Ṛk 6.50.8
Saṃhitā
आ नो॑ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर॑ण्यपाणिर्यज॒तो ज॑गम्यात् ।
यो दत्र॑वाँ उ॒षसो॒ न प्रती॑कं व्यूर्णु॒ते दा॒शुषे॒ वार्या॑णि ॥
आ नो देवः सविता त्रायमाणो हिरण्यपाणिर् यजतो जगम्यात् |
यो दत्रवां उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ||
ā́ no deváḥ savitā́ trā́yamāṇo híraṇyapāṇiryajató jagamyāt ǀ
yó dátravām̐ uṣáso ná prátīkam vyūrṇuté dāśúṣe vā́ryāṇi ǁ
ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt |
yo datravāṃ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi ||
Padapāṭha
आ । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । हिर॑ण्यऽपाणिः । य॒ज॒तः । ज॒ग॒म्या॒त् ।
यः । दत्र॑ऽवान् । उ॒षसः॑ । न । प्रती॑कम् । वि॒ऽऊ॒र्णु॒ते । दा॒शुषे॑ । वार्या॑णि ॥
आ । नः । देवः । सविता । त्रायमाणः । हिरण्यऽपाणिः । यजतः । जगम्यात् ।
यः । दत्रऽवान् । उषसः । न । प्रतीकम् । विऽऊर्णुते । दाशुषे । वार्याणि ॥
ā́ ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ trā́yamāṇaḥ ǀ híraṇya-pāṇiḥ ǀ yajatáḥ ǀ jagamyāt ǀ
yáḥ ǀ dátra-vān ǀ uṣásaḥ ǀ ná ǀ prátīkam ǀ vi-ūrṇuté ǀ dāśúṣe ǀ vā́ryāṇi ǁ
ā ǀ naḥ ǀ devaḥ ǀ savitā ǀ trāyamāṇaḥ ǀ hiraṇya-pāṇiḥ ǀ yajataḥ ǀ jagamyāt ǀ
yaḥ ǀ datra-vān ǀ uṣasaḥ ǀ na ǀ pratīkam ǀ vi-ūrṇute ǀ dāśuṣe ǀ vāryāṇi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.050.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.09.03
- Maṇḍala · Anuvāka · Ṛk
- 06.05.008
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.