Sūkta 50
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 5, 6, 10-12); virāṭtrisṭup (4, 8, 13); triṣṭup (1, 7); svarāṭpaṅkti (2); paṅktiḥ (9); bhurikpaṅkti (14); nicṛtpaṅkti (15)
2nd set of styles triṣṭubh
-
Ṛk 1
हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निं ।
अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄंदे॒वान्त्स॑वि॒तारं॒ भगं॑ च ॥हुवे वो देवीम् अदितिं नमोभिर् मृऌईकाय वरुणम् मित्रम् अग्निम् |
अभिक्षदाम् अर्यमणं सुशेवं त्रातॄन् देवान् सवितारम् भगं च ||huvé vo devī́máditim námobhirmṛḷīkā́ya váruṇam mitrámagním ǀ
abhikṣadā́maryamáṇam suśévam trātṝ́ndevā́ntsavitā́ram bhágam ca ǁhuve vo devīm aditiṃ namobhir mṛḷīkāya varuṇam mitram agnim |
abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca ||हु॒वे । वः॒ । दे॒वीम् । अदि॑तिम् । नमः॑ऽभिः । मृ॒ळी॒काय॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् ।
अ॒भि॒ऽक्ष॒दाम् । अ॒र्य॒मण॑म् । सु॒ऽशेव॑म् । त्रा॒तॄन् । दे॒वान् । स॒वि॒तार॑म् । भग॑म् । च॒ ॥हुवे । वः । देवीम् । अदितिम् । नमःऽभिः । मृळीकाय । वरुणम् । मित्रम् । अग्निम् ।
अभिऽक्षदाम् । अर्यमणम् । सुऽशेवम् । त्रातॄन् । देवान् । सवितारम् । भगम् । च ॥huvé ǀ vaḥ ǀ devī́m ǀ áditim ǀ námaḥ-bhiḥ ǀ mṛḷīkā́ya ǀ váruṇam ǀ mitrám ǀ agním ǀ
abhi-kṣadā́m ǀ aryamáṇam ǀ su-śévam ǀ trātṝ́n ǀ devā́n ǀ savitā́ram ǀ bhágam ǀ ca ǁhuve ǀ vaḥ ǀ devīm ǀ aditim ǀ namaḥ-bhiḥ ǀ mṛḷīkāya ǀ varuṇam ǀ mitram ǀ agnim ǀ
abhi-kṣadām ǀ aryamaṇam ǀ su-śevam ǀ trātṝn ǀ devān ǀ savitāram ǀ bhagam ǀ ca ǁ6.50.1 Aṣṭaka 4.8.8.1Anuvāka 6.5.1
-
Ṛk 2
सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् ।
द्वि॒जन्मा॑नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व॑र्वंतो यज॒ता अ॑ग्निजि॒ह्वाः ॥सुज्योतिषः सूर्य दक्षपितॄन् अनागास्त्वे सुमहो वीहि देवान् |
द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ||sujyótiṣaḥ sūrya dákṣapitṝnanāgāstvé sumaho vīhi devā́n ǀ
dvijánmāno yá ṛtasā́paḥ satyā́ḥ svárvanto yajatā́ agnijihvā́ḥ ǁsujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān |
dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ ||सु॒ऽज्योति॑षः । सू॒र्य॒ । दक्ष॑ऽपितॄन् । अ॒ना॒गाः॒ऽत्वे । सु॒ऽम॒हः॒ । वी॒हि॒ । दे॒वान् ।
द्वि॒ऽजन्मा॑नः । ये । ऋ॒त॒ऽसापः॑ । स॒त्याः । स्वः॑ऽवन्तः । य॒ज॒ताः । अ॒ग्नि॒ऽजि॒ह्वाः ॥सुऽज्योतिषः । सूर्य । दक्षऽपितॄन् । अनागाःऽत्वे । सुऽमहः । वीहि । देवान् ।
द्विऽजन्मानः । ये । ऋतऽसापः । सत्याः । स्वःऽवन्तः । यजताः । अग्निऽजिह्वाः ॥su-jyótiṣaḥ ǀ sūrya ǀ dákṣa-pitṝn ǀ anāgāḥ-tvé ǀ su-mahaḥ ǀ vīhi ǀ devā́n ǀ
