Sūkta 71
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (2, 3); nicṛttriṣṭup (5, 6); jagatī (1); triṣṭup (4)
2nd set of styles jagatī (1-3); triṣṭubh (4-6)
-
Ṛk 1
उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया॑ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतुः॑ ।
घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा॑ सु॒दक्षो॒ रज॑सो॒ विध॑र्मणि ॥उद् उ ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः |
घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ||údu ṣyá deváḥ savitā́ hiraṇyáyā bāhū́ ayaṃsta sávanāya sukrátuḥ ǀ
ghṛténa pāṇī́ abhí pruṣṇute makhó yúvā sudákṣo rájaso vídharmaṇi ǁud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ |
ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi ||उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । हि॒र॒ण्यया॑ । बा॒हू इति॑ । अ॒यं॒स्त॒ । सव॑नाय । सु॒ऽक्रतुः॑ ।
घृ॒तेन॑ । पा॒णी इति॑ । अ॒भि । प्रु॒ष्णु॒ते॒ । म॒खः । युवा॑ । सु॒ऽदक्षः॑ । रज॑सः । विऽध॑र्मणि ॥उत् । ऊं इति । स्यः । देवः । सविता । हिरण्यया । बाहू इति । अयंस्त । सवनाय । सुऽक्रतुः ।
घृतेन । पाणी इति । अभि । प्रुष्णुते । मखः । युवा । सुऽदक्षः । रजसः । विऽधर्मणि ॥út ǀ ūṃ íti ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ hiraṇyáyā ǀ bāhū́ íti ǀ ayaṃsta ǀ sávanāya ǀ su-krátuḥ ǀ
ghṛténa ǀ pāṇī́ íti ǀ abhí ǀ pruṣṇute ǀ makháḥ ǀ yúvā ǀ su-dákṣaḥ ǀ rájasaḥ ǀ ví-dharmaṇi ǁut ǀ ūṃ iti ǀ syaḥ ǀ devaḥ ǀ savitā ǀ hiraṇyayā ǀ bāhū iti ǀ ayaṃsta ǀ savanāya ǀ su-kratuḥ ǀ
ghṛtena ǀ pāṇī iti ǀ abhi ǀ pruṣṇute ǀ makhaḥ ǀ yuvā ǀ su-dakṣaḥ ǀ rajasaḥ ǀ vi-dharmaṇi ǁ6.71.1 Aṣṭaka 5.1.15.1Anuvāka 6.6.82
-
Ṛk 2
दे॒वस्य॑ व॒यं स॑वि॒तुः सवी॑मनि॒ श्रेष्ठे॑ स्याम॒ वसु॑नश्च दा॒वने॑ ।
यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश् च दावने |
यो विश्वस्य द्विपदो यश् चतुष्पदो निवेशने प्रसवे चासि भूमनः ||devásya vayám savitúḥ sávīmani śréṣṭhe syāma vásunaśca dāváne ǀ
yó víśvasya dvipádo yáścátuṣpado nivéśane prasavé cā́si bhū́manaḥ ǁdevasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane |
yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ ||दे॒वस्य॑ । व॒यम् । स॒वि॒तुः । सवी॑मनि । श्रेष्ठे॑ । स्या॒म॒ । वसु॑नः । च॒ । दा॒वने॑ ।
यः । विश्व॑स्य । द्वि॒ऽपदः॑ । यः । चतुः॑ऽपदः । नि॒ऽवेश॑ने । प्र॒ऽस॒वे । च॒ । असि॑ । भूम॑नः ॥देवस्य । वयम् । सवितुः । सवीमनि । श्रेष्ठे । स्याम । वसुनः । च । दावने ।
यः । विश्वस्य । द्विऽपदः । यः । चतुःऽपदः । निऽवेशने । प्रऽसवे । च । असि । भूमनः ॥devásya ǀ vayám ǀ savitúḥ ǀ sávīmani ǀ śréṣṭhe ǀ syāma ǀ vásunaḥ ǀ ca ǀ dāváne ǀ
yáḥ ǀ víśvasya ǀ dvi-pádaḥ ǀ yáḥ ǀ cátuḥ-padaḥ ǀ ni-véśane ǀ pra-savé ǀ ca ǀ ási ǀ bhū́manaḥ ǁdevasya ǀ vayam ǀ savituḥ ǀ savīmani ǀ śreṣṭhe ǀ syāma ǀ vasunaḥ ǀ ca ǀ dāvane ǀ
