Ṛk 7.71.5
Saṃhitā
यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्वं॑ ।
निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तमं॒तः ॥
युवं च्यवानं जरसो ऽमुमुक्तं नि पेदव ऊहथुर् आशुम् अश्वम् |
निर् अंहसस् तमस स्पर्तम् अत्रिं नि जाहुषं शिथिरे धातम् अन्तः ||
yuvám cyávānam jaráso’mumuktam ní pedáva ūhathurāśúmáśvam ǀ
níráṃhasastámasaḥ spartamátrim ní jāhuṣám śithiré dhātamantáḥ ǁ
yuvaṃ cyavānaṃ jaraso 'mumuktaṃ ni pedava ūhathur āśum aśvam |
nir aṃhasas tamasa spartam atriṃ ni jāhuṣaṃ śithire dhātam antaḥ ||
Padapāṭha
यु॒वम् । च्यवा॑नम् । ज॒रसः॑ । अ॒मु॒मु॒क्त॒म् । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् ।
निः । अंह॑सः । तम॑सः । स्प॒र्त॒म् । अत्रि॑म् । नि । जा॒हु॒षम् । शि॒थि॒रे । धा॒त॒म् । अ॒न्तरिति॑ ॥
युवम् । च्यवानम् । जरसः । अमुमुक्तम् । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् ।
निः । अंहसः । तमसः । स्पर्तम् । अत्रिम् । नि । जाहुषम् । शिथिरे । धातम् । अन्तरिति ॥
yuvám ǀ cyávānam ǀ jarásaḥ ǀ amumuktam ǀ ní ǀ pedáve ǀ ūhathuḥ ǀ āśúm ǀ áśvam ǀ
níḥ ǀ áṃhasaḥ ǀ támasaḥ ǀ spartam ǀ átrim ǀ ní ǀ jāhuṣám ǀ śithiré ǀ dhātam ǀ antáríti ǁ
yuvam ǀ cyavānam ǀ jarasaḥ ǀ amumuktam ǀ ni ǀ pedave ǀ ūhathuḥ ǀ āśum ǀ aśvam ǀ
niḥ ǀ aṃhasaḥ ǀ tamasaḥ ǀ spartam ǀ atrim ǀ ni ǀ jāhuṣam ǀ śithire ǀ dhātam ǀ antariti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.071.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.18.05
- Maṇḍala · Anuvāka · Ṛk
- 07.05.005
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.