Sūkta 10
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Dvipadā Virāj
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 3, 6); triṣṭup (1); ārṣīpaṅkti (4); virāṭtrisṭup (5); prājāpatyābṛhatī (7)
2nd set of styles triṣṭubh (1-6); dvipadā virāj (7)
-
Ṛk 1
पु॒रो वो॑ मं॒द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वं ।
पु॒र उ॒क्थेभिः॒ स हि नो॑ वि॒भावा॑ स्वध्व॒रा क॑रति जा॒तवे॑दाः ॥पुरो वो मन्द्रं दिव्यं सुवृक्तिम् प्रयति यज्ञे अग्निम् अध्वरे दधिध्वम् |
पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ||puró vo mandrám divyám suvṛktím prayatí yajñé agnímadhvaré dadhidhvam ǀ
purá ukthébhiḥ sá hí no vibhā́vā svadhvarā́ karati jātávedāḥ ǁpuro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam |
pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ ||पु॒रः । वः॒ । म॒न्द्रम् । दि॒व्यम् । सु॒ऽवृ॒क्तिम् । प्र॒ऽय॒ति । य॒ज्ञे । अ॒ग्निम् । अ॒ध्व॒रे । द॒धि॒ध्व॒म् ।
पु॒रः । उ॒क्थेभिः॑ । सः । हि । नः॒ । वि॒भाऽवा॑ । सु॒ऽअ॒ध्व॒रा । क॒र॒ति॒ । जा॒तऽवे॑दाः ॥पुरः । वः । मन्द्रम् । दिव्यम् । सुऽवृक्तिम् । प्रऽयति । यज्ञे । अग्निम् । अध्वरे । दधिध्वम् ।
पुरः । उक्थेभिः । सः । हि । नः । विभाऽवा । सुऽअध्वरा । करति । जातऽवेदाः ॥puráḥ ǀ vaḥ ǀ mandrám ǀ divyám ǀ su-vṛktím ǀ pra-yatí ǀ yajñé ǀ agním ǀ adhvaré ǀ dadhidhvam ǀ
puráḥ ǀ ukthébhiḥ ǀ sáḥ ǀ hí ǀ naḥ ǀ vibhā́-vā ǀ su-adhvarā́ ǀ karati ǀ jātá-vedāḥ ǁpuraḥ ǀ vaḥ ǀ mandram ǀ divyam ǀ su-vṛktim ǀ pra-yati ǀ yajñe ǀ agnim ǀ adhvare ǀ dadhidhvam ǀ
puraḥ ǀ ukthebhiḥ ǀ saḥ ǀ hi ǀ naḥ ǀ vibhā-vā ǀ su-adhvarā ǀ karati ǀ jāta-vedāḥ ǁ6.10.1 Aṣṭaka 4.5.12.1Anuvāka 6.1.76
-
Ṛk 2
तमु॑ द्युमः पुर्वणीक होत॒रग्ने॑ अ॒ग्निभि॒र्मनु॑ष इधा॒नः ।
स्तोमं॒ यम॑स्मै म॒मते॑व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवंते ॥तम् उ द्युमः पुर्वणीक होतर् अग्ने अग्निभिर् मनुष इधानः |
स्तोमं यम् अस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ||támu dyumaḥ purvaṇīka hotarágne agníbhirmánuṣa idhānáḥ ǀ
stómam yámasmai mamáteva śūṣám ghṛtám ná śúci matáyaḥ pavante ǁtam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ |
stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante ||तम् । ऊं॒ इति॑ । द्यु॒ऽमः॒ । पु॒रु॒ऽअ॒नी॒क॒ । हो॒तः॒ । अग्ने॑ । अ॒ग्निऽभिः॑ । मनु॑षः । इ॒धा॒नः ।