dvi-jánmānaḥ ǀ yé ǀ ṛta-sā́paḥ ǀ satyā́ḥ ǀ sváḥ-vantaḥ ǀ yajatā́ḥ ǀ agni-jihvā́ḥ ǁsu-jyotiṣaḥ ǀ sūrya ǀ dakṣa-pitṝn ǀ anāgāḥ-tve ǀ su-mahaḥ ǀ vīhi ǀ devān ǀ
dvi-janmānaḥ ǀ ye ǀ ṛta-sāpaḥ ǀ satyāḥ ǀ svaḥ-vantaḥ ǀ yajatāḥ ǀ agni-jihvāḥ ǁ6.50.2 Aṣṭaka 4.8.8.2Anuvāka 6.5.2
-
Ṛk 3
उ॒त द्या॑वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो॑दसी शर॒णं सु॑षुम्ने ।
म॒हस्क॑रथो॒ वरि॑वो॒ यथा॑ नो॒ऽस्मे क्षया॑य धिषणे अने॒हः ॥उत द्यावापृथिवी क्षत्रम् उरु बृहद् रोदसी शरणं सुषुम्ने |
महस् करथो वरिवो यथा नो ऽस्मे क्षयाय धिषणे अनेहः ||utá dyāvāpṛthivī kṣatrámurú bṛhádrodasī śaraṇám suṣumne ǀ
maháskaratho várivo yáthā no’smé kṣáyāya dhiṣaṇe aneháḥ ǁuta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṃ suṣumne |
mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ ||उ॒त । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । क्ष॒त्रम् । उ॒रु । बृ॒हत् । रो॒द॒सी॒ इति॑ । श॒र॒णम् । सु॒सु॒म्ने॒ इति॑ सुऽसुम्ने ।
म॒हः । क॒र॒थः॒ । वरि॑वः । यथा॑ । नः॒ । अ॒स्मे इति॑ । क्षया॑य । धि॒ष॒णे॒ इति॑ । अ॒ने॒हः ॥उत । द्यावापृथिवी इति । क्षत्रम् । उरु । बृहत् । रोदसी इति । शरणम् । सुसुम्ने इति सुऽसुम्ने ।
महः । करथः । वरिवः । यथा । नः । अस्मे इति । क्षयाय । धिषणे इति । अनेहः ॥utá ǀ dyāvāpṛthivī íti ǀ kṣatrám ǀ urú ǀ bṛhát ǀ rodasī íti ǀ śaraṇám ǀ susumne íti su-sumne ǀ
maháḥ ǀ karathaḥ ǀ várivaḥ ǀ yáthā ǀ naḥ ǀ asmé íti ǀ kṣáyāya ǀ dhiṣaṇe íti ǀ aneháḥ ǁuta ǀ dyāvāpṛthivī iti ǀ kṣatram ǀ uru ǀ bṛhat ǀ rodasī iti ǀ śaraṇam ǀ susumne iti su-sumne ǀ
mahaḥ ǀ karathaḥ ǀ varivaḥ ǀ yathā ǀ naḥ ǀ asme iti ǀ kṣayāya ǀ dhiṣaṇe iti ǀ anehaḥ ǁ6.50.3 Aṣṭaka 4.8.8.3Anuvāka 6.5.3
-
Ṛk 4
आ नो॑ रु॒द्रस्य॑ सू॒नवो॑ नमंताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः ।
यदी॒मर्भे॑ मह॒ति वा॑ हि॒तासो॑ बा॒धे म॒रुतो॒ अह्वा॑म दे॒वान् ॥आ नो रुद्रस्य सूनवो नमन्ताम् अद्या हूतासो वसवो ऽधृष्टाः |
यद् ईम् अर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ||ā́ no rudrásya sūnávo namantāmadyā́ hūtā́so vásavó’dhṛṣṭāḥ ǀ
yádīmárbhe mahatí vā hitā́so bādhé marúto áhvāma devā́n ǁā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ |
yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān ||आ । नः॒ । रु॒द्रस्य॑ । सू॒नवः॑ । न॒म॒न्ता॒म् । अ॒द्य । हू॒तासः॑ । वस॑वः । अधृ॑ष्टाः ।
यत् । ई॒म् । अर्भे॑ । म॒ह॒ति । वा॒ । हि॒तासः॑ । बा॒धे । म॒रुतः॑ । अह्वा॑म । दे॒वान् ॥आ । नः । रुद्रस्य । सूनवः । नमन्ताम् । अद्य । हूतासः । वसवः । अधृष्टाः ।
