Ṛk 7.86.3
Saṃhitā
पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छं॑ ।
स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥
पृच्छे तद् एनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् |
समानम् इन् मे कवयश् चिद् आहुर् अयं ह तुभ्यं वरुणो हृणीते ||
pṛcché tádéno varuṇa didṛ́kṣū́po emi cikitúṣo vipṛ́ccham ǀ
samānámínme kaváyaścidāhurayám ha túbhyam váruṇo hṛṇīte ǁ
pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham |
samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte ||
Padapāṭha
पृ॒च्छे । तत् । एनः॑ । व॒रु॒ण॒ । दि॒दृक्षु॑ । उपो॒ इति॑ । ए॒मि॒ । चि॒कि॒तुषः॑ । वि॒ऽपृच्छ॑म् ।
स॒मा॒नम् । इत् । मे॒ । क॒वयः॑ । चि॒त् । आ॒हुः॒ । अ॒यम् । ह॒ । तुभ्य॑म् । वरु॑णः । हृ॒णी॒ते॒ ॥
पृच्छे । तत् । एनः । वरुण । दिदृक्षु । उपो इति । एमि । चिकितुषः । विऽपृच्छम् ।
समानम् । इत् । मे । कवयः । चित् । आहुः । अयम् । ह । तुभ्यम् । वरुणः । हृणीते ॥
pṛcché ǀ tát ǀ énaḥ ǀ varuṇa ǀ didṛ́kṣu ǀ úpo íti ǀ emi ǀ cikitúṣaḥ ǀ vi-pṛ́ccham ǀ
samānám ǀ ít ǀ me ǀ kaváyaḥ ǀ cit ǀ āhuḥ ǀ ayám ǀ ha ǀ túbhyam ǀ váruṇaḥ ǀ hṛṇīte ǁ
pṛcche ǀ tat ǀ enaḥ ǀ varuṇa ǀ didṛkṣu ǀ upo iti ǀ emi ǀ cikituṣaḥ ǀ vi-pṛccham ǀ
samānam ǀ it ǀ me ǀ kavayaḥ ǀ cit ǀ āhuḥ ǀ ayam ǀ ha ǀ tubhyam ǀ varuṇaḥ ǀ hṛṇīte ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.086.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.08.03
- Maṇḍala · Anuvāka · Ṛk
- 07.05.095
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.