yaḥ ǀ viśvasya ǀ dvi-padaḥ ǀ yaḥ ǀ catuḥ-padaḥ ǀ ni-veśane ǀ pra-save ǀ ca ǀ asi ǀ bhūmanaḥ ǁ6.71.2 Aṣṭaka 5.1.15.2Anuvāka 6.6.83
-
Ṛk 3
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गयं॑ ।
हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥अदब्धेभिः सवितः पायुभिष् ट्वं शिवेभिर् अद्य परि पाहि नो गयम् |
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशंस ईशत ||ádabdhebhiḥ savitaḥ pāyúbhiṣṭvám śivébhiradyá pári pāhi no gáyam ǀ
híraṇyajihvaḥ suvitā́ya návyase rákṣā mā́kirno agháśaṃsa īśata ǁadabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya pari pāhi no gayam |
hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata ||अद॑ब्धेभिः । स॒वि॒त॒रिति॑ । पा॒युऽभिः॑ । त्वम् । शि॒वेभिः॑ । अ॒द्य । परि॑ । पा॒हि॒ । नः॒ । गय॑म् ।
हिर॑ण्यऽजिह्वः । सु॒वि॒ताय॑ । नव्य॑से । रक्ष॑ । माकिः॑ । नः॒ । अ॒घऽशं॑सः । ई॒श॒त॒ ॥अदब्धेभिः । सवितरिति । पायुऽभिः । त्वम् । शिवेभिः । अद्य । परि । पाहि । नः । गयम् ।
हिरण्यऽजिह्वः । सुविताय । नव्यसे । रक्ष । माकिः । नः । अघऽशंसः । ईशत ॥ádabdhebhiḥ ǀ savitaríti ǀ pāyú-bhiḥ ǀ tvám ǀ śivébhiḥ ǀ adyá ǀ pári ǀ pāhi ǀ naḥ ǀ gáyam ǀ
híraṇya-jihvaḥ ǀ suvitā́ya ǀ návyase ǀ rákṣa ǀ mā́kiḥ ǀ naḥ ǀ aghá-śaṃsaḥ ǀ īśata ǁadabdhebhiḥ ǀ savitariti ǀ pāyu-bhiḥ ǀ tvam ǀ śivebhiḥ ǀ adya ǀ pari ǀ pāhi ǀ naḥ ǀ gayam ǀ
hiraṇya-jihvaḥ ǀ suvitāya ǀ navyase ǀ rakṣa ǀ mākiḥ ǀ naḥ ǀ agha-śaṃsaḥ ǀ īśata ǁ6.71.3 Aṣṭaka 5.1.15.3Anuvāka 6.6.84
-
Ṛk 4
उदु॒ ष्य दे॒वः स॑वि॒ता दमू॑ना॒ हिर॑ण्यपाणिः प्रतिदो॒षम॑स्थात् ।
अयो॑हनुर्यज॒तो मं॒द्रजि॑ह्व॒ आ दा॒शुषे॑ सुवति॒ भूरि॑ वा॒मं ॥उद् उ ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषम् अस्थात् |
अयोहनुर् यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ||údu ṣyá deváḥ savitā́ dámūnā híraṇyapāṇiḥ pratidoṣámasthāt ǀ
áyohanuryajató mandrájihva ā́ dāśúṣe suvati bhū́ri vāmám ǁud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt |
ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam ||उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । दमू॑नाः । हिर॑ण्यऽपाणिः । प्र॒ति॒ऽदो॒षम् । अ॒स्था॒त् ।
अयः॑ऽहनुः । य॒ज॒तः । म॒न्द्रऽजि॑ह्वः । आ । दा॒शुषे॑ । सु॒व॒ति॒ । भूरि॑ । वा॒मम् ॥उत् । ऊं इति । स्यः । देवः । सविता । दमूनाः । हिरण्यऽपाणिः । प्रतिऽदोषम् । अस्थात् ।
अयःऽहनुः । यजतः । मन्द्रऽजिह्वः । आ । दाशुषे । सुवति । भूरि । वामम् ॥út ǀ ūṃ íti ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ dámūnāḥ ǀ híraṇya-pāṇiḥ ǀ prati-doṣám ǀ asthāt ǀ
áyaḥ-hanuḥ ǀ yajatáḥ ǀ mandrá-jihvaḥ ǀ ā́ ǀ dāśúṣe ǀ suvati ǀ bhū́ri ǀ vāmám ǁut ǀ ūṃ iti ǀ syaḥ ǀ devaḥ ǀ savitā ǀ damūnāḥ ǀ hiraṇya-pāṇiḥ ǀ prati-doṣam ǀ asthāt ǀ
