Ṛgveda · Maṇḍala 6

Sūkta 47

Soma · Indra · Devās (A) · Pṛthivī (B) · Bṛhaspati(C) · Indra (D) · Prastoka Sārñjaya’s Dānastuti · Ratha · Dundubha · Dundubha (A) · Indra (B) · Garga Bhāradvāja · 31 ṛks

Link
Devatā देवता
1-5: Soma; 6-19, 21: Indra; 20: Devās (A); Pṛthivī (B); Bṛhaspati(C); Indra (D); 22-25: Prastoka Sārñjaya’s Dānastuti; 26-28: Ratha; 29, 30: Dundubha; 31: Dundubha (A); Indra (B)
Ṛṣi ऋषि
Garga Bhāradvāja
Chandas छन्दस्
Triṣṭubh, Bṛhatī, Anuṣṭubh, Gāyatrī, Dvipadā, Jagatī
Metres by ṛk

1st set of styles triṣṭup (6, 7, 10, 15, 16, 18, 20, 29, 30); nicṛttriṣṭup (1, 3, 5, 21, 22, 28); bhurikpaṅkti (2, 9, 12, 13, 26, 31); virāṭtrisṭup (4, 8, 11); svarāṭpaṅkti (14, 17); virāḍgāyatrī (24, 25); bṛhatī (19); āsurīpaṅkti (23); svarāṭtriṣṭup (27)

2nd set of styles triṣṭubh (1-18, 20-22, 26, 28-31); bṛhatī (19); anuṣṭubh (23); gāyatrī (24); dvipadā (25); jagatī (27)

  1. Ṛk 1

    स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायं ।
    उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिंद्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥

    स्वादुष् किलायम् मधुमां उतायं तीव्रः किलायं रसवां उतायम् |
    उतो न्व् अस्य पपिवांसम् इन्द्रं न कश् चन सहत आहवेषु ||

    svādúṣkílāyám mádhumām̐ utā́yám tīvráḥ kílāyám rásavām̐ utā́yám ǀ
    utó nvásyá papivā́ṃsamíndram ná káścaná sahata āhavéṣu ǁ

    svāduṣ kilāyam madhumāṃ utāyaṃ tīvraḥ kilāyaṃ rasavāṃ utāyam |
    uto nv asya papivāṃsam indraṃ na kaś cana sahata āhaveṣu ||

    स्वा॒दुः । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्रः । किल॑ । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् ।
    उ॒तो इति॑ । नु । अ॒स्य । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥

    स्वादुः । किल । अयम् । मधुऽमान् । उत । अयम् । तीव्रः । किल । अयम् । रसऽवान् । उत । अयम् ।
    उतो इति । नु । अस्य । पपिऽवांसम् । इन्द्रम् । न । कः । चन । सहते । आऽहवेषु ॥

    svādúḥ ǀ kíla ǀ ayám ǀ mádhu-mān ǀ utá ǀ ayám ǀ tīvráḥ ǀ kíla ǀ ayám ǀ rása-vān ǀ utá ǀ ayám ǀ
    utó íti ǀ nú ǀ asyá ǀ papi-vā́ṃsam ǀ índram ǀ ná ǀ káḥ ǀ caná ǀ sahate ǀ ā-havéṣu ǁ

    svāduḥ ǀ kila ǀ ayam ǀ madhu-mān ǀ uta ǀ ayam ǀ tīvraḥ ǀ kila ǀ ayam ǀ rasa-vān ǀ uta ǀ ayam ǀ
    uto iti ǀ nu ǀ asya ǀ papi-vāṃsam ǀ indram ǀ na ǀ kaḥ ǀ cana ǀ sahate ǀ ā-haveṣu ǁ

    6.47.1 Aṣṭaka 4.7.30.1Anuvāka 6.4.72

  2. Ṛk 2

    अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येंद्रो॑ वृत्र॒हत्ये॑ म॒माद॑ ।
    पु॒रूणि॒ यश्च्यौ॒त्ना शंब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॒॑ हन् ॥

    अयं स्वादुर् इह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद |
    पुरूणि यश् च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ||

    ayám svādúrihá mádiṣṭha āsa yásyéndro vṛtrahátye mamā́da ǀ
    purū́ṇi yáścyautnā́ śámbarasya ví navatím náva ca dehyó hán ǁ

    ayaṃ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda |
    purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han ||

    अ॒यम् । स्वा॒दुः । इ॒ह । मदि॑ष्ठः । आ॒स॒ । यस्य॑ । इन्द्रः॑ । वृ॒त्र॒ऽहत्ये॑ । म॒माद॑ ।
    पु॒रूणि॑ । यः । च्यौ॒त्ना । शम्ब॑रस्य । वि । न॒व॒तिम् । नव॑ । च॒ । दे॒ह्यः॑ । हन् ॥

    अयम् । स्वादुः । इह । मदिष्ठः । आस । यस्य । इन्द्रः । वृत्रऽहत्ये । ममाद ।
    पुरूणि । यः । च्यौत्ना । शम्बरस्य । वि । नवतिम् । नव । च । देह्यः । हन् ॥

    ayám ǀ svādúḥ ǀ ihá ǀ mádiṣṭhaḥ ǀ āsa ǀ yásya ǀ índraḥ ǀ vṛtra-hátye ǀ mamā́da ǀ
    purū́ṇi ǀ yáḥ ǀ cyautnā́ ǀ śámbarasya ǀ ví ǀ navatím ǀ náva ǀ ca ǀ dehyáḥ ǀ hán ǁ

    ayam ǀ svāduḥ ǀ iha ǀ madiṣṭhaḥ ǀ āsa ǀ yasya ǀ indraḥ ǀ vṛtra-hatye ǀ mamāda ǀ
    purūṇi ǀ yaḥ ǀ cyautnā ǀ śambarasya ǀ vi ǀ navatim ǀ nava ǀ ca ǀ dehyaḥ ǀ han ǁ

    6.47.2 Aṣṭaka 4.7.30.2Anuvāka 6.4.73

  3. Ṛk 3

    अ॒यं मे॑ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः ।
    अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ॥

    अयम् मे पीत उद् इयर्ति वाचम् अयम् मनीषाम् उशतीम् अजीगः |
    अयं षऌ उर्वीर् अमिमीत धीरो न याभ्यो भुवनं कच् चनारे ||

    ayám me pītá údiyarti vā́camayám manīṣā́muśatī́majīgaḥ ǀ
    ayám ṣáḷurvī́ramimīta dhī́ro ná yā́bhyo bhúvanam káccanā́ré ǁ

    ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ |
    ayaṃ ṣaḷ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre ||

    अ॒यम् । मे॒ । पी॒तः । उत् । इ॒य॒र्ति॒ । वाच॑म् । अ॒यम् । म॒नी॒षाम् । उ॒श॒तीम् । अ॒जी॒ग॒रिति॑ ।
    अ॒यम् । षट् । उ॒र्वीः । अ॒मि॒मी॒त॒ । धीरः॑ । न । याभ्यः॑ । भुव॑नम् । कत् । च॒न । आ॒रे ॥

    अयम् । मे । पीतः । उत् । इयर्ति । वाचम् । अयम् । मनीषाम् । उशतीम् । अजीगरिति ।
    अयम् । षट् । उर्वीः । अमिमीत । धीरः । न । याभ्यः । भुवनम् । कत् । चन । आरे ॥

    ayám ǀ me ǀ pītáḥ ǀ út ǀ iyarti ǀ vā́cam ǀ ayám ǀ manīṣā́m ǀ uśatī́m ǀ ajīgaríti ǀ
    ayám ǀ ṣáṭ ǀ urvī́ḥ ǀ amimīta ǀ dhī́raḥ ǀ ná ǀ yā́bhyaḥ ǀ bhúvanam ǀ kát ǀ caná ǀ āré ǁ

    ayam ǀ me ǀ pītaḥ ǀ ut ǀ iyarti ǀ vācam ǀ ayam ǀ manīṣām ǀ uśatīm ǀ ajīgariti ǀ
    ayam ǀ ṣaṭ ǀ urvīḥ ǀ amimīta ǀ dhīraḥ ǀ na ǀ yābhyaḥ ǀ bhuvanam ǀ kat ǀ cana ǀ āre ǁ

    6.47.3 Aṣṭaka 4.7.30.3Anuvāka 6.4.74

  4. Ṛk 4

    अ॒यं स यो व॑रि॒माणं॑ पृथि॒व्या व॒र्ष्माणं॑ दि॒वो अकृ॑णोद॒यं सः ।
    अ॒यं पी॒यूषं॑ ति॒सृषु॑ प्र॒वत्सु॒ सोमो॑ दाधारो॒र्वं१॒॑तरि॑क्षं ॥

    अयं स यो वरिमाणम् पृथिव्या वर्ष्माणं दिवो अकृणोद् अयं सः |
    अयम् पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्व् अन्तरिक्षम् ||

    ayám sá yó varimā́ṇam pṛthivyā́ varṣmā́ṇam divó ákṛṇodayám sáḥ ǀ
    ayám pīyū́ṣam tisṛ́ṣu pravátsu sómo dādhārorvántárikṣam ǁ

    ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ |
    ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam ||

    अ॒यम् । सः । यः । व॒रि॒माण॑म् । पृ॒थि॒व्याः । व॒र्ष्माण॑म् । दि॒वः । अकृ॑णोत् । अ॒यम् । सः ।
    अ॒यम् । पी॒यूष॑म् । ति॒सृषु॑ । प्र॒वत्ऽसु॑ । सोमः॑ । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् ॥

    अयम् । सः । यः । वरिमाणम् । पृथिव्याः । वर्ष्माणम् । दिवः । अकृणोत् । अयम् । सः ।
    अयम् । पीयूषम् । तिसृषु । प्रवत्ऽसु । सोमः । दाधार । उरु । अन्तरिक्षम् ॥

    ayám ǀ sáḥ ǀ yáḥ ǀ varimā́ṇam ǀ pṛthivyā́ḥ ǀ varṣmā́ṇam ǀ diváḥ ǀ ákṛṇot ǀ ayám ǀ sáḥ ǀ
    ayám ǀ pīyū́ṣam ǀ tisṛ́ṣu ǀ pravát-su ǀ sómaḥ ǀ dādhāra ǀ urú ǀ antárikṣam ǁ

    ayam ǀ saḥ ǀ yaḥ ǀ varimāṇam ǀ pṛthivyāḥ ǀ varṣmāṇam ǀ divaḥ ǀ akṛṇot ǀ ayam ǀ saḥ ǀ
    ayam ǀ pīyūṣam ǀ tisṛṣu ǀ pravat-su ǀ somaḥ ǀ dādhāra ǀ uru ǀ antarikṣam ǁ

    6.47.4 Aṣṭaka 4.7.30.4Anuvāka 6.4.75

  5. Ṛk 5

    अ॒यं वि॑दच्चित्र॒दृशी॑क॒मर्णः॑ शु॒क्रस॑द्मनामु॒षसा॒मनी॑के ।
    अ॒यं म॒हान्म॑ह॒ता स्कंभ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ॥

    अयं विदच् चित्रदृशीकम् अर्णः शुक्रसद्मनाम् उषसाम् अनीके |
    अयम् महान् महता स्कम्भनेनोद् द्याम् अस्तभ्नाद् वृषभो मरुत्वान् ||

    ayám vidaccitradṛ́śīkamárṇaḥ śukrásadmanāmuṣásāmánīke ǀ
    ayám mahā́nmahatā́ skámbhanenóddyā́mastabhnādvṛṣabhó marútvān ǁ

    ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke |
    ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān ||

    अ॒यम् । वि॒द॒त् । चि॒त्र॒ऽदृशी॑कम् । अर्णः॑ । शु॒क्रऽस॑द्मनाम् । उ॒षसा॑म् । अनी॑के ।
    अ॒यम् । म॒हान् । म॒ह॒ता । स्कम्भ॑नेन । उत् । द्याम् । अ॒स्त॒भ्ना॒त् । वृ॒ष॒भः । म॒रुत्वा॑न् ॥

