Ṛk 7.72.4
Saṃhitā
वि चेदु॒च्छंत्य॑श्विना उ॒षासः॒ प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरंते ।
ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा॑ जरंते ॥
वि चेद् उच्छन्त्य् अश्विना उषासः प्र वाम् ब्रह्माणि कारवो भरन्ते |
ऊर्ध्वम् भानुं सविता देवो अश्रेद् बृहद् अग्नयः समिधा जरन्ते ||
ví céducchántyaśvinā uṣā́saḥ prá vām bráhmāṇi kārávo bharante ǀ
ūrdhvám bhānúm savitā́ devó aśredbṛhádagnáyaḥ samídhā jarante ǁ
vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante |
ūrdhvam bhānuṃ savitā devo aśred bṛhad agnayaḥ samidhā jarante ||
Padapāṭha
वि । च॒ । इत् । उ॒च्छन्ति॑ । अ॒श्वि॒नौ॒ । उ॒षसः॑ । प्र । वा॒म् । ब्रह्मा॑णि । का॒रवः॑ । भ॒र॒न्ते॒ ।
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । बृ॒हत् । अ॒ग्नयः॑ । स॒म्ऽइधा॑ । ज॒र॒न्ते॒ ॥
वि । च । इत् । उच्छन्ति । अश्विनौ । उषसः । प्र । वाम् । ब्रह्माणि । कारवः । भरन्ते ।
ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । बृहत् । अग्नयः । सम्ऽइधा । जरन्ते ॥
ví ǀ ca ǀ ít ǀ ucchánti ǀ aśvinau ǀ uṣásaḥ ǀ prá ǀ vām ǀ bráhmāṇi ǀ kārávaḥ ǀ bharante ǀ
ūrdhvám ǀ bhānúm ǀ savitā́ ǀ deváḥ ǀ aśret ǀ bṛhát ǀ agnáyaḥ ǀ sam-ídhā ǀ jarante ǁ
vi ǀ ca ǀ it ǀ ucchanti ǀ aśvinau ǀ uṣasaḥ ǀ pra ǀ vām ǀ brahmāṇi ǀ kāravaḥ ǀ bharante ǀ
ūrdhvam ǀ bhānum ǀ savitā ǀ devaḥ ǀ aśret ǀ bṛhat ǀ agnayaḥ ǀ sam-idhā ǀ jarante ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.072.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.19.04
- Maṇḍala · Anuvāka · Ṛk
- 07.05.010
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.