यत् । ईम् । अर्भे । महति । वा । हितासः । बाधे । मरुतः । अह्वाम । देवान् ॥ā́ ǀ naḥ ǀ rudrásya ǀ sūnávaḥ ǀ namantām ǀ adyá ǀ hūtā́saḥ ǀ vásavaḥ ǀ ádhṛṣṭāḥ ǀ
yát ǀ īm ǀ árbhe ǀ mahatí ǀ vā ǀ hitā́saḥ ǀ bādhé ǀ marútaḥ ǀ áhvāma ǀ devā́n ǁā ǀ naḥ ǀ rudrasya ǀ sūnavaḥ ǀ namantām ǀ adya ǀ hūtāsaḥ ǀ vasavaḥ ǀ adhṛṣṭāḥ ǀ
yat ǀ īm ǀ arbhe ǀ mahati ǀ vā ǀ hitāsaḥ ǀ bādhe ǀ marutaḥ ǀ ahvāma ǀ devān ǁ6.50.4 Aṣṭaka 4.8.8.4Anuvāka 6.5.4
-
Ṛk 5
मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा अ॑भ्यर्ध॒यज्वा॑ ।
श्रु॒त्वा हवं॑ मरुतो॒ यद्ध॑ या॒थ भूमा॑ रेजंते॒ अध्व॑नि॒ प्रवि॑क्ते ॥मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा |
श्रुत्वा हवम् मरुतो यद् ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ||mimyákṣa yéṣu rodasī́ nú devī́ síṣakti pūṣā́ abhyardhayájvā ǀ
śrutvā́ hávam maruto yáddha yāthá bhū́mā rejante ádhvani právikte ǁmimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā |
śrutvā havam maruto yad dha yātha bhūmā rejante adhvani pravikte ||मि॒म्यक्ष॑ । येषु॑ । रो॒द॒सी । नु । दे॒वी । सिस॑क्ति । पू॒षा । अ॒भ्य॒र्ध॒ऽयज्वा॑ ।
श्रु॒त्वा । हव॑म् । म॒रु॒तः॒ । यत् । ह॒ । या॒थ । भूम॑ । रे॒ज॒न्ते॒ । अध्व॑नि । प्रऽवि॑क्ते ॥मिम्यक्ष । येषु । रोदसी । नु । देवी । सिसक्ति । पूषा । अभ्यर्धऽयज्वा ।
श्रुत्वा । हवम् । मरुतः । यत् । ह । याथ । भूम । रेजन्ते । अध्वनि । प्रऽविक्ते ॥mimyákṣa ǀ yéṣu ǀ rodasī́ ǀ nú ǀ devī́ ǀ sísakti ǀ pūṣā́ ǀ abhyardha-yájvā ǀ
śrutvā́ ǀ hávam ǀ marutaḥ ǀ yát ǀ ha ǀ yāthá ǀ bhū́ma ǀ rejante ǀ ádhvani ǀ prá-vikte ǁmimyakṣa ǀ yeṣu ǀ rodasī ǀ nu ǀ devī ǀ sisakti ǀ pūṣā ǀ abhyardha-yajvā ǀ
śrutvā ǀ havam ǀ marutaḥ ǀ yat ǀ ha ǀ yātha ǀ bhūma ǀ rejante ǀ adhvani ǀ pra-vikte ǁ6.50.5 Aṣṭaka 4.8.8.5Anuvāka 6.5.5
-
Ṛk 6
अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेंद्रं॒ ब्रह्म॑णा जरित॒र्नवे॑न ।
श्रव॒दिद्धव॒मुप॑ च॒ स्तवा॑नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः ॥अभि त्यं वीरं गिर्वणसम् अर्चेन्द्रम् ब्रह्मणा जरितर् नवेन |
श्रवद् इद् धवम् उप च स्तवानो रासद् वाजां उप महो गृणानः ||abhí tyám vīrám gírvaṇasamarcéndram bráhmaṇā jaritarnávena ǀ
śrávadíddhávamúpa ca stávāno rā́sadvā́jām̐ úpa mahó gṛṇānáḥ ǁabhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena |
śravad id dhavam upa ca stavāno rāsad vājāṃ upa maho gṛṇānaḥ ||अ॒भि । त्यम् । वी॒रम् । गिर्व॑णसम् । अ॒र्च॒ । इन्द्र॑म् । ब्रह्म॑णा । ज॒रि॒तः॒ । नवे॑न ।
श्रव॑त् । इत् । हव॑म् । उप॑ । च॒ । स्तवा॑नः । रास॑त् । वाजा॑न् । उप॑ । म॒हः । गृ॒णा॒नः ॥अभि । त्यम् । वीरम् । गिर्वणसम् । अर्च । इन्द्रम् । ब्रह्मणा । जरितः । नवेन ।
