Ṛk 7.1.13
Saṃhitā
पा॒हि नो॑ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः ।
त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्यां॑ ॥
पाहि नो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेर् अररुषो अघायोः |
त्वा युजा पृतनायूंर् अभि ष्याम् ||
pāhí no agne rakṣáso ájuṣṭātpāhí dhūrtéráraruṣo aghāyóḥ ǀ
tvā́ yujā́ pṛtanāyū́m̐rabhí ṣyām ǁ
pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ |
tvā yujā pṛtanāyūṃr abhi ṣyām ||
Padapāṭha
पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । अजु॑ष्टात् । पा॒हि । धू॒र्तेः । अर॑रुषः । अ॒घ॒ऽयोः ।
त्वा । यु॒जा । पृ॒त॒ना॒ऽयून् । अ॒भि । स्या॒म् ॥
पाहि । नः । अग्ने । रक्षसः । अजुष्टात् । पाहि । धूर्तेः । अररुषः । अघऽयोः ।
त्वा । युजा । पृतनाऽयून् । अभि । स्याम् ॥
pāhí ǀ naḥ ǀ agne ǀ rakṣásaḥ ǀ ájuṣṭāt ǀ pāhí ǀ dhūrtéḥ ǀ áraruṣaḥ ǀ agha-yóḥ ǀ
tvā́ ǀ yujā́ ǀ pṛtanā-yū́n ǀ abhí ǀ syām ǁ
pāhi ǀ naḥ ǀ agne ǀ rakṣasaḥ ǀ ajuṣṭāt ǀ pāhi ǀ dhūrteḥ ǀ araruṣaḥ ǀ agha-yoḥ ǀ
tvā ǀ yujā ǀ pṛtanā-yūn ǀ abhi ǀ syām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.001.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.25.03
- Maṇḍala · Anuvāka · Ṛk
- 07.01.013
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Virāj, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.