Ṛk 7.1.21
Saṃhitā
त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि ।
मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥
त्वम् अग्ने सुहवो रण्वसंदृक् सुदीती सूनो सहसो दिदीहि |
मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन् नर्यो वि दासीत् ||
tvámagne suhávo raṇvásaṃdṛksudītī́ sūno sahaso didīhi ǀ
mā́ tvé sácā tánaye nítya ā́ dhaṅmā́ vīró asmánnáryo ví dāsīt ǁ
tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi |
mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt ||
Padapāṭha
त्वम् । अ॒ग्ने॒ । सु॒ऽहवः॑ । र॒ण्वऽस॑न्दृक् । सु॒ऽदी॒ती । सू॒नो॒ इति॑ । स॒ह॒सः॒ । दि॒दी॒हि॒ ।
मा । त्वे इति॑ । सचा॑ । तन॑ये । नित्ये॑ । आ । ध॒क् । मा । वी॒रः । अ॒स्मत् । नर्यः॑ । वि । दा॒सी॒त् ॥
त्वम् । अग्ने । सुऽहवः । रण्वऽसन्दृक् । सुऽदीती । सूनो इति । सहसः । दिदीहि ।
मा । त्वे इति । सचा । तनये । नित्ये । आ । धक् । मा । वीरः । अस्मत् । नर्यः । वि । दासीत् ॥
tvám ǀ agne ǀ su-hávaḥ ǀ raṇvá-sandṛk ǀ su-dītī́ ǀ sūno íti ǀ sahasaḥ ǀ didīhi ǀ
mā́ ǀ tvé íti ǀ sácā ǀ tánaye ǀ nítye ǀ ā́ ǀ dhak ǀ mā́ ǀ vīráḥ ǀ asmát ǀ náryaḥ ǀ ví ǀ dāsīt ǁ
tvam ǀ agne ǀ su-havaḥ ǀ raṇva-sandṛk ǀ su-dītī ǀ sūno iti ǀ sahasaḥ ǀ didīhi ǀ
mā ǀ tve iti ǀ sacā ǀ tanaye ǀ nitye ǀ ā ǀ dhak ǀ mā ǀ vīraḥ ǀ asmat ǀ naryaḥ ǀ vi ǀ dāsīt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.001.21
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.27.01
- Maṇḍala · Anuvāka · Ṛk
- 07.01.021
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Virāj, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.