श्रवत् । इत् । हवम् । उप । च । स्तवानः । रासत् । वाजान् । उप । महः । गृणानः ॥abhí ǀ tyám ǀ vīrám ǀ gírvaṇasam ǀ arca ǀ índram ǀ bráhmaṇā ǀ jaritaḥ ǀ návena ǀ
śrávat ǀ ít ǀ hávam ǀ úpa ǀ ca ǀ stávānaḥ ǀ rā́sat ǀ vā́jān ǀ úpa ǀ maháḥ ǀ gṛṇānáḥ ǁabhi ǀ tyam ǀ vīram ǀ girvaṇasam ǀ arca ǀ indram ǀ brahmaṇā ǀ jaritaḥ ǀ navena ǀ
śravat ǀ it ǀ havam ǀ upa ǀ ca ǀ stavānaḥ ǀ rāsat ǀ vājān ǀ upa ǀ mahaḥ ǀ gṛṇānaḥ ǁ6.50.6 Aṣṭaka 4.8.9.1Anuvāka 6.5.6
-
Ṛk 7
ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः ।
यू॒यं हि ष्ठा भि॒षजो॑ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ॥ओमानम् आपो मानुषीर् अमृक्तं धात तोकाय तनयाय शं योः |
यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर् जगतो जनित्रीः ||omā́namāpo mānuṣīrámṛktam dhā́ta tokā́ya tánayāya śám yóḥ ǀ
yūyám hí ṣṭhā́ bhiṣájo mātṛ́tamā víśvasya sthātúrjágato jánitrīḥ ǁomānam āpo mānuṣīr amṛktaṃ dhāta tokāya tanayāya śaṃ yoḥ |
yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ ||ओ॒मान॑म् । आ॒पः॒ । मा॒नु॒षीः॒ । अमृ॑क्तम् । धात॑ । तो॒काय॑ । तन॑याय । शम् । योः ।
यू॒यम् । हि । स्थ । भि॒षजः॑ । मा॒तृऽत॑माः । विश्व॑स्य । स्था॒तुः । जग॑तः । जनि॑त्रीः ॥ओमानम् । आपः । मानुषीः । अमृक्तम् । धात । तोकाय । तनयाय । शम् । योः ।
यूयम् । हि । स्थ । भिषजः । मातृऽतमाः । विश्वस्य । स्थातुः । जगतः । जनित्रीः ॥omā́nam ǀ āpaḥ ǀ mānuṣīḥ ǀ ámṛktam ǀ dhā́ta ǀ tokā́ya ǀ tánayāya ǀ śám ǀ yóḥ ǀ
yūyám ǀ hí ǀ sthá ǀ bhiṣájaḥ ǀ mātṛ́-tamāḥ ǀ víśvasya ǀ sthātúḥ ǀ jágataḥ ǀ jánitrīḥ ǁomānam ǀ āpaḥ ǀ mānuṣīḥ ǀ amṛktam ǀ dhāta ǀ tokāya ǀ tanayāya ǀ śam ǀ yoḥ ǀ
yūyam ǀ hi ǀ stha ǀ bhiṣajaḥ ǀ mātṛ-tamāḥ ǀ viśvasya ǀ sthātuḥ ǀ jagataḥ ǀ janitrīḥ ǁ6.50.7 Aṣṭaka 4.8.9.2Anuvāka 6.5.7
-
Ṛk 8
आ नो॑ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर॑ण्यपाणिर्यज॒तो ज॑गम्यात् ।
यो दत्र॑वाँ उ॒षसो॒ न प्रती॑कं व्यूर्णु॒ते दा॒शुषे॒ वार्या॑णि ॥आ नो देवः सविता त्रायमाणो हिरण्यपाणिर् यजतो जगम्यात् |
यो दत्रवां उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ||ā́ no deváḥ savitā́ trā́yamāṇo híraṇyapāṇiryajató jagamyāt ǀ
yó dátravām̐ uṣáso ná prátīkam vyūrṇuté dāśúṣe vā́ryāṇi ǁā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt |
yo datravāṃ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi ||आ । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । हिर॑ण्यऽपाणिः । य॒ज॒तः । ज॒ग॒म्या॒त् ।
