Ṛk 6.50.9
Saṃhitā
उ॒त त्वं सू॑नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः ।
स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ॥
उत त्वं सूनो सहसो नो अद्या देवां अस्मिन्न् अध्वरे ववृत्याः |
स्याम् अहं ते सदम् इद् रातौ तव स्याम् अग्ने ऽवसा सुवीरः ||
utá tvám sūno sahaso no adyā́ devā́m̐ asmínnadhvaré vavṛtyāḥ ǀ
syā́mahám te sádamídrātáu táva syāmagné’vasā suvī́raḥ ǁ
uta tvaṃ sūno sahaso no adyā devāṃ asminn adhvare vavṛtyāḥ |
syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ ||
Padapāṭha
उ॒त । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । आ । दे॒वान् । अ॒स्मिन् । अ॒ध्व॒रे । व॒वृ॒त्याः॒ ।
स्याम् । अ॒हम् । ते॒ । सद॑म् । इत् । रा॒तौ । तव॑ । स्या॒म् । अ॒ग्ने॒ । अव॑सा । सु॒ऽवीरः॑ ॥
उत । त्वम् । सूनो इति । सहसः । नः । अद्य । आ । देवान् । अस्मिन् । अध्वरे । ववृत्याः ।
स्याम् । अहम् । ते । सदम् । इत् । रातौ । तव । स्याम् । अग्ने । अवसा । सुऽवीरः ॥
utá ǀ tvám ǀ sūno íti ǀ sahasaḥ ǀ naḥ ǀ adyá ǀ ā́ ǀ devā́n ǀ asmín ǀ adhvaré ǀ vavṛtyāḥ ǀ
syā́m ǀ ahám ǀ te ǀ sádam ǀ ít ǀ rātáu ǀ táva ǀ syām ǀ agne ǀ ávasā ǀ su-vī́raḥ ǁ
uta ǀ tvam ǀ sūno iti ǀ sahasaḥ ǀ naḥ ǀ adya ǀ ā ǀ devān ǀ asmin ǀ adhvare ǀ vavṛtyāḥ ǀ
syām ǀ aham ǀ te ǀ sadam ǀ it ǀ rātau ǀ tava ǀ syām ǀ agne ǀ avasā ǀ su-vīraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.050.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.09.04
- Maṇḍala · Anuvāka · Ṛk
- 06.05.009
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.