Ṛgveda · Maṇḍala 7 · Sūkta 104
Ṛk 7.104.13
Saṃhitā
न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रयं॑तं ।
हंति॒ रक्षो॒ हंत्यास॒द्वदं॑तमु॒भाविंद्र॑स्य॒ प्रसि॑तौ शयाते ॥
न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया धारयन्तम् |
हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते ||
ná vā́ u sómo vṛjinám hinoti ná kṣatríyam mithuyā́ dhāráyantam ǀ
hánti rákṣo hántyā́sadvádantamubhā́víndrasya prásitau śayāte ǁ
na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam |
hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte ||
Padapāṭha
न । वै । ऊं॒ इति॑ । सोमः॑ । वृ॒जि॒नम् । हि॒नो॒ति॒ । न । क्ष॒त्रिय॑म् । मि॒थु॒या । धा॒रय॑न्तम् ।
हन्ति॑ । रक्षः॑ । हन्ति॑ । अस॑त् । वद॑न्तम् । उ॒भौ । इन्द्र॑स्य । प्रऽसि॑तौ । श॒या॒ते॒ इति॑ ॥
न । वै । ऊं इति । सोमः । वृजिनम् । हिनोति । न । क्षत्रियम् । मिथुया । धारयन्तम् ।
हन्ति । रक्षः । हन्ति । असत् । वदन्तम् । उभौ । इन्द्रस्य । प्रऽसितौ । शयाते इति ॥
ná ǀ vái ǀ ūṃ íti ǀ sómaḥ ǀ vṛjinám ǀ hinoti ǀ ná ǀ kṣatríyam ǀ mithuyā́ ǀ dhāráyantam ǀ
hánti ǀ rákṣaḥ ǀ hánti ǀ ásat ǀ vádantam ǀ ubháu ǀ índrasya ǀ prá-sitau ǀ śayāte íti ǁ
na ǀ vai ǀ ūṃ iti ǀ somaḥ ǀ vṛjinam ǀ hinoti ǀ na ǀ kṣatriyam ǀ mithuyā ǀ dhārayantam ǀ
hanti ǀ rakṣaḥ ǀ hanti ǀ asat ǀ vadantam ǀ ubhau ǀ indrasya ǀ pra-sitau ǀ śayāte iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.104.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.7.07.03
- Maṇḍala · Anuvāka · Ṛk
- 07.06.114
- Devatā देवता
- 1-7, 15, 25: Indra, Soma; 8, 16, 19-22, 24: Indra; 9, 12, 13: Soma; 10, 14: Agni; 11: Devāḥ; 17: Grāvāṇaḥ; 18: Maruts; 23: Vasiṣṭha’s Wish (A); Pṛthivī, Antarikṣa (C)
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Jagatī, Jagatī Or Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.