    अयम् । विदत् । चित्रऽदृशीकम् । अर्णः । शुक्रऽसद्मनाम् । उषसाम् । अनीके ।
    अयम् । महान् । महता । स्कम्भनेन । उत् । द्याम् । अस्तभ्नात् । वृषभः । मरुत्वान् ॥

    ayám ǀ vidat ǀ citra-dṛ́śīkam ǀ árṇaḥ ǀ śukrá-sadmanām ǀ uṣásām ǀ ánīke ǀ
    ayám ǀ mahā́n ǀ mahatā́ ǀ skámbhanena ǀ út ǀ dyā́m ǀ astabhnāt ǀ vṛṣabháḥ ǀ marútvān ǁ

    ayam ǀ vidat ǀ citra-dṛśīkam ǀ arṇaḥ ǀ śukra-sadmanām ǀ uṣasām ǀ anīke ǀ
    ayam ǀ mahān ǀ mahatā ǀ skambhanena ǀ ut ǀ dyām ǀ astabhnāt ǀ vṛṣabhaḥ ǀ marutvān ǁ

    6.47.5 Aṣṭaka 4.7.30.5Anuvāka 6.4.76

  6. Ṛk 6

    धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिंद्र वृत्र॒हा शू॑र सम॒रे वसू॑नां ।
    माध्यं॑दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो॑ र॒यिम॒स्मासु॑ धेहि ॥

    धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् |
    माध्यन्दिने सवन आ वृषस्व रयिस्थानो रयिम् अस्मासु धेहि ||

    dhṛṣátpiba kaláśe sómamindra vṛtrahā́ śūra samaré vásūnām ǀ
    mā́dhyaṃdine sávana ā́ vṛṣasva rayisthā́no rayímasmā́su dhehi ǁ

    dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām |
    mādhyandine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi ||

    धृ॒षत् । पि॒ब॒ । क॒लशे॑ । सोम॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहा । शू॒र॒ । स॒म्ऽअ॒रे । वसू॑नाम् ।
    माध्य॑न्दिने । सव॑ने । आ । वृ॒ष॒स्व॒ । र॒यि॒ऽस्थानः॑ । र॒यिम् । अ॒स्मासु॑ । धे॒हि॒ ॥

    धृषत् । पिब । कलशे । सोमम् । इन्द्र । वृत्रऽहा । शूर । सम्ऽअरे । वसूनाम् ।
    माध्यन्दिने । सवने । आ । वृषस्व । रयिऽस्थानः । रयिम् । अस्मासु । धेहि ॥

    dhṛṣát ǀ piba ǀ kaláśe ǀ sómam ǀ indra ǀ vṛtra-hā́ ǀ śūra ǀ sam-aré ǀ vásūnām ǀ
    mā́dhyandine ǀ sávane ǀ ā́ ǀ vṛṣasva ǀ rayi-sthā́naḥ ǀ rayím ǀ asmā́su ǀ dhehi ǁ

    dhṛṣat ǀ piba ǀ kalaśe ǀ somam ǀ indra ǀ vṛtra-hā ǀ śūra ǀ sam-are ǀ vasūnām ǀ
    mādhyandine ǀ savane ǀ ā ǀ vṛṣasva ǀ rayi-sthānaḥ ǀ rayim ǀ asmāsu ǀ dhehi ǁ

    6.47.6 Aṣṭaka 4.7.31.1Anuvāka 6.4.77

  7. Ṛk 7

    इंद्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो॑ नय प्रत॒रं वस्यो॒ अच्छ॑ ।
    भवा॑ सुपा॒रो अ॑तिपार॒यो नो॒ भवा॒ सुनी॑तिरु॒त वा॒मनी॑तिः ॥

    इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ |
    भवा सुपारो अतिपारयो नो भवा सुनीतिर् उत वामनीतिः ||

    índra prá ṇaḥ puraetéva paśya prá no naya pratarám vásyo áccha ǀ
    bhávā supāró atipārayó no bhávā súnītirutá vāmánītiḥ ǁ

    indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha |
    bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ ||

    इन्द्र॑ । प्र । नः॒ । पु॒र॒ए॒ताऽइ॑व । पश्य॑ । प्र । नः॒ । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ ।
    भव॑ । सु॒ऽपा॒रः । अ॒ति॒ऽपा॒र॒यः । नः॒ । भव॑ । सुऽनी॑तिः । उ॒त । वा॒मऽनी॑तिः ॥

    इन्द्र । प्र । नः । पुरएताऽइव । पश्य । प्र । नः । नय । प्रऽतरम् । वस्यः । अच्छ ।
    भव । सुऽपारः । अतिऽपारयः । नः । भव । सुऽनीतिः । उत । वामऽनीतिः ॥

    índra ǀ prá ǀ naḥ ǀ puraetā́-iva ǀ páśya ǀ prá ǀ naḥ ǀ naya ǀ pra-tarám ǀ vásyaḥ ǀ áccha ǀ
    bháva ǀ su-pāráḥ ǀ ati-pārayáḥ ǀ naḥ ǀ bháva ǀ sú-nītiḥ ǀ utá ǀ vāmá-nītiḥ ǁ

    indra ǀ pra ǀ naḥ ǀ puraetā-iva ǀ paśya ǀ pra ǀ naḥ ǀ naya ǀ pra-taram ǀ vasyaḥ ǀ accha ǀ
    bhava ǀ su-pāraḥ ǀ ati-pārayaḥ ǀ naḥ ǀ bhava ǀ su-nītiḥ ǀ uta ǀ vāma-nītiḥ ǁ

    6.47.7 Aṣṭaka 4.7.31.2Anuvāka 6.4.78

  8. Ṛk 8

    उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति ।
    ऋ॒ष्वा त॑ इंद्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हंता॑ ॥

    उरुं नो लोकम् अनु नेषि विद्वान् स्वर्वज् ज्योतिर् अभयं स्वस्ति |
    ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ||

    urúm no lokámánu neṣi vidvā́ntsvárvajjyótirábhayam svastí ǀ
    ṛṣvā́ ta indra sthávirasya bāhū́ úpa stheyāma śaraṇā́ bṛhántā ǁ

    uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti |
    ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā ||

    उ॒रुम् । नः॒ । लो॒कम् । अनु॑ । ने॒षि॒ । वि॒द्वान् । स्वः॑ऽवत् । ज्योतिः॑ । अभ॑यम् । स्व॒स्ति ।
    ऋ॒ष्वा । ते॒ । इ॒न्द्र॒ । स्थवि॑रस्य । बा॒हू इति॑ । उप॑ । स्थे॒या॒म॒ । श॒र॒णा । बृ॒हन्ता॑ ॥

