Ṛk 7.93.1
Saṃhitā
शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येंद्रा॑ग्नी वृत्रहणा जु॒षेथां॑ ।
उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥
शुचिं नु स्तोमं नवजातम् अद्येन्द्राग्नी वृत्रहणा जुषेथाम् |
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ||
śúcim nú stómam návajātamadyéndrāgnī vṛtrahaṇā juṣéthām ǀ
ubhā́ hí vām suhávā jóhavīmi tā́ vā́jam sadyá uśaté dhéṣṭhā ǁ
śuciṃ nu stomaṃ navajātam adyendrāgnī vṛtrahaṇā juṣethām |
ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā ||
Padapāṭha
शुचि॑म् । नु । स्तोम॑म् । नव॑ऽजातम् । अ॒द्य । इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । जु॒षेथा॑म् ।
उ॒भा । हि । वा॒म् । सु॒ऽहवा॑ । जोह॑वीमि । ता । वाज॑म् । स॒द्यः । उ॒श॒ते । धेष्ठा॑ ॥
शुचिम् । नु । स्तोमम् । नवऽजातम् । अद्य । इन्द्राग्नी इति । वृत्रऽहना । जुषेथाम् ।
उभा । हि । वाम् । सुऽहवा । जोहवीमि । ता । वाजम् । सद्यः । उशते । धेष्ठा ॥
śúcim ǀ nú ǀ stómam ǀ náva-jātam ǀ adyá ǀ índrāgnī íti ǀ vṛtra-hanā ǀ juṣéthām ǀ
ubhā́ ǀ hí ǀ vām ǀ su-hávā ǀ jóhavīmi ǀ tā́ ǀ vā́jam ǀ sadyáḥ ǀ uśaté ǀ dhéṣṭhā ǁ
śucim ǀ nu ǀ stomam ǀ nava-jātam ǀ adya ǀ indrāgnī iti ǀ vṛtra-hanā ǀ juṣethām ǀ
ubhā ǀ hi ǀ vām ǀ su-havā ǀ johavīmi ǀ tā ǀ vājam ǀ sadyaḥ ǀ uśate ǀ dheṣṭhā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.093.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.15.01
- Maṇḍala · Anuvāka · Ṛk
- 07.06.020
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.