Ṛk 7.11.3
Saṃhitā
त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अं॒तर्दा॒शुषे॒ मर्त्या॑य ।
म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥
त्रिश् चिद् अक्तोः प्र चिकितुर् वसूनि त्वे अन्तर् दाशुषे मर्त्याय |
मनुष्वद् अग्न इह यक्षि देवान् भवा नो दूतो अभिशस्तिपावा ||
tríścidaktóḥ prá cikiturvásūni tvé antárdāśúṣe mártyāya ǀ
manuṣvádagna ihá yakṣi devā́nbhávā no dūtó abhiśastipā́vā ǁ
triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya |
manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā ||
Padapāṭha
त्रिः । चि॒त् । अ॒क्तोः । प्र । चि॒कि॒तुः॒ । वसू॑नि । त्वे इति॑ । अ॒न्तः । दा॒शुषे॑ । मर्त्या॑य ।
म॒नु॒ष्वत् । अ॒ग्ने॒ । इ॒ह । य॒क्षि॒ । दे॒वान् । भव॑ । नः॒ । दू॒तः । अ॒भि॒श॒स्ति॒ऽपावा॑ ॥
त्रिः । चित् । अक्तोः । प्र । चिकितुः । वसूनि । त्वे इति । अन्तः । दाशुषे । मर्त्याय ।
मनुष्वत् । अग्ने । इह । यक्षि । देवान् । भव । नः । दूतः । अभिशस्तिऽपावा ॥
tríḥ ǀ cit ǀ aktóḥ ǀ prá ǀ cikituḥ ǀ vásūni ǀ tvé íti ǀ antáḥ ǀ dāśúṣe ǀ mártyāya ǀ
manuṣvát ǀ agne ǀ ihá ǀ yakṣi ǀ devā́n ǀ bháva ǀ naḥ ǀ dūtáḥ ǀ abhiśasti-pā́vā ǁ
triḥ ǀ cit ǀ aktoḥ ǀ pra ǀ cikituḥ ǀ vasūni ǀ tve iti ǀ antaḥ ǀ dāśuṣe ǀ martyāya ǀ
manuṣvat ǀ agne ǀ iha ǀ yakṣi ǀ devān ǀ bhava ǀ naḥ ǀ dūtaḥ ǀ abhiśasti-pāvā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.011.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.14.03
- Maṇḍala · Anuvāka · Ṛk
- 07.01.100
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.