Ṛk 6.50.10
Saṃhitā
उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वमं॒ग वि॑प्रा ।
अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके॑ ॥
उत त्या मे हवम् आ जग्म्यातं नासत्या धीभिर् युवम् अङ्ग विप्रा |
अत्रिं न महस् तमसो ऽमुमुक्तं तूर्वतं नरा दुरिताद् अभीके ||
utá tyā́ me hávamā́ jagmyātam nā́satyā dhībhíryuvámaṅgá viprā ǀ
átrim ná mahástámaso’mumuktam tū́rvatam narā duritā́dabhī́ke ǁ
uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā |
atriṃ na mahas tamaso 'mumuktaṃ tūrvataṃ narā duritād abhīke ||
Padapāṭha
उ॒त । त्या । मे॒ । हव॑म् । आ । ज॒ग्म्या॒त॒म् । नास॑त्या । धी॒भिः । यु॒वम् । अ॒ङ्ग । वि॒प्रा॒ ।
अत्रि॑म् । न । म॒हः । तम॑सः । अ॒मु॒मु॒क्त॒म् । तूर्व॑तम् । न॒रा॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ॥
उत । त्या । मे । हवम् । आ । जग्म्यातम् । नासत्या । धीभिः । युवम् । अङ्ग । विप्रा ।
अत्रिम् । न । महः । तमसः । अमुमुक्तम् । तूर्वतम् । नरा । दुःऽइतात् । अभीके ॥
utá ǀ tyā́ ǀ me ǀ hávam ǀ ā́ ǀ jagmyātam ǀ nā́satyā ǀ dhībhíḥ ǀ yuvám ǀ aṅgá ǀ viprā ǀ
átrim ǀ ná ǀ maháḥ ǀ támasaḥ ǀ amumuktam ǀ tū́rvatam ǀ narā ǀ duḥ-itā́t ǀ abhī́ke ǁ
uta ǀ tyā ǀ me ǀ havam ǀ ā ǀ jagmyātam ǀ nāsatyā ǀ dhībhiḥ ǀ yuvam ǀ aṅga ǀ viprā ǀ
atrim ǀ na ǀ mahaḥ ǀ tamasaḥ ǀ amumuktam ǀ tūrvatam ǀ narā ǀ duḥ-itāt ǀ abhīke ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.050.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.09.05
- Maṇḍala · Anuvāka · Ṛk
- 06.05.010
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.