    उरुम् । नः । लोकम् । अनु । नेषि । विद्वान् । स्वःऽवत् । ज्योतिः । अभयम् । स्वस्ति ।
    ऋष्वा । ते । इन्द्र । स्थविरस्य । बाहू इति । उप । स्थेयाम । शरणा । बृहन्ता ॥

    urúm ǀ naḥ ǀ lokám ǀ ánu ǀ neṣi ǀ vidvā́n ǀ sváḥ-vat ǀ jyótiḥ ǀ ábhayam ǀ svastí ǀ
    ṛṣvā́ ǀ te ǀ indra ǀ sthávirasya ǀ bāhū́ íti ǀ úpa ǀ stheyāma ǀ śaraṇā́ ǀ bṛhántā ǁ

    urum ǀ naḥ ǀ lokam ǀ anu ǀ neṣi ǀ vidvān ǀ svaḥ-vat ǀ jyotiḥ ǀ abhayam ǀ svasti ǀ
    ṛṣvā ǀ te ǀ indra ǀ sthavirasya ǀ bāhū iti ǀ upa ǀ stheyāma ǀ śaraṇā ǀ bṛhantā ǁ

    6.47.8 Aṣṭaka 4.7.31.3Anuvāka 6.4.79

  9. Ṛk 9

    वरि॑ष्ठे न इंद्र वं॒धुरे॑ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा ।
    इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो॑ अ॒र्यः ॥

    वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्न् अश्वयोर् आ |
    इषम् आ वक्षीषां वर्षिष्ठाम् मा नस् तारीन् मघवन् रायो अर्यः ||

    váriṣṭhe na indra vandhúre dhā váhiṣṭhayoḥ śatāvannáśvayorā́ ǀ
    íṣamā́ vakṣīṣā́m várṣiṣṭhām mā́ nastārīnmaghavanrā́yo aryáḥ ǁ

    variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā |
    iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ ||

    वरि॑ष्ठे । नः॒ । इ॒न्द्र॒ । व॒न्धुरे॑ । धाः॒ । वहि॑ष्ठयोः । श॒त॒ऽव॒न् । अश्व॑योः । आ ।
    इष॑म् । आ । व॒क्षि॒ । इ॒षाम् । वर्षि॑ष्ठाम् । मा । नः॒ । ता॒री॒त् । म॒घ॒ऽव॒न् । रायः॑ । अ॒र्यः ॥

    वरिष्ठे । नः । इन्द्र । वन्धुरे । धाः । वहिष्ठयोः । शतऽवन् । अश्वयोः । आ ।
    इषम् । आ । वक्षि । इषाम् । वर्षिष्ठाम् । मा । नः । तारीत् । मघऽवन् । रायः । अर्यः ॥

    váriṣṭhe ǀ naḥ ǀ indra ǀ vandhúre ǀ dhāḥ ǀ váhiṣṭhayoḥ ǀ śata-van ǀ áśvayoḥ ǀ ā́ ǀ
    íṣam ǀ ā́ ǀ vakṣi ǀ iṣā́m ǀ várṣiṣṭhām ǀ mā́ ǀ naḥ ǀ tārīt ǀ magha-van ǀ rā́yaḥ ǀ aryáḥ ǁ

    variṣṭhe ǀ naḥ ǀ indra ǀ vandhure ǀ dhāḥ ǀ vahiṣṭhayoḥ ǀ śata-van ǀ aśvayoḥ ǀ ā ǀ
    iṣam ǀ ā ǀ vakṣi ǀ iṣām ǀ varṣiṣṭhām ǀ mā ǀ naḥ ǀ tārīt ǀ magha-van ǀ rāyaḥ ǀ aryaḥ ǁ

    6.47.9 Aṣṭaka 4.7.31.4Anuvāka 6.4.80

  10. Ṛk 10

    इंद्र॑ मृ॒ळ मह्यं॑ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारां॑ ।
    यत्किं चा॒हं त्वा॒युरि॒दं वदा॑मि॒ तज्जु॑षस्व कृ॒धि मा॑ दे॒ववं॑तं ॥

    इन्द्र मृऌअ मह्यं जीवातुम् इच्छ चोदय धियम् अयसो न धाराम् |
    यत् किं चाहं त्वायुर् इदं वदामि तज् जुषस्व कृधि मा देववन्तम् ||

    índra mṛḷá máhyam jīvā́tumiccha codáya dhíyamáyaso ná dhā́rām ǀ
    yátkím cāhám tvāyúridám vádāmi tájjuṣasva kṛdhí mā devávantam ǁ

    indra mṛḷa mahyaṃ jīvātum iccha codaya dhiyam ayaso na dhārām |
    yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam ||

    इन्द्र॑ । मृ॒ळ । मह्य॑म् । जी॒वातु॑म् । इ॒च्छ॒ । चो॒दय॑ । धिय॑म् । अय॑सः । न । धारा॑म् ।
    यत् । किम् । च॒ । अ॒हम् । त्वा॒ऽयुः । इ॒दम् । वदा॑मि । तत् । जु॒ष॒स्व॒ । कृ॒धि । मा॒ । दे॒वऽव॑न्तम् ॥

    इन्द्र । मृळ । मह्यम् । जीवातुम् । इच्छ । चोदय । धियम् । अयसः । न । धाराम् ।
    यत् । किम् । च । अहम् । त्वाऽयुः । इदम् । वदामि । तत् । जुषस्व । कृधि । मा । देवऽवन्तम् ॥

    índra ǀ mṛḷá ǀ máhyam ǀ jīvā́tum ǀ iccha ǀ codáya ǀ dhíyam ǀ áyasaḥ ǀ ná ǀ dhā́rām ǀ
    yát ǀ kím ǀ ca ǀ ahám ǀ tvā-yúḥ ǀ idám ǀ vádāmi ǀ tát ǀ juṣasva ǀ kṛdhí ǀ mā ǀ devá-vantam ǁ

    indra ǀ mṛḷa ǀ mahyam ǀ jīvātum ǀ iccha ǀ codaya ǀ dhiyam ǀ ayasaḥ ǀ na ǀ dhārām ǀ
    yat ǀ kim ǀ ca ǀ aham ǀ tvā-yuḥ ǀ idam ǀ vadāmi ǀ tat ǀ juṣasva ǀ kṛdhi ǀ mā ǀ deva-vantam ǁ

