Ṛk 7.1.16
Saṃhitā
अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा॑नः॒ समिदिं॒धे ह॒विष्मा॑न् ।
परि॒ यमेत्य॑ध्व॒रेषु॒ होता॑ ॥
अयं सो अग्निर् आहुतः पुरुत्रा यम् ईशानः सम् इद् इन्धे हविष्मान् |
परि यम् एत्य् अध्वरेषु होता ||
ayám só agnírā́hutaḥ purutrā́ yámī́śānaḥ sámídindhé havíṣmān ǀ
pári yámétyadhvaréṣu hótā ǁ
ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān |
pari yam ety adhvareṣu hotā ||
Padapāṭha
अ॒यम् । सः । अ॒ग्निः । आऽहु॑तः । पु॒रु॒ऽत्रा । यम् । ईशा॑नः । सम् । इत् । इ॒न्धे । ह॒विष्मा॑न् ।
परि॑ । यम् । एति॑ । अ॒ध्व॒रेषु॑ । होता॑ ॥
अयम् । सः । अग्निः । आऽहुतः । पुरुऽत्रा । यम् । ईशानः । सम् । इत् । इन्धे । हविष्मान् ।
परि । यम् । एति । अध्वरेषु । होता ॥
ayám ǀ sáḥ ǀ agníḥ ǀ ā́-hutaḥ ǀ puru-trā́ ǀ yám ǀ ī́śānaḥ ǀ sám ǀ ít ǀ indhé ǀ havíṣmān ǀ
pári ǀ yám ǀ éti ǀ adhvaréṣu ǀ hótā ǁ
ayam ǀ saḥ ǀ agniḥ ǀ ā-hutaḥ ǀ puru-trā ǀ yam ǀ īśānaḥ ǀ sam ǀ it ǀ indhe ǀ haviṣmān ǀ
pari ǀ yam ǀ eti ǀ adhvareṣu ǀ hotā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.001.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.26.01
- Maṇḍala · Anuvāka · Ṛk
- 07.01.016
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Virāj, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.