यः । दत्र॑ऽवान् । उ॒षसः॑ । न । प्रती॑कम् । वि॒ऽऊ॒र्णु॒ते । दा॒शुषे॑ । वार्या॑णि ॥आ । नः । देवः । सविता । त्रायमाणः । हिरण्यऽपाणिः । यजतः । जगम्यात् ।
यः । दत्रऽवान् । उषसः । न । प्रतीकम् । विऽऊर्णुते । दाशुषे । वार्याणि ॥ā́ ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ trā́yamāṇaḥ ǀ híraṇya-pāṇiḥ ǀ yajatáḥ ǀ jagamyāt ǀ
yáḥ ǀ dátra-vān ǀ uṣásaḥ ǀ ná ǀ prátīkam ǀ vi-ūrṇuté ǀ dāśúṣe ǀ vā́ryāṇi ǁā ǀ naḥ ǀ devaḥ ǀ savitā ǀ trāyamāṇaḥ ǀ hiraṇya-pāṇiḥ ǀ yajataḥ ǀ jagamyāt ǀ
yaḥ ǀ datra-vān ǀ uṣasaḥ ǀ na ǀ pratīkam ǀ vi-ūrṇute ǀ dāśuṣe ǀ vāryāṇi ǁ6.50.8 Aṣṭaka 4.8.9.3Anuvāka 6.5.8
-
Ṛk 9
उ॒त त्वं सू॑नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः ।
स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ॥उत त्वं सूनो सहसो नो अद्या देवां अस्मिन्न् अध्वरे ववृत्याः |
स्याम् अहं ते सदम् इद् रातौ तव स्याम् अग्ने ऽवसा सुवीरः ||utá tvám sūno sahaso no adyā́ devā́m̐ asmínnadhvaré vavṛtyāḥ ǀ
syā́mahám te sádamídrātáu táva syāmagné’vasā suvī́raḥ ǁuta tvaṃ sūno sahaso no adyā devāṃ asminn adhvare vavṛtyāḥ |
syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ ||उ॒त । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । आ । दे॒वान् । अ॒स्मिन् । अ॒ध्व॒रे । व॒वृ॒त्याः॒ ।
स्याम् । अ॒हम् । ते॒ । सद॑म् । इत् । रा॒तौ । तव॑ । स्या॒म् । अ॒ग्ने॒ । अव॑सा । सु॒ऽवीरः॑ ॥उत । त्वम् । सूनो इति । सहसः । नः । अद्य । आ । देवान् । अस्मिन् । अध्वरे । ववृत्याः ।
स्याम् । अहम् । ते । सदम् । इत् । रातौ । तव । स्याम् । अग्ने । अवसा । सुऽवीरः ॥utá ǀ tvám ǀ sūno íti ǀ sahasaḥ ǀ naḥ ǀ adyá ǀ ā́ ǀ devā́n ǀ asmín ǀ adhvaré ǀ vavṛtyāḥ ǀ
syā́m ǀ ahám ǀ te ǀ sádam ǀ ít ǀ rātáu ǀ táva ǀ syām ǀ agne ǀ ávasā ǀ su-vī́raḥ ǁuta ǀ tvam ǀ sūno iti ǀ sahasaḥ ǀ naḥ ǀ adya ǀ ā ǀ devān ǀ asmin ǀ adhvare ǀ vavṛtyāḥ ǀ
syām ǀ aham ǀ te ǀ sadam ǀ it ǀ rātau ǀ tava ǀ syām ǀ agne ǀ avasā ǀ su-vīraḥ ǁ6.50.9 Aṣṭaka 4.8.9.4Anuvāka 6.5.9
-
Ṛk 10
उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वमं॒ग वि॑प्रा ।
अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके॑ ॥उत त्या मे हवम् आ जग्म्यातं नासत्या धीभिर् युवम् अङ्ग विप्रा |
अत्रिं न महस् तमसो ऽमुमुक्तं तूर्वतं नरा दुरिताद् अभीके ||utá tyā́ me hávamā́ jagmyātam nā́satyā dhībhíryuvámaṅgá viprā ǀ
átrim ná mahástámaso’mumuktam tū́rvatam narā duritā́dabhī́ke ǁuta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā |
atriṃ na mahas tamaso 'mumuktaṃ tūrvataṃ narā duritād abhīke ||उ॒त । त्या । मे॒ । हव॑म् । आ । ज॒ग्म्या॒त॒म् । नास॑त्या । धी॒भिः । यु॒वम् । अ॒ङ्ग । वि॒प्रा॒ ।