स्तोम॑म् । यम् । अ॒स्मै॒ । म॒मता॑ऽइव । शू॒षम् । घृ॒तम् । न । शुचि॑ । म॒तयः॑ । प॒व॒न्ते॒ ॥तम् । ऊं इति । द्युऽमः । पुरुऽअनीक । होतः । अग्ने । अग्निऽभिः । मनुषः । इधानः ।
स्तोमम् । यम् । अस्मै । ममताऽइव । शूषम् । घृतम् । न । शुचि । मतयः । पवन्ते ॥tám ǀ ūṃ íti ǀ dyu-maḥ ǀ puru-anīka ǀ hotaḥ ǀ ágne ǀ agní-bhiḥ ǀ mánuṣaḥ ǀ idhānáḥ ǀ
stómam ǀ yám ǀ asmai ǀ mamátā-iva ǀ śūṣám ǀ ghṛtám ǀ ná ǀ śúci ǀ matáyaḥ ǀ pavante ǁtam ǀ ūṃ iti ǀ dyu-maḥ ǀ puru-anīka ǀ hotaḥ ǀ agne ǀ agni-bhiḥ ǀ manuṣaḥ ǀ idhānaḥ ǀ
stomam ǀ yam ǀ asmai ǀ mamatā-iva ǀ śūṣam ǀ ghṛtam ǀ na ǀ śuci ǀ matayaḥ ǀ pavante ǁ6.10.2 Aṣṭaka 4.5.12.2Anuvāka 6.1.77
-
Ṛk 3
पी॒पाय॒ स श्रव॑सा॒ मर्त्ये॑षु॒ यो अ॒ग्नये॑ द॒दाश॒ विप्र॑ उ॒क्थैः ।
चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो॑चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ॥पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः |
चित्राभिस् तम् ऊतिभिश् चित्रशोचिर् व्रजस्य साता गोमतो दधाति ||pīpā́ya sá śrávasā mártyeṣu yó agnáye dadā́śa vípra uktháiḥ ǀ
citrā́bhistámūtíbhiścitráśocirvrajásya sātā́ gómato dadhāti ǁpīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ |
citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti ||पी॒पाय॑ । सः । श्रव॑सा । मर्त्ये॑षु । यः । अ॒ग्नये॑ । द॒दाश॑ । विप्रः॑ । उ॒क्थैः ।
चि॒त्राभिः॑ । तम् । ऊ॒तिऽभिः॑ । चि॒त्रऽशो॑चिः । व्र॒जस्य॑ । सा॒ता । गोऽम॑तः । द॒धा॒ति॒ ॥पीपाय । सः । श्रवसा । मर्त्येषु । यः । अग्नये । ददाश । विप्रः । उक्थैः ।
चित्राभिः । तम् । ऊतिऽभिः । चित्रऽशोचिः । व्रजस्य । साता । गोऽमतः । दधाति ॥pīpā́ya ǀ sáḥ ǀ śrávasā ǀ mártyeṣu ǀ yáḥ ǀ agnáye ǀ dadā́śa ǀ vípraḥ ǀ uktháiḥ ǀ
citrā́bhiḥ ǀ tám ǀ ūtí-bhiḥ ǀ citrá-śociḥ ǀ vrajásya ǀ sātā́ ǀ gó-mataḥ ǀ dadhāti ǁpīpāya ǀ saḥ ǀ śravasā ǀ martyeṣu ǀ yaḥ ǀ agnaye ǀ dadāśa ǀ vipraḥ ǀ ukthaiḥ ǀ
citrābhiḥ ǀ tam ǀ ūti-bhiḥ ǀ citra-śociḥ ǀ vrajasya ǀ sātā ǀ go-mataḥ ǀ dadhāti ǁ6.10.3 Aṣṭaka 4.5.12.3Anuvāka 6.1.78
-
Ṛk 4
आ यः प॒प्रौ जाय॑मान उ॒र्वी दू॑रे॒दृशा॑ भा॒सा कृ॒ष्णाध्वा॑ ।
अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या॑यास्ति॒रः शो॒चिषा॑ ददृशे पाव॒कः ॥आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा |
