Ṛk 6.50.14
Saṃhitā
उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।
विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मंत्राः॑ कविश॒स्ता अ॑वंतु ॥
उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः |
विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ||
utá nó’hirbudhnyáḥ śṛṇotvajá ékapātpṛthivī́ samudráḥ ǀ
víśve devā́ ṛtāvṛ́dho huvānā́ḥ stutā́ mántrāḥ kaviśastā́ avantu ǁ
uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ |
viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu ||
Padapāṭha
उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शृ॒णो॒तु॒ । अ॒जः । एक॑ऽपात् । पृ॒थि॒वी । स॒मु॒द्रः ।
विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । हु॒वा॒नाः । स्तु॒ताः । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । अ॒व॒न्तु॒ ॥
उत । नः । अहिः । बुध्न्यः । शृणोतु । अजः । एकऽपात् । पृथिवी । समुद्रः ।
विश्वे । देवाः । ऋतऽवृधः । हुवानाः । स्तुताः । मन्त्राः । कविऽशस्ताः । अवन्तु ॥
utá ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ śṛṇotu ǀ ajáḥ ǀ éka-pāt ǀ pṛthivī́ ǀ samudráḥ ǀ
víśve ǀ devā́ḥ ǀ ṛta-vṛ́dhaḥ ǀ huvānā́ḥ ǀ stutā́ḥ ǀ mántrāḥ ǀ kavi-śastā́ḥ ǀ avantu ǁ
uta ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ śṛṇotu ǀ ajaḥ ǀ eka-pāt ǀ pṛthivī ǀ samudraḥ ǀ
viśve ǀ devāḥ ǀ ṛta-vṛdhaḥ ǀ huvānāḥ ǀ stutāḥ ǀ mantrāḥ ǀ kavi-śastāḥ ǀ avantu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.050.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.10.04
- Maṇḍala · Anuvāka · Ṛk
- 06.05.014
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.