Ṛk 6.71.4
Saṃhitā
उदु॒ ष्य दे॒वः स॑वि॒ता दमू॑ना॒ हिर॑ण्यपाणिः प्रतिदो॒षम॑स्थात् ।
अयो॑हनुर्यज॒तो मं॒द्रजि॑ह्व॒ आ दा॒शुषे॑ सुवति॒ भूरि॑ वा॒मं ॥
उद् उ ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषम् अस्थात् |
अयोहनुर् यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ||
údu ṣyá deváḥ savitā́ dámūnā híraṇyapāṇiḥ pratidoṣámasthāt ǀ
áyohanuryajató mandrájihva ā́ dāśúṣe suvati bhū́ri vāmám ǁ
ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt |
ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam ||
Padapāṭha
उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । दमू॑नाः । हिर॑ण्यऽपाणिः । प्र॒ति॒ऽदो॒षम् । अ॒स्था॒त् ।
अयः॑ऽहनुः । य॒ज॒तः । म॒न्द्रऽजि॑ह्वः । आ । दा॒शुषे॑ । सु॒व॒ति॒ । भूरि॑ । वा॒मम् ॥
उत् । ऊं इति । स्यः । देवः । सविता । दमूनाः । हिरण्यऽपाणिः । प्रतिऽदोषम् । अस्थात् ।
अयःऽहनुः । यजतः । मन्द्रऽजिह्वः । आ । दाशुषे । सुवति । भूरि । वामम् ॥
út ǀ ūṃ íti ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ dámūnāḥ ǀ híraṇya-pāṇiḥ ǀ prati-doṣám ǀ asthāt ǀ
áyaḥ-hanuḥ ǀ yajatáḥ ǀ mandrá-jihvaḥ ǀ ā́ ǀ dāśúṣe ǀ suvati ǀ bhū́ri ǀ vāmám ǁ
ut ǀ ūṃ iti ǀ syaḥ ǀ devaḥ ǀ savitā ǀ damūnāḥ ǀ hiraṇya-pāṇiḥ ǀ prati-doṣam ǀ asthāt ǀ
ayaḥ-hanuḥ ǀ yajataḥ ǀ mandra-jihvaḥ ǀ ā ǀ dāśuṣe ǀ suvati ǀ bhūri ǀ vāmam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.071.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.15.04
- Maṇḍala · Anuvāka · Ṛk
- 06.06.085
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.