Ṛk 7.87.4
Saṃhitā
उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या॑ बिभर्ति ।
वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो॑चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥
उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति |
विद्वान् पदस्य गुह्या न वोचद् युगाय विप्र उपराय शिक्षन् ||
uvā́ca me váruṇo médhirāya tríḥ saptá nā́mā́ghnyā bibharti ǀ
vidvā́npadásya gúhyā ná vocadyugā́ya vípra úparāya śíkṣan ǁ
uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti |
vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan ||
Padapāṭha
उ॒वाच॑ । मे॒ । वरु॑णः । मेधि॑राय । त्रिः । स॒प्त । नाम॑ । अघ्न्या॑ । बि॒भ॒र्ति॒ ।
वि॒द्वान् । प॒दस्य॑ । गुह्या॑ । न । वो॒च॒त् । यु॒गाय॑ । विप्रः॑ । उप॑राय । शिक्ष॑न् ॥
उवाच । मे । वरुणः । मेधिराय । त्रिः । सप्त । नाम । अघ्न्या । बिभर्ति ।
विद्वान् । पदस्य । गुह्या । न । वोचत् । युगाय । विप्रः । उपराय । शिक्षन् ॥
uvā́ca ǀ me ǀ váruṇaḥ ǀ médhirāya ǀ tríḥ ǀ saptá ǀ nā́ma ǀ ághnyā ǀ bibharti ǀ
vidvā́n ǀ padásya ǀ gúhyā ǀ ná ǀ vocat ǀ yugā́ya ǀ vípraḥ ǀ úparāya ǀ śíkṣan ǁ
uvāca ǀ me ǀ varuṇaḥ ǀ medhirāya ǀ triḥ ǀ sapta ǀ nāma ǀ aghnyā ǀ bibharti ǀ
vidvān ǀ padasya ǀ guhyā ǀ na ǀ vocat ǀ yugāya ǀ vipraḥ ǀ uparāya ǀ śikṣan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.087.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.09.04
- Maṇḍala · Anuvāka · Ṛk
- 07.05.104
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.