अध बहु चित् तम ऊर्म्यायास् तिरः शोचिषा ददृशे पावकः ||ā́ yáḥ papráu jā́yamāna urvī́ dūredṛ́śā bhāsā́ kṛṣṇā́dhvā ǀ
ádha bahú cittáma ū́rmyāyāstiráḥ śocíṣā dadṛśe pāvakáḥ ǁā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā |
adha bahu cit tama ūrmyāyās tiraḥ śociṣā dadṛśe pāvakaḥ ||आ । यः । प॒प्रौ । जाय॑मानः । उ॒र्वी इति॑ । दू॒रे॒ऽदृशा॑ । भा॒सा । कृ॒ष्णऽअ॑ध्वा ।
अध॑ । ब॒हु । चि॒त् । तमः॑ । ऊर्म्या॑याः । ति॒रः । शो॒चिषा॑ । द॒दृ॒शे॒ । पा॒व॒कः ॥आ । यः । पप्रौ । जायमानः । उर्वी इति । दूरेऽदृशा । भासा । कृष्णऽअध्वा ।
अध । बहु । चित् । तमः । ऊर्म्यायाः । तिरः । शोचिषा । ददृशे । पावकः ॥ā́ ǀ yáḥ ǀ papráu ǀ jā́yamānaḥ ǀ urvī́ íti ǀ dūre-dṛ́śā ǀ bhāsā́ ǀ kṛṣṇá-adhvā ǀ
ádha ǀ bahú ǀ cit ǀ támaḥ ǀ ū́rmyāyāḥ ǀ tiráḥ ǀ śocíṣā ǀ dadṛśe ǀ pāvakáḥ ǁā ǀ yaḥ ǀ paprau ǀ jāyamānaḥ ǀ urvī iti ǀ dūre-dṛśā ǀ bhāsā ǀ kṛṣṇa-adhvā ǀ
adha ǀ bahu ǀ cit ǀ tamaḥ ǀ ūrmyāyāḥ ǀ tiraḥ ǀ śociṣā ǀ dadṛśe ǀ pāvakaḥ ǁ6.10.4 Aṣṭaka 4.5.12.4Anuvāka 6.1.79
-
Ṛk 5
नू न॑श्चि॒त्रं पु॑रु॒वाजा॑भिरू॒ती अग्ने॑ र॒यिं म॒घव॑द्भ्यश्च धेहि ।
ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्त्सु॒वीर्ये॑भिश्चा॒भि संति॒ जना॑न् ॥नू नश् चित्रम् पुरुवाजाभिर् ऊती अग्ने रयिम् मघवद्भ्यश् च धेहि |
ये राधसा श्रवसा चात्य् अन्यान् सुवीर्येभिश् चाभि सन्ति जनान् ||nū́ naścitrám puruvā́jābhirūtī́ ágne rayím maghávadbhyaśca dhehi ǀ
yé rā́dhasā śrávasā cā́tyanyā́ntsuvī́ryebhiścābhí sánti jánān ǁnū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi |
ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān ||नु । नः॒ । चि॒त्रम् । पु॒रु॒ऽवाजा॑भिः । ऊ॒ती । अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । च॒ । धे॒हि॒ ।
ये । राध॑सा । श्रव॑सा । च॒ । अति॑ । अ॒न्यान् । सु॒ऽवीर्ये॑भिः । च॒ । अ॒भि । सन्ति॑ । जना॑न् ॥नु । नः । चित्रम् । पुरुऽवाजाभिः । ऊती । अग्ने । रयिम् । मघवत्ऽभ्यः । च । धेहि ।
ये । राधसा । श्रवसा । च । अति । अन्यान् । सुऽवीर्येभिः । च । अभि । सन्ति । जनान् ॥nú ǀ naḥ ǀ citrám ǀ puru-vā́jābhiḥ ǀ ūtī́ ǀ ágne ǀ rayím ǀ maghávat-bhyaḥ ǀ ca ǀ dhehi ǀ
