Ṛk 6.50.13
Saṃhitā
उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु॒ दानु॒ पप्रिः॑ ।
त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ॥
उत स्य देवः सविता भगो नो ऽपां नपाद् अवतु दानु पप्रिः |
त्वष्टा देवेभिर् जनिभिः सजोषा द्यौर् देवेभिः पृथिवी समुद्रैः ||
utá syá deváḥ savitā́ bhágo no’pā́m nápādavatu dā́nu pápriḥ ǀ
tváṣṭā devébhirjánibhiḥ sajóṣā dyáurdevébhiḥ pṛthivī́ samudráiḥ ǁ
uta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ |
tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ ||
Padapāṭha
उ॒त । स्यः । दे॒वः । स॒वि॒ता । भगः॑ । नः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । दानु॑ । पप्रिः॑ ।
त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । स॒ऽजोषाः॑ । द्यौः । दे॒वेभिः॑ । पृ॒थि॒वी । स॒मु॒द्रैः ॥
उत । स्यः । देवः । सविता । भगः । नः । अपाम् । नपात् । अवतु । दानु । पप्रिः ।
त्वष्टा । देवेभिः । जनिऽभिः । सऽजोषाः । द्यौः । देवेभिः । पृथिवी । समुद्रैः ॥
utá ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ bhágaḥ ǀ naḥ ǀ apā́m ǀ nápāt ǀ avatu ǀ dā́nu ǀ pápriḥ ǀ
tváṣṭā ǀ devébhiḥ ǀ jáni-bhiḥ ǀ sa-jóṣāḥ ǀ dyáuḥ ǀ devébhiḥ ǀ pṛthivī́ ǀ samudráiḥ ǁ
uta ǀ syaḥ ǀ devaḥ ǀ savitā ǀ bhagaḥ ǀ naḥ ǀ apām ǀ napāt ǀ avatu ǀ dānu ǀ papriḥ ǀ
tvaṣṭā ǀ devebhiḥ ǀ jani-bhiḥ ǀ sa-joṣāḥ ǀ dyauḥ ǀ devebhiḥ ǀ pṛthivī ǀ samudraiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.050.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.10.03
- Maṇḍala · Anuvāka · Ṛk
- 06.05.013
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.