Ṛk 7.87.6
Saṃhitā
अव॒ सिंधुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् ।
गं॒भी॒रशं॑सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा॑ ॥
अव सिन्धुं वरुणो द्यौर् इव स्थाद् द्रप्सो न श्वेतो मृगस् तुविष्मान् |
गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ||
áva síndhum váruṇo dyáuriva sthāddrapsó ná śvetó mṛgástúviṣmān ǀ
gambhīráśaṃso rájaso vimā́naḥ supārákṣatraḥ sató asyá rā́jā ǁ
ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān |
gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā ||
Padapāṭha
अव॑ । सिन्धु॑म् । वरु॑णः । द्यौःऽइ॑व । स्था॒त् । द्र॒प्सः । न । श्वे॒तः । मृ॒गः । तुवि॑ष्मान् ।
ग॒म्भी॒रऽशं॑सः । रज॑सः । वि॒ऽमानः॑ । सु॒पा॒रऽक्ष॑त्रः । स॒तः । अ॒स्य । राजा॑ ॥
अव । सिन्धुम् । वरुणः । द्यौःऽइव । स्थात् । द्रप्सः । न । श्वेतः । मृगः । तुविष्मान् ।
गम्भीरऽशंसः । रजसः । विऽमानः । सुपारऽक्षत्रः । सतः । अस्य । राजा ॥
áva ǀ síndhum ǀ váruṇaḥ ǀ dyáuḥ-iva ǀ sthāt ǀ drapsáḥ ǀ ná ǀ śvetáḥ ǀ mṛgáḥ ǀ túviṣmān ǀ
gambhīrá-śaṃsaḥ ǀ rájasaḥ ǀ vi-mā́naḥ ǀ supārá-kṣatraḥ ǀ satáḥ ǀ asyá ǀ rā́jā ǁ
ava ǀ sindhum ǀ varuṇaḥ ǀ dyauḥ-iva ǀ sthāt ǀ drapsaḥ ǀ na ǀ śvetaḥ ǀ mṛgaḥ ǀ tuviṣmān ǀ
gambhīra-śaṃsaḥ ǀ rajasaḥ ǀ vi-mānaḥ ǀ supāra-kṣatraḥ ǀ sataḥ ǀ asya ǀ rājā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.087.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.09.06
- Maṇḍala · Anuvāka · Ṛk
- 07.05.106
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.