha
सु॒ऽआ॒ध्यः॑ । वि । दुरः॑ । दे॒व॒ऽयन्तः॑ । अशि॑श्रयुः । र॒थ॒ऽयुः । दे॒वऽता॑ता ।
पू॒र्वी इति॑ । शिशु॑म् । न । मा॒तरा॑ । रि॒हा॒णे इति॑ । सम् । अ॒ग्रुवः॑ । न । सम॑नेषु । अ॒ञ्ज॒न् ॥
सुऽआध्यः । वि । दुरः । देवऽयन्तः । अशिश्रयुः । रथऽयुः । देवऽताता ।
पूर्वी इति । शिशुम् । न । मातरा । रिहाणे इति । सम् । अग्रुवः । न । समनेषु । अञ्जन् ॥
su-ādhyáḥ ǀ ví ǀ dúraḥ ǀ deva-yántaḥ ǀ áśiśrayuḥ ǀ ratha-yúḥ ǀ devá-tātā ǀ
pūrvī́ íti ǀ śíśum ǀ ná ǀ mātárā ǀ rihāṇé íti ǀ sám ǀ agrúvaḥ ǀ ná ǀ sámaneṣu ǀ añjan ǁ
su-ādhyaḥ ǀ vi ǀ duraḥ ǀ deva-yantaḥ ǀ aśiśrayuḥ ǀ ratha-yuḥ ǀ deva-tātā ǀ
pūrvī iti ǀ śiśum ǀ na ǀ mātarā ǀ rihāṇe iti ǀ sam ǀ agruvaḥ ǀ na ǀ samaneṣu ǀ añjan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.002.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.01.05
- Maṇḍala · Anuvāka · Ṛk
- 07.01.030
- Devatā देवता
- 1, 3: Agni; 2, 4-11: Hymn Āprī
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.