Ṛk 7.81.2
Saṃhitā
उदु॒स्रियाः॑ सृजते॒ सूर्यः॒ सचाँ॑ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् ।
तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥
उद् उस्रियाः सृजते सूर्यः सचां उद्यन् नक्षत्रम् अर्चिवत् |
तवेद् उषो व्युषि सूर्यस्य च सम् भक्तेन गमेमहि ||
údusríyāḥ sṛjate sū́ryaḥ sácām̐ udyánnákṣatramarcivát ǀ
távéduṣo vyúṣi sū́ryasya ca sám bhakténa gamemahi ǁ
ud usriyāḥ sṛjate sūryaḥ sacāṃ udyan nakṣatram arcivat |
taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi ||
Padapāṭha
उत् । उ॒स्रियाः॑ । सृ॒ज॒ते॒ । सूर्यः॑ । सचा॑ । उ॒त्ऽयत् । नक्ष॑त्रम् । अ॒र्चि॒ऽवत् ।
तव॑ । इत् । उ॒षः॒ । वि॒ऽउषि॑ । सूर्य॑स्य । च॒ । सम् । भ॒क्तेन॑ । ग॒मे॒म॒हि॒ ॥
उत् । उस्रियाः । सृजते । सूर्यः । सचा । उत्ऽयत् । नक्षत्रम् । अर्चिऽवत् ।
तव । इत् । उषः । विऽउषि । सूर्यस्य । च । सम् । भक्तेन । गमेमहि ॥
út ǀ usríyāḥ ǀ sṛjate ǀ sū́ryaḥ ǀ sácā ǀ ut-yát ǀ nákṣatram ǀ arci-vát ǀ
táva ǀ ít ǀ uṣaḥ ǀ vi-úṣi ǀ sū́ryasya ǀ ca ǀ sám ǀ bhakténa ǀ gamemahi ǁ
ut ǀ usriyāḥ ǀ sṛjate ǀ sūryaḥ ǀ sacā ǀ ut-yat ǀ nakṣatram ǀ arci-vat ǀ
tava ǀ it ǀ uṣaḥ ǀ vi-uṣi ǀ sūryasya ǀ ca ǀ sam ǀ bhaktena ǀ gamemahi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.081.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.01.02
- Maṇḍala · Anuvāka · Ṛk
- 07.05.058
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.