Ṛk 7.60.2
Saṃhitā
ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् ।
विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥
एष स्य मित्रावरुणा नृचक्षा उभे उद् एति सूर्यो अभि ज्मन् |
विश्वस्य स्थातुर् जगतश् च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ||
eṣá syá mitrāvaruṇā nṛcákṣā ubhé údeti sū́ryo abhí jmán ǀ
víśvasya sthātúrjágataśca gopā́ ṛjú márteṣu vṛjinā́ ca páśyan ǁ
eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman |
viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan ||
Padapāṭha
ए॒षः । स्यः । मि॒त्रा॒व॒रु॒णा॒ । नृ॒ऽचक्षाः॑ । उ॒भे इति॑ । उत् । ए॒ति॒ । सूर्यः॑ । अ॒भि । ज्मन् ।
विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । गो॒पाः । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥
एषः । स्यः । मित्रावरुणा । नृऽचक्षाः । उभे इति । उत् । एति । सूर्यः । अभि । ज्मन् ।
विश्वस्य । स्थातुः । जगतः । च । गोपाः । ऋजु । मर्तेषु । वृजिना । च । पश्यन् ॥
eṣáḥ ǀ syáḥ ǀ mitrāvaruṇā ǀ nṛ-cákṣāḥ ǀ ubhé íti ǀ út ǀ eti ǀ sū́ryaḥ ǀ abhí ǀ jmán ǀ
víśvasya ǀ sthātúḥ ǀ jágataḥ ǀ ca ǀ gopā́ḥ ǀ ṛjú ǀ márteṣu ǀ vṛjinā́ ǀ ca ǀ páśyan ǁ
eṣaḥ ǀ syaḥ ǀ mitrāvaruṇā ǀ nṛ-cakṣāḥ ǀ ubhe iti ǀ ut ǀ eti ǀ sūryaḥ ǀ abhi ǀ jman ǀ
viśvasya ǀ sthātuḥ ǀ jagataḥ ǀ ca ǀ gopāḥ ǀ ṛju ǀ marteṣu ǀ vṛjinā ǀ ca ǀ paśyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.060.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.01.02
- Maṇḍala · Anuvāka · Ṛk
- 07.04.052
- Devatā देवता
- 1: Aryaman, Mitra, Varuṇa, Sūrya, Aditi; 2-12: Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.