Ṛgveda · Maṇḍala 8 · Sūkta 1

Ṛk 8.1.34

Indra · Āsaṅga’s Dānastuti · Āsaṅga · 1, 2: Pragātha Kāṇva (Formerly Pragātha Ghaura, Brother And Adoptive Son Of Kaṇva); 3-29: Medhātithi Kāṇva; Medhyātithi Kāṇva; 30-33: Āsaṅga Plāyogi; 34: Śaśvatī Āṅgirasī

The whole sūkta Link

Saṃhitā

अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रंब॑माणः ।
शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥

अन्व् अस्य स्थूरं ददृशे पुरस्ताद् अनस्थ ऊरुर् अवरम्बमाणः |
शश्वती नार्य् अभिचक्ष्याह सुभद्रम् अर्य भोजनम् बिभर्षि ||

ánvasya sthūrám dadṛśe purástādanasthá ūrúravarámbamāṇaḥ ǀ
śáśvatī nā́ryabhicákṣyāha súbhadramarya bhójanam bibharṣi ǁ

anv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ |
śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi ||

Padapāṭha

अनु॑ । अ॒स्य॒ । स्थू॒रम् । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒न॒स्थः । ऊ॒रुः । अ॒व॒ऽरम्ब॑माणः ।
शश्व॑ती । नारी॑ । अ॒भि॒ऽचक्ष्य॑ । आ॒ह॒ । सुऽभ॑द्रम् । अ॒र्य॒ । भोज॑नम् । बि॒भ॒र्षि॒ ॥

अनु । अस्य । स्थूरम् । ददृशे । पुरस्तात् । अनस्थः । ऊरुः । अवऽरम्बमाणः ।
शश्वती । नारी । अभिऽचक्ष्य । आह । सुऽभद्रम् । अर्य । भोजनम् । बिभर्षि ॥

ánu ǀ asya ǀ sthūrám ǀ dadṛśe ǀ purástāt ǀ anastháḥ ǀ ūrúḥ ǀ ava-rámbamāṇaḥ ǀ
śáśvatī ǀ nā́rī ǀ abhi-cákṣya ǀ āha ǀ sú-bhadram ǀ arya ǀ bhójanam ǀ bibharṣi ǁ

anu ǀ asya ǀ sthūram ǀ dadṛśe ǀ purastāt ǀ anasthaḥ ǀ ūruḥ ǀ ava-rambamāṇaḥ ǀ
śaśvatī ǀ nārī ǀ abhi-cakṣya ǀ āha ǀ su-bhadram ǀ arya ǀ bhojanam ǀ bibharṣi ǁ

References

Maṇḍala · Sūkta · Ṛk
08.001.34
Aṣṭaka · Adhyāya · Varga · Ṛk
5.7.16.04
Maṇḍala · Anuvāka · Ṛk
08.01.034
Devatā देवता
1-29: Indra; 30-33: Āsaṅga’s Dānastuti; 34: Āsaṅga
Ṛṣi ऋषि
1, 2: Pragātha Kāṇva (Formerly Pragātha Ghaura, Brother And Adoptive Son Of Kaṇva); 3-29: Medhātithi Kāṇva; Medhyātithi Kāṇva; 30-33: Āsaṅga Plāyogi; 34: Śaśvatī Āṅgirasī
Chandas छन्दस्
Bṛhatī, Satobṛhatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.1.34

Interpretations

Sāyaṇa

इदंवसोइति द्विचत्वारिंशदृचं द्वितीयं सूक्तं काण्वस्य मेध्यातिथेः आङ्गिरसस्यच प्रियमेधस्यार्षं शिक्षाविभिन्दइत्यादिके द्वे मेधातिथेरेव । स्वादवः सोमाइत्येषानुष्टुप् शिष्टागायत्र्यः इन्द्रोदेवता अंत्येद्वेऋचौ विभिन्दोर्दानस्तुतित्वात्तद्देवताके तथाचानुक्रान्तम्- इदंवसोद्विचत्वारिंशन्मेध्यातिथिराङ्गिरसश्च प्रियमेधः स्वादवोनुष्टुबन्त्याभ्यां मेधातिथिर्विभिन्दोर्दानं तुष्टावेति । गतः सूक्तविनि- योगः । ज्योतिष्टोमे मरुत्वतीये आद्यस्तृचोनुचरः सूत्र्यतेहि-इदंवसोसुतमन्धइति मरुत्वतीयस्य प्रतिपदनुचराविति । द्वितीये रात्रीपर्याये ब्रह्मशस्त्रे अयमेवस्तोत्रियस्तृचः सूत्रितञ्च-इदंवसोसुतमन्धइन्द्रेहिमत्स्यन्धसइति अयमेवचतुर्थेहन्यपि मरुत्वतीयस्यानुचरस्तृचः सूत्रितञ्च- तंत्वायज्ञेभिरीमहइदंवसोसुतमन्धइति मरुत्वतीयस्यप्रतिपदनुचराविति ।