Ṛk 7.86.5
Saṃhitā
अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ ।
अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठं ॥
अव द्रुग्धानि पित्र्या सृजा नो ऽव या वयं चकृमा तनूभिः |
अव राजन् पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ||
áva drugdhā́ni pítryā sṛjā nó’va yā́ vayám cakṛmā́ tanū́bhiḥ ǀ
áva rājanpaśutṛ́pam ná tāyúm sṛjā́ vatsám ná dā́mno vásiṣṭham ǁ
ava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ |
ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham ||
Padapāṭha
अव॑ । द्रु॒ग्धानि॑ । पित्र्या॑ । सृ॒ज॒ । नः॒ । अव॑ । या । व॒यम् । च॒कृ॒म । त॒नूभिः॑ ।
अव॑ । रा॒ज॒न् । प॒शु॒ऽतृप॑म् । न । ता॒युम् । सृ॒ज । व॒त्सम् । न । दाम्नः॑ । वसि॑ष्ठम् ॥
अव । द्रुग्धानि । पित्र्या । सृज । नः । अव । या । वयम् । चकृम । तनूभिः ।
अव । राजन् । पशुऽतृपम् । न । तायुम् । सृज । वत्सम् । न । दाम्नः । वसिष्ठम् ॥
áva ǀ drugdhā́ni ǀ pítryā ǀ sṛja ǀ naḥ ǀ áva ǀ yā́ ǀ vayám ǀ cakṛmá ǀ tanū́bhiḥ ǀ
áva ǀ rājan ǀ paśu-tṛ́pam ǀ ná ǀ tāyúm ǀ sṛjá ǀ vatsám ǀ ná ǀ dā́mnaḥ ǀ vásiṣṭham ǁ
ava ǀ drugdhāni ǀ pitryā ǀ sṛja ǀ naḥ ǀ ava ǀ yā ǀ vayam ǀ cakṛma ǀ tanūbhiḥ ǀ
ava ǀ rājan ǀ paśu-tṛpam ǀ na ǀ tāyum ǀ sṛja ǀ vatsam ǀ na ǀ dāmnaḥ ǀ vasiṣṭham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.086.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.08.05
- Maṇḍala · Anuvāka · Ṛk
- 07.05.097
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.