Ṛgveda · Maṇḍala 7 · Sūkta 93

Ṛk 7.93.8

Agni, Indra · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

ए॒ता अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् ।
मेंद्रो॑ नो॒ विष्णु॑र्म॒रुतः॒ परि॑ ख्यन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

एता अग्न आशुषाणास इष्टीर् युवोः सचाभ्य् अश्याम वाजान् |
मेन्द्रो नो विष्णुर् मरुतः परि ख्यन् यूयम् पात स्वस्तिभिः सदा नः ||

etā́ agna āśuṣāṇā́sa iṣṭī́ryuvóḥ sácābhyáśyāma vā́jān ǀ
méndro no víṣṇurmarútaḥ pári khyanyūyám pāta svastíbhiḥ sádā naḥ ǁ

etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān |
mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

ए॒ताः । अ॒ग्ने॒ । आ॒शु॒षा॒णासः॑ । इ॒ष्टीः । यु॒वोः । सचा॑ । अ॒भि । अ॒श्या॒म॒ । वाजा॑न् ।
मा । इन्द्रः॑ । नः॒ । विष्णुः॑ । म॒रुतः॑ । परि॑ । ख्य॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

एताः । अग्ने । आशुषाणासः । इष्टीः । युवोः । सचा । अभि । अश्याम । वाजान् ।
मा । इन्द्रः । नः । विष्णुः । मरुतः । परि । ख्यन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

etā́ḥ ǀ agne ǀ āśuṣāṇā́saḥ ǀ iṣṭī́ḥ ǀ yuvóḥ ǀ sácā ǀ abhí ǀ aśyāma ǀ vā́jān ǀ
mā́ ǀ índraḥ ǀ naḥ ǀ víṣṇuḥ ǀ marútaḥ ǀ pári ǀ khyan ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

etāḥ ǀ agne ǀ āśuṣāṇāsaḥ ǀ iṣṭīḥ ǀ yuvoḥ ǀ sacā ǀ abhi ǀ aśyāma ǀ vājān ǀ
mā ǀ indraḥ ǀ naḥ ǀ viṣṇuḥ ǀ marutaḥ ǀ pari ǀ khyan ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.093.08
Aṣṭaka · Adhyāya · Varga · Ṛk
5.6.16.03
Maṇḍala · Anuvāka · Ṛk
07.06.027
Devatā देवता
Agni, Indra
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.93.8

Interpretations

Sāyaṇa

इयंवामिति द्वादशर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षमैन्द्राग्नं द्वादशी अनुष्टुप् शिष्टागायत्र्यः तथाचानुक्रान्तम्-इयंवांद्वादशगायत्रमन्त्यानु- ष्टुबिति । ज्योतिष्टोमे प्रातःसवनेच्छावाकशस्त्रे आदितोनवर्चः शस्यन्ते सूत्र्यतेहि-इयंवामस्यमन्मनइति नवेति । आभिप्लविकेषूक्थ्येषु स्तोमेषु वृद्धावच्छावाकस्य प्रातःसवने इदंसूक्तमावापार्थम् उत्तमावर्जं । सूत्रितश्च-इयंवामस्यमन्मनइत्येकादशेति । चातुर्विंशिकेहनि प्रातःसवने एतस्यैवाद्यस्तृचः सूत्रितंच-इयंवामस्यमन्मनइन्द्राग्नीयुवामिमइति ।