    6.47.10 Aṣṭaka 4.7.31.5Anuvāka 6.4.81

  11. Ṛk 11

    त्रा॒तार॒मिंद्र॑मवि॒तार॒मिंद्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिंद्रं॑ ।
    ह्वया॑मि श॒क्रं पु॑रुहू॒तमिंद्रं॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विंद्रः॑ ॥

    त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवे-हवे सुहवं शूरम् इन्द्रम् |
    ह्वयामि शक्रम् पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ||

    trātā́ramíndramavitā́ramíndram hávehave suhávam śū́ramíndram ǀ
    hváyāmi śakrám puruhūtámíndram svastí no maghávā dhātvíndraḥ ǁ

    trātāram indram avitāram indraṃ have-have suhavaṃ śūram indram |
    hvayāmi śakram puruhūtam indraṃ svasti no maghavā dhātv indraḥ ||

    त्रा॒तार॑म् । इन्द्र॑म् । अ॒वि॒तार॑म् । इन्द्र॑म् । हवे॑ऽहवे । सु॒ऽहव॑म् । शूर॑म् । इन्द्र॑म् ।
    ह्वया॑मि । श॒क्रम् । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् । स्व॒स्ति । नः॒ । म॒घऽवा॑ । धा॒तु॒ । इन्द्रः॑ ॥

    त्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेऽहवे । सुऽहवम् । शूरम् । इन्द्रम् ।
    ह्वयामि । शक्रम् । पुरुऽहूतम् । इन्द्रम् । स्वस्ति । नः । मघऽवा । धातु । इन्द्रः ॥

    trātā́ram ǀ índram ǀ avitā́ram ǀ índram ǀ háve-have ǀ su-hávam ǀ śū́ram ǀ índram ǀ
    hváyāmi ǀ śakrám ǀ puru-hūtám ǀ índram ǀ svastí ǀ naḥ ǀ maghá-vā ǀ dhātu ǀ índraḥ ǁ

    trātāram ǀ indram ǀ avitāram ǀ indram ǀ have-have ǀ su-havam ǀ śūram ǀ indram ǀ
    hvayāmi ǀ śakram ǀ puru-hūtam ǀ indram ǀ svasti ǀ naḥ ǀ magha-vā ǀ dhātu ǀ indraḥ ǁ

    6.47.11 Aṣṭaka 4.7.32.1Anuvāka 6.4.82

  12. Ṛk 12

    इंद्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।
    बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

    इन्द्रः सुत्रामा स्ववां अवोभिः सुमृऌईको भवतु विश्ववेदाः |
    बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ||

    índraḥ sutrā́mā svávām̐ ávobhiḥ sumṛḷīkó bhavatu viśvávedāḥ ǀ
    bā́dhatām dvéṣo ábhayam kṛṇotu suvī́ryasya pátayaḥ syāma ǁ

    indraḥ sutrāmā svavāṃ avobhiḥ sumṛḷīko bhavatu viśvavedāḥ |
    bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma ||

    इन्द्रः॑ । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अवः॑ऽभिः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्वऽवे॑दाः ।
    बाध॑ताम् । द्वेषः॑ । अभ॑यम् । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

    इन्द्रः । सुऽत्रामा । स्वऽवान् । अवःऽभिः । सुऽमृळीकः । भवतु । विश्वऽवेदाः ।
    बाधताम् । द्वेषः । अभयम् । कृणोतु । सुऽवीर्यस्य । पतयः । स्याम ॥

    índraḥ ǀ su-trā́mā ǀ svá-vān ǀ ávaḥ-bhiḥ ǀ su-mṛḷīkáḥ ǀ bhavatu ǀ viśvá-vedāḥ ǀ
    bā́dhatām ǀ dvéṣaḥ ǀ ábhayam ǀ kṛṇotu ǀ su-vī́ryasya ǀ pátayaḥ ǀ syāma ǁ

    indraḥ ǀ su-trāmā ǀ sva-vān ǀ avaḥ-bhiḥ ǀ su-mṛḷīkaḥ ǀ bhavatu ǀ viśva-vedāḥ ǀ
    bādhatām ǀ dveṣaḥ ǀ abhayam ǀ kṛṇotu ǀ su-vīryasya ǀ patayaḥ ǀ syāma ǁ

    6.47.12 Aṣṭaka 4.7.32.2Anuvāka 6.4.83

  13. Ṛk 13

    तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
    स सु॒त्रामा॒ स्ववाँ॒ इंद्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥

    तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम |
    स सुत्रामा स्ववां इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ||

    tásya vayám sumatáu yajñíyasyā́pi bhadré saumanasé syāma ǀ
    sá sutrā́mā svávām̐ índro asmé ārā́cciddvéṣaḥ sanutáryuyotu ǁ

    tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma |
    sa sutrāmā svavāṃ indro asme ārāc cid dveṣaḥ sanutar yuyotu ||

    तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ।
    सः । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒तु॒ ॥

    तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ।
    सः । सुऽत्रामा । स्वऽवान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । युयोतु ॥

    tásya ǀ vayám ǀ su-matáu ǀ yajñíyasya ǀ ápi ǀ bhadré ǀ saumanasé ǀ syāma ǀ
    sáḥ ǀ su-trā́mā ǀ svá-vān ǀ índraḥ ǀ asmé íti ǀ ārā́t ǀ cit ǀ dvéṣaḥ ǀ sanutáḥ ǀ yuyotu ǁ

    tasya ǀ vayam ǀ su-matau ǀ yajñiyasya ǀ api ǀ bhadre ǀ saumanase ǀ syāma ǀ
    saḥ ǀ su-trāmā ǀ sva-vān ǀ indraḥ ǀ asme iti ǀ ārāt ǀ cit ǀ dveṣaḥ ǀ sanutaḥ ǀ yuyotu ǁ

    6.47.13 Aṣṭaka 4.7.32.3Anuvāka 6.4.84

  14. Ṛk 14

    अव॒ त्वे इं॑द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा॑णि नि॒युतो॑ धवंते ।
    उ॒रू न राधः॒ सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिंदू॑न् ॥

    अव त्वे इन्द्र प्रवतो नोर्मिर् गिरो ब्रह्माणि नियुतो धवन्ते |
    उरू न राधः सवना पुरूण्य् अपो गा वज्रिन् युवसे सम् इन्दून् ||