ayaḥ-hanuḥ ǀ yajataḥ ǀ mandra-jihvaḥ ǀ ā ǀ dāśuṣe ǀ suvati ǀ bhūri ǀ vāmam ǁ6.71.4 Aṣṭaka 5.1.15.4Anuvāka 6.6.85
-
Ṛk 5
उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का ।
दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्वं॑ ॥उद् ऊ अयां उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका |
दिवो रोहांस्य् अरुहत् पृथिव्या अरीरमत् पतयत् कच् चिद् अभ्वम् ||údū ayām̐ upavaktéva bāhū́ hiraṇyáyā savitā́ suprátīkā ǀ
divó róhāṃsyaruhatpṛthivyā́ árīramatpatáyatkáccidábhvam ǁud ū ayāṃ upavakteva bāhū hiraṇyayā savitā supratīkā |
divo rohāṃsy aruhat pṛthivyā arīramat patayat kac cid abhvam ||उत् । ऊं॒ इति॑ । अ॒या॒न् । उ॒प॒व॒क्ताऽइ॑व । बा॒हू इति॑ । हि॒र॒ण्यया॑ । स॒वि॒ता । सु॒ऽप्रती॑का ।
दि॒वः । रोहां॑सि । अ॒रु॒ह॒त् । पृ॒थि॒व्याः । अरी॑रमत् । प॒तय॑त् । कत् । चि॒त् । अभ्व॑म् ॥उत् । ऊं इति । अयान् । उपवक्ताऽइव । बाहू इति । हिरण्यया । सविता । सुऽप्रतीका ।
दिवः । रोहांसि । अरुहत् । पृथिव्याः । अरीरमत् । पतयत् । कत् । चित् । अभ्वम् ॥út ǀ ūṃ íti ǀ ayān ǀ upavaktā́-iva ǀ bāhū́ íti ǀ hiraṇyáyā ǀ savitā́ ǀ su-prátīkā ǀ
diváḥ ǀ róhāṃsi ǀ aruhat ǀ pṛthivyā́ḥ ǀ árīramat ǀ patáyat ǀ kát ǀ cit ǀ ábhvam ǁut ǀ ūṃ iti ǀ ayān ǀ upavaktā-iva ǀ bāhū iti ǀ hiraṇyayā ǀ savitā ǀ su-pratīkā ǀ
divaḥ ǀ rohāṃsi ǀ aruhat ǀ pṛthivyāḥ ǀ arīramat ǀ patayat ǀ kat ǀ cit ǀ abhvam ǁ6.71.5 Aṣṭaka 5.1.15.5Anuvāka 6.6.86
-
Ṛk 6
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं॑ सावीः ।
वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यं सावीः |
वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ||vāmámadyá savitarvāmámu śvó divédive vāmámasmábhyam sāvīḥ ǀ
vāmásya hí kṣáyasya deva bhū́rerayā́ dhiyā́ vāmabhā́jaḥ syāma ǁvāmam adya savitar vāmam u śvo dive-dive vāmam asmabhyaṃ sāvīḥ |
vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma ||वा॒मम् । अ॒द्य । स॒वि॒तः॒ । वा॒मम् । ऊं॒ इति॑ । श्वः । दि॒वेऽदि॑वे । वा॒मम् । अ॒स्मभ्य॑म् । सा॒वीः॒ ।
वा॒मस्य॑ । हि । क्षय॑स्य । दे॒व॒ । भूरेः॑ । अ॒या । धि॒या । वा॒म॒ऽभाजः॑ । स्या॒म॒ ॥वामम् । अद्य । सवितः । वामम् । ऊं इति । श्वः । दिवेऽदिवे । वामम् । अस्मभ्यम् । सावीः ।
वामस्य । हि । क्षयस्य । देव । भूरेः । अया । धिया । वामऽभाजः । स्याम ॥vāmám ǀ adyá ǀ savitaḥ ǀ vāmám ǀ ūṃ íti ǀ śváḥ ǀ divé-dive ǀ vāmám ǀ asmábhyam ǀ sāvīḥ ǀ
vāmásya ǀ hí ǀ kṣáyasya ǀ deva ǀ bhū́reḥ ǀ ayā́ ǀ dhiyā́ ǀ vāma-bhā́jaḥ ǀ syāma ǁvāmam ǀ adya ǀ savitaḥ ǀ vāmam ǀ ūṃ iti ǀ śvaḥ ǀ dive-dive ǀ vāmam ǀ asmabhyam ǀ sāvīḥ ǀ
vāmasya ǀ hi ǀ kṣayasya ǀ deva ǀ bhūreḥ ǀ ayā ǀ dhiyā ǀ vāma-bhājaḥ ǀ syāma ǁ6.71.6 Aṣṭaka 5.1.15.6Anuvāka 6.6.87
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.