yé ǀ rā́dhasā ǀ śrávasā ǀ ca ǀ áti ǀ anyā́n ǀ su-vī́ryebhiḥ ǀ ca ǀ abhí ǀ sánti ǀ jánān ǁnu ǀ naḥ ǀ citram ǀ puru-vājābhiḥ ǀ ūtī ǀ agne ǀ rayim ǀ maghavat-bhyaḥ ǀ ca ǀ dhehi ǀ
ye ǀ rādhasā ǀ śravasā ǀ ca ǀ ati ǀ anyān ǀ su-vīryebhiḥ ǀ ca ǀ abhi ǀ santi ǀ janān ǁ6.10.5 Aṣṭaka 4.5.12.5Anuvāka 6.1.80
-
Ṛk 6
इ॒मं य॒ज्ञं चनो॑ धा अग्न उ॒शन्यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् ।
भ॒रद्वा॑जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ॥इमं यज्ञं चनो धा अग्न उशन् यं त आसानो जुहुते हविष्मान् |
भरद्वाजेषु दधिषे सुवृक्तिम् अवीर् वाजस्य गध्यस्य सातौ ||imám yajñám cáno dhā agna uśányám ta āsānó juhuté havíṣmān ǀ
bharádvājeṣu dadhiṣe suvṛktímávīrvā́jasya gádhyasya sātáu ǁimaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān |
bharadvājeṣu dadhiṣe suvṛktim avīr vājasya gadhyasya sātau ||इ॒मम् । य॒ज्ञम् । चनः॑ । धाः॒ । अ॒ग्ने॒ । उ॒शन् । यम् । ते॒ । आ॒सा॒नः । जु॒हु॒ते । ह॒विष्मा॑न् ।
भ॒रत्ऽवा॑जेषु । द॒धि॒षे॒ । सु॒ऽवृ॒क्तिम् । अवीः॑ । वाज॑स्य । गध्य॑स्य । सा॒तौ ॥इमम् । यज्ञम् । चनः । धाः । अग्ने । उशन् । यम् । ते । आसानः । जुहुते । हविष्मान् ।
भरत्ऽवाजेषु । दधिषे । सुऽवृक्तिम् । अवीः । वाजस्य । गध्यस्य । सातौ ॥imám ǀ yajñám ǀ cánaḥ ǀ dhāḥ ǀ agne ǀ uśán ǀ yám ǀ te ǀ āsānáḥ ǀ juhuté ǀ havíṣmān ǀ
bharát-vājeṣu ǀ dadhiṣe ǀ su-vṛktím ǀ ávīḥ ǀ vā́jasya ǀ gádhyasya ǀ sātáu ǁimam ǀ yajñam ǀ canaḥ ǀ dhāḥ ǀ agne ǀ uśan ǀ yam ǀ te ǀ āsānaḥ ǀ juhute ǀ haviṣmān ǀ
bharat-vājeṣu ǀ dadhiṣe ǀ su-vṛktim ǀ avīḥ ǀ vājasya ǀ gadhyasya ǀ sātau ǁ6.10.6 Aṣṭaka 4.5.12.6Anuvāka 6.1.81
-
Ṛk 7
वि द्वेषां॑सीनु॒हि व॒र्धयेळां॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
वि द्वेषांसीनुहि वर्धयेऌआम् मदेम शतहिमाः सुवीराः ||
ví dvéṣāṃsīnuhí vardháyéḷām mádema śatáhimāḥ suvī́rāḥ ǁ
vi dveṣāṃsīnuhi vardhayeḷām madema śatahimāḥ suvīrāḥ ||
वि । द्वेषां॑सि । इ॒नु॒हि । व॒र्धय॑ । इळा॑म् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥
वि । द्वेषांसि । इनुहि । वर्धय । इळाम् । मदेम । शतऽहिमाः । सुऽवीराः ॥
ví ǀ dvéṣāṃsi ǀ inuhí ǀ vardháya ǀ íḷām ǀ mádema ǀ śatá-himāḥ ǀ su-vī́rāḥ ǁ
vi ǀ dveṣāṃsi ǀ inuhi ǀ vardhaya ǀ iḷām ǀ madema ǀ śata-himāḥ ǀ su-vīrāḥ ǁ
6.10.7 Aṣṭaka 4.5.12.7Anuvāka 6.1.82
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.