    áva tvé indra praváto nórmírgíro bráhmāṇi niyúto dhavante ǀ
    urū́ ná rā́dhaḥ sávanā purū́ṇyapó gā́ vajrinyuvase sámíndūn ǁ

    ava tve indra pravato normir giro brahmāṇi niyuto dhavante |
    urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn ||

    अव॑ । त्वे इति॑ । इ॒न्द्र॒ । प्र॒ऽवतः॑ । न । ऊ॒र्मिः । गिरः॑ । ब्रह्मा॑णि । नि॒ऽयुतः॑ । ध॒व॒न्ते॒ ।
    उ॒रु । न । राधः॑ । सव॑ना । पु॒रूणि॑ । अ॒पः । गाः । व॒ज्रि॒न् । यु॒व॒से॒ । सम् । इन्दू॑न् ॥

    अव । त्वे इति । इन्द्र । प्रऽवतः । न । ऊर्मिः । गिरः । ब्रह्माणि । निऽयुतः । धवन्ते ।
    उरु । न । राधः । सवना । पुरूणि । अपः । गाः । वज्रिन् । युवसे । सम् । इन्दून् ॥

    áva ǀ tvé íti ǀ indra ǀ pra-vátaḥ ǀ ná ǀ ūrmíḥ ǀ gíraḥ ǀ bráhmāṇi ǀ ni-yútaḥ ǀ dhavante ǀ
    urú ǀ ná ǀ rā́dhaḥ ǀ sávanā ǀ purū́ṇi ǀ apáḥ ǀ gā́ḥ ǀ vajrin ǀ yuvase ǀ sám ǀ índūn ǁ

    ava ǀ tve iti ǀ indra ǀ pra-vataḥ ǀ na ǀ ūrmiḥ ǀ giraḥ ǀ brahmāṇi ǀ ni-yutaḥ ǀ dhavante ǀ
    uru ǀ na ǀ rādhaḥ ǀ savanā ǀ purūṇi ǀ apaḥ ǀ gāḥ ǀ vajrin ǀ yuvase ǀ sam ǀ indūn ǁ

    6.47.14 Aṣṭaka 4.7.32.4Anuvāka 6.4.85

  15. Ṛk 15

    क ईं॑ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा॑ वि॒श्वहावे॑त् ।
    पादा॑विव प्र॒हर॑न्न॒न्यम॑न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची॑भिः ॥

    क ईं स्तवत् कः पृणात् को यजाते यद् उग्रम् इन् मघवा विश्वहावेत् |
    पादाव् इव प्रहरन्न् अन्यम्-अन्यं कृणोति पूर्वम् अपरं शचीभिः ||

    ká īm stavatkáḥ pṛṇātkó yajāte yádugrámínmaghávā viśváhā́vet ǀ
    pā́dāviva prahárannanyámanyam kṛṇóti pū́rvamáparam śácībhiḥ ǁ

    ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet |
    pādāv iva praharann anyam-anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ ||

    कः । ई॒म् । स्त॒व॒त् । कः । पृ॒णा॒त् । कः । य॒जा॒ते॒ । यत् । उ॒ग्रम् । इत् । म॒घऽवा॑ । वि॒श्वहा॑ । अवे॑त् ।
    पादौ॑ऽइव । प्र॒ऽहर॑न् । अ॒न्यम्ऽअ॑न्यम् । कृ॒णोति॑ । पूर्व॑म् । अप॑रम् । शची॑भिः ॥

    कः । ईम् । स्तवत् । कः । पृणात् । कः । यजाते । यत् । उग्रम् । इत् । मघऽवा । विश्वहा । अवेत् ।
    पादौऽइव । प्रऽहरन् । अन्यम्ऽअन्यम् । कृणोति । पूर्वम् । अपरम् । शचीभिः ॥

    káḥ ǀ īm ǀ stavat ǀ káḥ ǀ pṛṇāt ǀ káḥ ǀ yajāte ǀ yát ǀ ugrám ǀ ít ǀ maghá-vā ǀ viśváhā ǀ ávet ǀ
    pā́dau-iva ǀ pra-háran ǀ anyám-anyam ǀ kṛṇóti ǀ pū́rvam ǀ áparam ǀ śácībhiḥ ǁ

    kaḥ ǀ īm ǀ stavat ǀ kaḥ ǀ pṛṇāt ǀ kaḥ ǀ yajāte ǀ yat ǀ ugram ǀ it ǀ magha-vā ǀ viśvahā ǀ avet ǀ
    pādau-iva ǀ pra-haran ǀ anyam-anyam ǀ kṛṇoti ǀ pūrvam ǀ aparam ǀ śacībhiḥ ǁ

    6.47.15 Aṣṭaka 4.7.32.5Anuvāka 6.4.86

  16. Ṛk 16

    शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम॑न्यमतिनेनी॒यमा॑नः ।
    ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा॑ चोष्कू॒यते॒ विश॒ इंद्रो॑ मनु॒ष्या॑न् ॥

    शृण्वे वीर उग्रम्-उग्रं दमायन्न् अन्यम्-अन्यम् अतिनेनीयमानः |
    एधमानद्विऌ उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ||

    śṛṇvé vīrá ugrámugram damāyánnanyámanyamatinenīyámānaḥ ǀ
    edhamānadvíḷubháyasya rā́jā coṣkūyáte víśa índro manuṣyān ǁ

    śṛṇve vīra ugram-ugraṃ damāyann anyam-anyam atinenīyamānaḥ |
    edhamānadviḷ ubhayasya rājā coṣkūyate viśa indro manuṣyān ||

    शृ॒ण्वे । वी॒रः । उ॒ग्रम्ऽउ॑ग्रम् । द॒म॒ऽयन् । अ॒न्यम्ऽअ॑न्यम् । अ॒ति॒ऽने॒नी॒यमा॑नः ।
    ए॒ध॒मा॒न॒ऽद्विट् । उ॒भय॑स्य । राजा॑ । चो॒ष्कू॒यते॑ । विशः॑ । इन्द्रः॑ । म॒नु॒ष्या॑न् ॥

    शृण्वे । वीरः । उग्रम्ऽउग्रम् । दमऽयन् । अन्यम्ऽअन्यम् । अतिऽनेनीयमानः ।
    एधमानऽद्विट् । उभयस्य । राजा । चोष्कूयते । विशः । इन्द्रः । मनुष्यान् ॥

