Ṛk 7.1.2
Saṃhitā
तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ॑ण्वन्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् ।
द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ॥
तम् अग्निम् अस्ते वसवो न्य् ऋण्वन् सुप्रतिचक्षम् अवसे कुतश् चित् |
दक्षाय्यो यो दम आस नित्यः ||
támagnímáste vásavo nyṛ́ṇvansupraticákṣamávase kútaścit ǀ
dakṣā́yyo yó dáma ā́sa nítyaḥ ǁ
tam agnim aste vasavo ny ṛṇvan supraticakṣam avase kutaś cit |
dakṣāyyo yo dama āsa nityaḥ ||
Padapāṭha
तम् । अ॒ग्निम् । अस्ते॑ । वस॑वः । नि । ऋ॒ण्व॒न् । सु॒ऽप्र॒ति॒चक्ष॑म् । अव॑से । कुतः॑ । चि॒त् ।
द॒क्षाय्यः॑ । यः । दमे॑ । आस॑ । नित्यः॑ ॥
तम् । अग्निम् । अस्ते । वसवः । नि । ऋण्वन् । सुऽप्रतिचक्षम् । अवसे । कुतः । चित् ।
दक्षाय्यः । यः । दमे । आस । नित्यः ॥
tám ǀ agním ǀ áste ǀ vásavaḥ ǀ ní ǀ ṛṇvan ǀ su-praticákṣam ǀ ávase ǀ kútaḥ ǀ cit ǀ
dakṣā́yyaḥ ǀ yáḥ ǀ dáme ǀ ā́sa ǀ nítyaḥ ǁ
tam ǀ agnim ǀ aste ǀ vasavaḥ ǀ ni ǀ ṛṇvan ǀ su-praticakṣam ǀ avase ǀ kutaḥ ǀ cit ǀ
dakṣāyyaḥ ǀ yaḥ ǀ dame ǀ āsa ǀ nityaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.001.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.23.02
- Maṇḍala · Anuvāka · Ṛk
- 07.01.002
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Virāj, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.