Ṛk 7.12.2
Saṃhitā
स म॒ह्ना विश्वा॑ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः ।
स नो॑ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो॑ म॒घोनः॑ ॥
स मह्ना विश्वा दुरितानि साह्वान् अग्नि ष्टवे दम आ जातवेदाः |
स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः ||
sá mahnā́ víśvā duritā́ni sāhvā́nagníḥ ṣṭave dáma ā́ jātávedāḥ ǀ
sá no rakṣiṣadduritā́davadyā́dasmā́ngṛṇatá utá no maghónaḥ ǁ
sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ |
sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ ||
Padapāṭha
सः । म॒ह्ना । विश्वा॑ । दुः॒ऽइ॒तानि॑ । स॒ह्वान् । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः ।
सः । नः॒ । र॒क्षि॒ष॒त् । दुः॒ऽइ॒तात् । अ॒व॒द्यात् । अ॒स्मान् । गृ॒ण॒तः । उ॒त । नः॒ । म॒घोनः॑ ॥
सः । मह्ना । विश्वा । दुःऽइतानि । सह्वान् । अग्निः । स्तवे । दमे । आ । जातऽवेदाः ।
सः । नः । रक्षिषत् । दुःऽइतात् । अवद्यात् । अस्मान् । गृणतः । उत । नः । मघोनः ॥
sáḥ ǀ mahnā́ ǀ víśvā ǀ duḥ-itā́ni ǀ sahvā́n ǀ agníḥ ǀ stave ǀ dáme ǀ ā́ ǀ jātá-vedāḥ ǀ
sáḥ ǀ naḥ ǀ rakṣiṣat ǀ duḥ-itā́t ǀ avadyā́t ǀ asmā́n ǀ gṛṇatáḥ ǀ utá ǀ naḥ ǀ maghónaḥ ǁ
saḥ ǀ mahnā ǀ viśvā ǀ duḥ-itāni ǀ sahvān ǀ agniḥ ǀ stave ǀ dame ǀ ā ǀ jāta-vedāḥ ǀ
saḥ ǀ naḥ ǀ rakṣiṣat ǀ duḥ-itāt ǀ avadyāt ǀ asmān ǀ gṛṇataḥ ǀ uta ǀ naḥ ǀ maghonaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.012.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.15.02
- Maṇḍala · Anuvāka · Ṛk
- 07.01.104
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.