    śṛṇvé ǀ vīráḥ ǀ ugrám-ugram ǀ dama-yán ǀ anyám-anyam ǀ ati-nenīyámānaḥ ǀ
    edhamāna-dvíṭ ǀ ubháyasya ǀ rā́jā ǀ coṣkūyáte ǀ víśaḥ ǀ índraḥ ǀ manuṣyā́n ǁ

    śṛṇve ǀ vīraḥ ǀ ugram-ugram ǀ dama-yan ǀ anyam-anyam ǀ ati-nenīyamānaḥ ǀ
    edhamāna-dviṭ ǀ ubhayasya ǀ rājā ǀ coṣkūyate ǀ viśaḥ ǀ indraḥ ǀ manuṣyān ǁ

    6.47.16 Aṣṭaka 4.7.33.1Anuvāka 6.4.87

  17. Ṛk 17

    परा॒ पूर्वे॑षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒ अप॑रेभिरेति ।
    अना॑नुभूतीरवधून्वा॒नः पू॒र्वीरिंद्रः॑ श॒रद॑स्तर्तरीति ॥

    परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिर् एति |
    अनानुभूतीर् अवधून्वानः पूर्वीर् इन्द्रः शरदस् तर्तरीति ||

    párā pū́rveṣām sakhyā́ vṛṇakti vitárturāṇo áparebhireti ǀ
    ánānubhūtīravadhūnvānáḥ pūrvī́ríndraḥ śarádastartarīti ǁ

    parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhir eti |
    anānubhūtīr avadhūnvānaḥ pūrvīr indraḥ śaradas tartarīti ||

    परा॑ । पूर्वे॑षाम् । स॒ख्या । वृ॒ण॒क्ति॒ । वि॒ऽतर्तु॑राणः । अप॑रेभिः । ए॒ति॒ ।
    अन॑नुऽभूतीः । अ॒व॒ऽधू॒न्वा॒नः । पू॒र्वीः । इन्द्रः॑ । श॒रदः॑ । त॒र्त॒री॒ति॒ ॥

    परा । पूर्वेषाम् । सख्या । वृणक्ति । विऽतर्तुराणः । अपरेभिः । एति ।
    अननुऽभूतीः । अवऽधून्वानः । पूर्वीः । इन्द्रः । शरदः । तर्तरीति ॥

    párā ǀ pū́rveṣām ǀ sakhyā́ ǀ vṛṇakti ǀ vi-tárturāṇaḥ ǀ áparebhiḥ ǀ eti ǀ
    ánanu-bhūtīḥ ǀ ava-dhūnvānáḥ ǀ pūrvī́ḥ ǀ índraḥ ǀ śarádaḥ ǀ tartarīti ǁ

    parā ǀ pūrveṣām ǀ sakhyā ǀ vṛṇakti ǀ vi-tarturāṇaḥ ǀ aparebhiḥ ǀ eti ǀ
    ananu-bhūtīḥ ǀ ava-dhūnvānaḥ ǀ pūrvīḥ ǀ indraḥ ǀ śaradaḥ ǀ tartarīti ǁ

    6.47.17 Aṣṭaka 4.7.33.2Anuvāka 6.4.88

  18. Ṛk 18

    रू॒पंरू॑पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय ।
    इंद्रो॑ मा॒याभिः॑ पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ॥

    रूपं-रूपम् प्रतिरूपो बभूव तद् अस्य रूपम् प्रतिचक्षणाय |
    इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्य् अस्य हरयः शता दश ||

    rūpáṃrūpam prátirūpo babhūva tádasya rūpám praticákṣaṇāya ǀ
    índro māyā́bhiḥ pururū́pa īyate yuktā́ hyásya hárayaḥ śatā́ dáśa ǁ

    rūpaṃ-rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya |
    indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa ||

    रू॒पम्ऽरू॑पम् । प्रति॑ऽरूपः । ब॒भू॒व॒ । तत् । अ॒स्य॒ । रू॒पम् । प्र॒ति॒ऽचक्ष॑णाय ।
    इन्द्रः॑ । मा॒याभिः॑ । पु॒रु॒ऽरूपः॑ । ई॒य॒ते॒ । यु॒क्ताः । हि । अ॒स्य॒ । हर॑यः । श॒ता । दश॑ ॥

    रूपम्ऽरूपम् । प्रतिऽरूपः । बभूव । तत् । अस्य । रूपम् । प्रतिऽचक्षणाय ।
    इन्द्रः । मायाभिः । पुरुऽरूपः । ईयते । युक्ताः । हि । अस्य । हरयः । शता । दश ॥

    rūpám-rūpam ǀ práti-rūpaḥ ǀ babhūva ǀ tát ǀ asya ǀ rūpám ǀ prati-cákṣaṇāya ǀ
    índraḥ ǀ māyā́bhiḥ ǀ puru-rū́paḥ ǀ īyate ǀ yuktā́ḥ ǀ hí ǀ asya ǀ hárayaḥ ǀ śatā́ ǀ dáśa ǁ

    rūpam-rūpam ǀ prati-rūpaḥ ǀ babhūva ǀ tat ǀ asya ǀ rūpam ǀ prati-cakṣaṇāya ǀ
    indraḥ ǀ māyābhiḥ ǀ puru-rūpaḥ ǀ īyate ǀ yuktāḥ ǀ hi ǀ asya ǀ harayaḥ ǀ śatā ǀ daśa ǁ

    6.47.18 Aṣṭaka 4.7.33.3Anuvāka 6.4.89

  19. Ṛk 19

    यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा॑जति ।
    को वि॒श्वाहा॑ द्विष॒तः पक्ष॑ आसत उ॒तासी॑नेषु सू॒रिषु॑ ॥

    युजानो हरिता रथे भूरि त्वष्टेह राजति |
    को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ||

    yujānó harítā ráthe bhū́ri tváṣṭehá rājati ǀ
    kó viśvā́hā dviṣatáḥ pákṣa āsata utā́sīneṣu sūríṣu ǁ

    yujāno haritā rathe bhūri tvaṣṭeha rājati |
    ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu ||

    यु॒जा॒नः । ह॒रिता॑ । रथे॑ । भूरि॑ । त्वष्टा॑ । इ॒ह । रा॒ज॒ति॒ ।
    कः । वि॒श्वाहा॑ । द्वि॒ष॒तः । पक्षः॑ । आ॒स॒ते॒ । उ॒त । आसी॑नेषु । सू॒रिषु॑ ॥

