Ṛk 7.1.14
Saṃhitā
सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा॑णिः ।
स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥
सेद् अग्निर् अग्नींर् अत्य् अस्त्व् अन्यान् यत्र वाजी तनयो वीऌउपाणिः |
सहस्रपाथा अक्षरा समेति ||
sédagníragnī́m̐rátyastvanyā́nyátra vājī́ tánayo vīḷúpāṇiḥ ǀ
sahásrapāthā akṣárā saméti ǁ
sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīḷupāṇiḥ |
sahasrapāthā akṣarā sameti ||
Padapāṭha
सः । इत् । अ॒ग्निः । अ॒ग्नीन् । अति॑ । अ॒स्तु॒ । अ॒न्यान् । यत्र॑ । वा॒जी । तन॑यः । वी॒ळुऽपा॑णिः ।
स॒हस्र॑ऽपाथाः । अ॒क्षरा॑ । स॒म्ऽएति॑ ॥
सः । इत् । अग्निः । अग्नीन् । अति । अस्तु । अन्यान् । यत्र । वाजी । तनयः । वीळुऽपाणिः ।
सहस्रऽपाथाः । अक्षरा । सम्ऽएति ॥
sáḥ ǀ ít ǀ agníḥ ǀ agnī́n ǀ áti ǀ astu ǀ anyā́n ǀ yátra ǀ vājī́ ǀ tánayaḥ ǀ vīḷú-pāṇiḥ ǀ
sahásra-pāthāḥ ǀ akṣárā ǀ sam-éti ǁ
saḥ ǀ it ǀ agniḥ ǀ agnīn ǀ ati ǀ astu ǀ anyān ǀ yatra ǀ vājī ǀ tanayaḥ ǀ vīḷu-pāṇiḥ ǀ
sahasra-pāthāḥ ǀ akṣarā ǀ sam-eti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.001.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.25.04
- Maṇḍala · Anuvāka · Ṛk
- 07.01.014
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Virāj, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.