Ṛk 7.87.5
Saṃhitā
ति॒स्रो द्यावो॒ निहि॑ता अं॒तर॑स्मिंति॒स्रो भूमी॒रुप॑राः॒ षड्वि॑धानाः ।
गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रें॒खं हि॑र॒ण्ययं॑ शु॒भे कं ॥
तिस्रो द्यावो निहिता अन्तर् अस्मिन् तिस्रो भूमीर् उपराः षड्विधानाः |
गृत्सो राजा वरुणश् चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ||
tisró dyā́vo níhitā antárasmintisró bhū́mīrúparāḥ ṣáḍvidhānāḥ ǀ
gṛ́tso rā́jā váruṇaścakra etám diví preṅkhám hiraṇyáyam śubhé kám ǁ
tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ |
gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam ||
Padapāṭha
ति॒स्रः । द्यावः॑ । निऽहि॑ताः । अ॒न्तः । अ॒स्मि॒न् । ति॒स्रः । भूमिः॑ । उप॑राः । षट्ऽवि॑धानाः ।
गृत्सः॑ । राजा॑ । वरु॑णः । च॒क्रे॒ । ए॒तम् । दि॒वि । प्र॒ऽई॒ङ्खम् । हि॒र॒ण्यय॑म् । शु॒भे । कम् ॥
तिस्रः । द्यावः । निऽहिताः । अन्तः । अस्मिन् । तिस्रः । भूमिः । उपराः । षट्ऽविधानाः ।
गृत्सः । राजा । वरुणः । चक्रे । एतम् । दिवि । प्रऽईङ्खम् । हिरण्ययम् । शुभे । कम् ॥
tisráḥ ǀ dyā́vaḥ ǀ ní-hitāḥ ǀ antáḥ ǀ asmin ǀ tisráḥ ǀ bhū́miḥ ǀ úparāḥ ǀ ṣáṭ-vidhānāḥ ǀ
gṛ́tsaḥ ǀ rā́jā ǀ váruṇaḥ ǀ cakre ǀ etám ǀ diví ǀ pra-īṅkhám ǀ hiraṇyáyam ǀ śubhé ǀ kám ǁ
tisraḥ ǀ dyāvaḥ ǀ ni-hitāḥ ǀ antaḥ ǀ asmin ǀ tisraḥ ǀ bhūmiḥ ǀ uparāḥ ǀ ṣaṭ-vidhānāḥ ǀ
gṛtsaḥ ǀ rājā ǀ varuṇaḥ ǀ cakre ǀ etam ǀ divi ǀ pra-īṅkham ǀ hiraṇyayam ǀ śubhe ǀ kam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.087.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.09.05
- Maṇḍala · Anuvāka · Ṛk
- 07.05.105
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.