Ṛk 7.60.6
Saṃhitā
इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयंति॒ दक्षैः॑ ।
अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वतं॑तस्ति॒रश्चि॒दंहः॑ सु॒पथा॑ नयंति ॥
इमे मित्रो वरुणो दूऌअभासो ऽचेतसं चिच् चितयन्ति दक्षैः |
अपि क्रतुं सुचेतसं वतन्तस् तिरश् चिद् अंहः सुपथा नयन्ति ||
imé mitró váruṇo dūḷábhāso’cetásam ciccitayanti dákṣaiḥ ǀ
ápi krátum sucétasam vátantastiráścidáṃhaḥ supáthā nayanti ǁ
ime mitro varuṇo dūḷabhāso 'cetasaṃ cic citayanti dakṣaiḥ |
api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti ||
Padapāṭha
इ॒मे । मि॒त्रः । वरु॑णः । दुः॒ऽदभा॑सः । अ॒चे॒तस॑म् । चि॒त् । चि॒त॒य॒न्ति॒ । दक्षैः॑ ।
अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । वत॑न्तः । ति॒रः । चि॒त् । अंहः॑ । सु॒ऽपथा॑ । न॒य॒न्ति॒ ॥
इमे । मित्रः । वरुणः । दुःऽदभासः । अचेतसम् । चित् । चितयन्ति । दक्षैः ।
अपि । क्रतुम् । सुऽचेतसम् । वतन्तः । तिरः । चित् । अंहः । सुऽपथा । नयन्ति ॥
imé ǀ mitráḥ ǀ váruṇaḥ ǀ duḥ-dábhāsaḥ ǀ acetásam ǀ cit ǀ citayanti ǀ dákṣaiḥ ǀ
ápi ǀ krátum ǀ su-cétasam ǀ vátantaḥ ǀ tiráḥ ǀ cit ǀ áṃhaḥ ǀ su-páthā ǀ nayanti ǁ
ime ǀ mitraḥ ǀ varuṇaḥ ǀ duḥ-dabhāsaḥ ǀ acetasam ǀ cit ǀ citayanti ǀ dakṣaiḥ ǀ
api ǀ kratum ǀ su-cetasam ǀ vatantaḥ ǀ tiraḥ ǀ cit ǀ aṃhaḥ ǀ su-pathā ǀ nayanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.060.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.01.06
- Maṇḍala · Anuvāka · Ṛk
- 07.04.056
- Devatā देवता
- 1: Aryaman, Mitra, Varuṇa, Sūrya, Aditi; 2-12: Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.