अत्रि॑म् । न । म॒हः । तम॑सः । अ॒मु॒मु॒क्त॒म् । तूर्व॑तम् । न॒रा॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ॥उत । त्या । मे । हवम् । आ । जग्म्यातम् । नासत्या । धीभिः । युवम् । अङ्ग । विप्रा ।
अत्रिम् । न । महः । तमसः । अमुमुक्तम् । तूर्वतम् । नरा । दुःऽइतात् । अभीके ॥utá ǀ tyā́ ǀ me ǀ hávam ǀ ā́ ǀ jagmyātam ǀ nā́satyā ǀ dhībhíḥ ǀ yuvám ǀ aṅgá ǀ viprā ǀ
átrim ǀ ná ǀ maháḥ ǀ támasaḥ ǀ amumuktam ǀ tū́rvatam ǀ narā ǀ duḥ-itā́t ǀ abhī́ke ǁuta ǀ tyā ǀ me ǀ havam ǀ ā ǀ jagmyātam ǀ nāsatyā ǀ dhībhiḥ ǀ yuvam ǀ aṅga ǀ viprā ǀ
atrim ǀ na ǀ mahaḥ ǀ tamasaḥ ǀ amumuktam ǀ tūrvatam ǀ narā ǀ duḥ-itāt ǀ abhīke ǁ6.50.10 Aṣṭaka 4.8.9.5Anuvāka 6.5.10
-
Ṛk 11
ते नो॑ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो॑ भूत नृ॒वतः॑ पुरु॒क्षोः ।
द॒श॒स्यंतो॑ दि॒व्याः पार्थि॑वासो॒ गोजा॑ता॒ अप्या॑ मृ॒ळता॑ च देवाः ॥ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः |
दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृऌअता च देवाः ||té no rāyó dyumáto vā́javato dātā́ro bhūta nṛvátaḥ purukṣóḥ ǀ
daśasyánto divyā́ḥ pā́rthivāso gójātā ápyā mṛḷátā ca devāḥ ǁte no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ |
daśasyanto divyāḥ pārthivāso gojātā apyā mṛḷatā ca devāḥ ||ते । नः॒ । रा॒यः । द्यु॒ऽमतः॑ । वाज॑ऽवतः । दा॒तारः॑ । भू॒त॒ । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः ।
द॒श॒स्यन्तः॑ । दि॒व्याः । पार्थि॑वासः । गोऽजा॑ताः । अप्याः॑ । मृ॒ळत॑ । च॒ । दे॒वाः॒ ॥ते । नः । रायः । द्युऽमतः । वाजऽवतः । दातारः । भूत । नृऽवतः । पुरुऽक्षोः ।
दशस्यन्तः । दिव्याः । पार्थिवासः । गोऽजाताः । अप्याः । मृळत । च । देवाः ॥té ǀ naḥ ǀ rāyáḥ ǀ dyu-mátaḥ ǀ vā́ja-vataḥ ǀ dātā́raḥ ǀ bhūta ǀ nṛ-vátaḥ ǀ puru-kṣóḥ ǀ
daśasyántaḥ ǀ divyā́ḥ ǀ pā́rthivāsaḥ ǀ gó-jātāḥ ǀ ápyāḥ ǀ mṛḷáta ǀ ca ǀ devāḥ ǁte ǀ naḥ ǀ rāyaḥ ǀ dyu-mataḥ ǀ vāja-vataḥ ǀ dātāraḥ ǀ bhūta ǀ nṛ-vataḥ ǀ puru-kṣoḥ ǀ
daśasyantaḥ ǀ divyāḥ ǀ pārthivāsaḥ ǀ go-jātāḥ ǀ apyāḥ ǀ mṛḷata ǀ ca ǀ devāḥ ǁ6.50.11 Aṣṭaka 4.8.10.1Anuvāka 6.5.11
-
Ṛk 12
ते नो॑ रु॒द्रः सर॑स्वती स॒जोषा॑ मी॒ळ्हुष्मं॑तो॒ विष्णु॑र्मृळंतु वा॒युः ।
ऋ॒भु॒क्षा वाजो॒ दैव्यो॑ विधा॒ता प॒र्जन्या॒वाता॑ पिप्यता॒मिषं॑ नः ॥ते नो रुद्रः सरस्वती सजोषा मीऌहुष्मन्तो विष्णुर् मृऌअन्तु वायुः |
ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यताम् इषं नः ||té no rudráḥ sárasvatī sajóṣā mīḷhúṣmanto víṣṇurmṛḷantu vāyúḥ ǀ
ṛbhukṣā́ vā́jo dáivyo vidhātā́ parjányāvā́tā pipyatāmíṣam naḥ ǁte no rudraḥ sarasvatī sajoṣā mīḷhuṣmanto viṣṇur mṛḷantu vāyuḥ |
ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṃ naḥ ||ते । नः॒ । रु॒द्रः । सर॑स्वती । स॒ऽजोषाः॑ । मी॒ळ्हुष्म॑न्तः । विष्णुः॑ । मृ॒ळ॒न्तु॒ । वा॒युः ।
ऋ॒भु॒क्षाः । वाजः॑ । दैव्यः॑ । वि॒ऽधा॒ता । प॒र्जन्या॒वाता॑ । पि॒प्य॒ता॒म् । इष॑म् । नः॒ ॥ते । नः । रुद्रः । सरस्वती । सऽजोषाः । मीळ्हुष्मन्तः । विष्णुः । मृळन्तु । वायुः ।
ऋभुक्षाः । वाजः । दैव्यः । विऽधाता । पर्जन्यावाता । पिप्यताम् । इषम् । नः ॥té ǀ naḥ ǀ rudráḥ ǀ sárasvatī ǀ sa-jóṣāḥ ǀ mīḷhúṣmantaḥ ǀ víṣṇuḥ ǀ mṛḷantu ǀ vāyúḥ ǀ
ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ dáivyaḥ ǀ vi-dhātā́ ǀ parjányāvā́tā ǀ pipyatām ǀ íṣam ǀ naḥ ǁte ǀ naḥ ǀ rudraḥ ǀ sarasvatī ǀ sa-joṣāḥ ǀ mīḷhuṣmantaḥ ǀ viṣṇuḥ ǀ mṛḷantu ǀ vāyuḥ ǀ
ṛbhukṣāḥ ǀ vājaḥ ǀ daivyaḥ ǀ vi-dhātā ǀ parjanyāvātā ǀ pipyatām ǀ iṣam ǀ naḥ ǁ6.50.12 Aṣṭaka 4.8.10.2Anuvāka 6.5.12
-
Ṛk 13
उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु॒ दानु॒ पप्रिः॑ ।
त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ॥उत स्य देवः सविता भगो नो ऽपां नपाद् अवतु दानु पप्रिः |
त्वष्टा देवेभिर् जनिभिः सजोषा द्यौर् देवेभिः पृथिवी समुद्रैः ||utá syá deváḥ savitā́ bhágo no’pā́m nápādavatu dā́nu pápriḥ ǀ
tváṣṭā devébhirjánibhiḥ sajóṣā dyáurdevébhiḥ pṛthivī́ samudráiḥ ǁuta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ |
tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ ||उ॒त । स्यः । दे॒वः । स॒वि॒ता । भगः॑ । नः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । दानु॑ । पप्रिः॑ ।
त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । स॒ऽजोषाः॑ । द्यौः । दे॒वेभिः॑ । पृ॒थि॒वी । स॒मु॒द्रैः ॥उत । स्यः । देवः । सविता । भगः । नः । अपाम् । नपात् । अवतु । दानु । पप्रिः ।
त्वष्टा । देवेभिः । जनिऽभिः । सऽजोषाः । द्यौः । देवेभिः । पृथिवी । समुद्रैः ॥utá ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ bhágaḥ ǀ naḥ ǀ apā́m ǀ nápāt ǀ avatu ǀ dā́nu ǀ pápriḥ ǀ
tváṣṭā ǀ devébhiḥ ǀ jáni-bhiḥ ǀ sa-jóṣāḥ ǀ dyáuḥ ǀ devébhiḥ ǀ pṛthivī́ ǀ samudráiḥ ǁuta ǀ syaḥ ǀ devaḥ ǀ savitā ǀ bhagaḥ ǀ naḥ ǀ apām ǀ napāt ǀ avatu ǀ dānu ǀ papriḥ ǀ
tvaṣṭā ǀ devebhiḥ ǀ jani-bhiḥ ǀ sa-joṣāḥ ǀ dyauḥ ǀ devebhiḥ ǀ pṛthivī ǀ samudraiḥ ǁ6.50.13 Aṣṭaka 4.8.10.3Anuvāka 6.5.13
-
Ṛk 14
उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।
विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मंत्राः॑ कविश॒स्ता अ॑वंतु ॥उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः |
विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ||utá nó’hirbudhnyáḥ śṛṇotvajá ékapātpṛthivī́ samudráḥ ǀ
víśve devā́ ṛtāvṛ́dho huvānā́ḥ stutā́ mántrāḥ kaviśastā́ avantu ǁuta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ |
viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu ||उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शृ॒णो॒तु॒ । अ॒जः । एक॑ऽपात् । पृ॒थि॒वी । स॒मु॒द्रः ।
विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । हु॒वा॒नाः । स्तु॒ताः । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । अ॒व॒न्तु॒ ॥उत । नः । अहिः । बुध्न्यः । शृणोतु । अजः । एकऽपात् । पृथिवी । समुद्रः ।
विश्वे । देवाः । ऋतऽवृधः । हुवानाः । स्तुताः । मन्त्राः । कविऽशस्ताः । अवन्तु ॥utá ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ śṛṇotu ǀ ajáḥ ǀ éka-pāt ǀ pṛthivī́ ǀ samudráḥ ǀ
víśve ǀ devā́ḥ ǀ ṛta-vṛ́dhaḥ ǀ huvānā́ḥ ǀ stutā́ḥ ǀ mántrāḥ ǀ kavi-śastā́ḥ ǀ avantu ǁuta ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ śṛṇotu ǀ ajaḥ ǀ eka-pāt ǀ pṛthivī ǀ samudraḥ ǀ
viśve ǀ devāḥ ǀ ṛta-vṛdhaḥ ǀ huvānāḥ ǀ stutāḥ ǀ mantrāḥ ǀ kavi-śastāḥ ǀ avantu ǁ6.50.14 Aṣṭaka 4.8.10.4Anuvāka 6.5.14
-
Ṛk 15
ए॒वा नपा॑तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा॑जा अ॒भ्य॑र्चंत्य॒र्कैः ।
ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे॑ स्तु॒तासो॑ भूता यजत्राः ॥एवा नपातो मम तस्य धीभिर् भरद्वाजा अभ्य् अर्चन्त्य् अर्कैः |
ग्ना हुतासो वसवो ऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ||evā́ nápāto máma tásya dhībhírbharádvājā abhyárcantyarkáiḥ ǀ
gnā́ hutā́so vásavó’dhṛṣṭā víśve stutā́so bhūtā yajatrāḥ ǁevā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ |
gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ ||ए॒व । नपा॑तः । मम॑ । तस्य॑ । धी॒भिः । भ॒रत्ऽवा॑जाः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
ग्नाः । हु॒तासः॑ । वस॑वः । अधृ॑ष्टाः । विश्वे॑ । स्तु॒तासः॑ । भू॒त॒ । य॒ज॒त्राः॒ ॥एव । नपातः । मम । तस्य । धीभिः । भरत्ऽवाजाः । अभि । अर्चन्ति । अर्कैः ।
ग्नाः । हुतासः । वसवः । अधृष्टाः । विश्वे । स्तुतासः । भूत । यजत्राः ॥evá ǀ nápātaḥ ǀ máma ǀ tásya ǀ dhībhíḥ ǀ bharát-vājāḥ ǀ abhí ǀ arcanti ǀ arkáiḥ ǀ
gnā́ḥ ǀ hutā́saḥ ǀ vásavaḥ ǀ ádhṛṣṭāḥ ǀ víśve ǀ stutā́saḥ ǀ bhūta ǀ yajatrāḥ ǁeva ǀ napātaḥ ǀ mama ǀ tasya ǀ dhībhiḥ ǀ bharat-vājāḥ ǀ abhi ǀ arcanti ǀ arkaiḥ ǀ
gnāḥ ǀ hutāsaḥ ǀ vasavaḥ ǀ adhṛṣṭāḥ ǀ viśve ǀ stutāsaḥ ǀ bhūta ǀ yajatrāḥ ǁ6.50.15 Aṣṭaka 4.8.10.5Anuvāka 6.5.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.