Ṛgveda · Maṇḍala 7 · Sūkta 92

Ṛk 7.92.5

Vāyu · Indra, Vāyu · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञं ।
वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि यज्ञम् |
वायो अस्मिन् सवने मादयस्व यूयम् पात स्वस्तिभिः सदा नः ||

ā́ no niyúdbhiḥ śatínībhiradhvarám sahasríṇībhirúpa yāhi yajñám ǀ
vā́yo asmíntsávane mādayasva yūyám pāta svastíbhiḥ sádā naḥ ǁ

ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi yajñam |
vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । य॒ज्ञम् ।
वायो॒ इति॑ । अ॒स्मिन् । सव॑ने । मा॒द॒य॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

आ । नः । नियुत्ऽभिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । यज्ञम् ।
वायो इति । अस्मिन् । सवने । मादयस्व । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

ā́ ǀ naḥ ǀ niyút-bhiḥ ǀ śatínībhiḥ ǀ adhvarám ǀ sahasríṇībhiḥ ǀ úpa ǀ yāhi ǀ yajñám ǀ
vā́yo íti ǀ asmín ǀ sávane ǀ mādayasva ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

ā ǀ naḥ ǀ niyut-bhiḥ ǀ śatinībhiḥ ǀ adhvaram ǀ sahasriṇībhiḥ ǀ upa ǀ yāhi ǀ yajñam ǀ
vāyo iti ǀ asmin ǀ savane ǀ mādayasva ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.092.05
Aṣṭaka · Adhyāya · Varga · Ṛk
5.6.14.05
Maṇḍala · Anuvāka · Ṛk
07.06.019
Devatā देवता
1, 3-5: Vāyu; 2: Indra, Vāyu
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.92.5

Interpretations

Sāyaṇa

शुचिंभि यष्टर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्राग्नं अनुक्रम्यते हि शुचिंन्वष्टावैन्द्राग्नंत्विति । गतः सूक्तविनियोगः ऎन्द्राग्नस्य पशोर्वपायाः शुचिमित्येषायाज्या सूत्रितञ्च-शुचिंनुस्तोमंनवजातमद्य गीर्भिर्विप्रः प्रमतिमिच्छमानइति ।