    युजानः । हरिता । रथे । भूरि । त्वष्टा । इह । राजति ।
    कः । विश्वाहा । द्विषतः । पक्षः । आसते । उत । आसीनेषु । सूरिषु ॥

    yujānáḥ ǀ harítā ǀ ráthe ǀ bhū́ri ǀ tváṣṭā ǀ ihá ǀ rājati ǀ
    káḥ ǀ viśvā́hā ǀ dviṣatáḥ ǀ pákṣaḥ ǀ āsate ǀ utá ǀ ā́sīneṣu ǀ sūríṣu ǁ

    yujānaḥ ǀ haritā ǀ rathe ǀ bhūri ǀ tvaṣṭā ǀ iha ǀ rājati ǀ
    kaḥ ǀ viśvāhā ǀ dviṣataḥ ǀ pakṣaḥ ǀ āsate ǀ uta ǀ āsīneṣu ǀ sūriṣu ǁ

    6.47.19 Aṣṭaka 4.7.33.4Anuvāka 6.4.90

  20. Ṛk 20

    अ॒ग॒व्यू॒ति क्षेत्र॒माग॑न्म देवा उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू॑त् ।
    बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इं॑द्र॒ पंथां॑ ॥

    अगव्यूति क्षेत्रम् आगन्म देवा उर्वी सती भूमिर् अंहूरणाभूत् |
    बृहस्पते प्र चिकित्सा गविष्टाव् इत्था सते जरित्र इन्द्र पन्थाम् ||

    agavyūtí kṣétramā́ganma devā urvī́ satī́ bhū́miraṃhūraṇā́bhūt ǀ
    bṛ́haspate prá cikitsā gáviṣṭāvitthā́ saté jaritrá indra pánthām ǁ

    agavyūti kṣetram āganma devā urvī satī bhūmir aṃhūraṇābhūt |
    bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām ||

    अ॒ग॒व्यू॒ति । क्षेत्र॑म् । आ । अ॒ग॒न्म॒ । दे॒वाः॒ । उ॒र्वी । स॒ती । भूमिः॑ । अं॒हू॒र॒णा । अ॒भू॒त् ।
    बृह॑स्पते । प्र । चि॒कि॒त्स॒ । गोऽइ॑ष्टौ । इ॒त्था । स॒ते । ज॒रि॒त्रे । इ॒न्द्र॒ । पन्था॑म् ॥

    अगव्यूति । क्षेत्रम् । आ । अगन्म । देवाः । उर्वी । सती । भूमिः । अंहूरणा । अभूत् ।
    बृहस्पते । प्र । चिकित्स । गोऽइष्टौ । इत्था । सते । जरित्रे । इन्द्र । पन्थाम् ॥

    agavyūtí ǀ kṣétram ǀ ā́ ǀ aganma ǀ devāḥ ǀ urvī́ ǀ satī́ ǀ bhū́miḥ ǀ aṃhūraṇā́ ǀ abhūt ǀ
    bṛ́haspate ǀ prá ǀ cikitsa ǀ gó-iṣṭau ǀ itthā́ ǀ saté ǀ jaritré ǀ indra ǀ pánthām ǁ

    agavyūti ǀ kṣetram ǀ ā ǀ aganma ǀ devāḥ ǀ urvī ǀ satī ǀ bhūmiḥ ǀ aṃhūraṇā ǀ abhūt ǀ
    bṛhaspate ǀ pra ǀ cikitsa ǀ go-iṣṭau ǀ itthā ǀ sate ǀ jaritre ǀ indra ǀ panthām ǁ

    6.47.20 Aṣṭaka 4.7.33.5Anuvāka 6.4.91

  21. Ṛk 21

    दि॒वेदि॑वे स॒दृशी॑र॒न्यमर्धं॑ कृ॒ष्णा अ॑सेध॒दप॒ सद्म॑नो॒ जाः ।
    अहं॑दा॒सा वृ॑ष॒भो व॑स्न॒यंतो॒दव्र॑जे व॒र्चिनं॒ शंब॑रं च ॥

    दिवे-दिवे सदृशीर् अन्यम् अर्धं कृष्णा असेधद् अप सद्मनो जाः |
    अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ||

    divédive sadṛ́śīranyámárdham kṛṣṇā́ asedhadápa sádmano jā́ḥ ǀ
    áhandāsā́ vṛṣabhó vasnayántodávraje varcínam śámbaram ca ǁ

    dive-dive sadṛśīr anyam ardhaṃ kṛṣṇā asedhad apa sadmano jāḥ |
    ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca ||

    दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒न्यम् । अर्ध॑म् । कृ॒ष्णाः । अ॒से॒ध॒त् । अप॑ । सद्म॑नः । जाः ।
    अह॑न् । दा॒सा । वृ॒ष॒भः । व॒स्न॒यन्ता॑ । उ॒दऽव्र॑जे । व॒र्चिन॑म् । शम्ब॑रम् । च॒ ॥

    दिवेऽदिवे । सऽदृशीः । अन्यम् । अर्धम् । कृष्णाः । असेधत् । अप । सद्मनः । जाः ।
    अहन् । दासा । वृषभः । वस्नयन्ता । उदऽव्रजे । वर्चिनम् । शम्बरम् । च ॥

    divé-dive ǀ sa-dṛ́śīḥ ǀ anyám ǀ árdham ǀ kṛṣṇā́ḥ ǀ asedhat ǀ ápa ǀ sádmanaḥ ǀ jā́ḥ ǀ
    áhan ǀ dāsā́ ǀ vṛṣabháḥ ǀ vasnayántā ǀ udá-vraje ǀ varcínam ǀ śámbaram ǀ ca ǁ

    dive-dive ǀ sa-dṛśīḥ ǀ anyam ǀ ardham ǀ kṛṣṇāḥ ǀ asedhat ǀ apa ǀ sadmanaḥ ǀ jāḥ ǀ
    ahan ǀ dāsā ǀ vṛṣabhaḥ ǀ vasnayantā ǀ uda-vraje ǀ varcinam ǀ śambaram ǀ ca ǁ

    6.47.21 Aṣṭaka 4.7.34.1Anuvāka 6.4.92

  22. Ṛk 22

    प्र॒स्तो॒क इन्नु राध॑सस्त इंद्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो॑ऽदात् ।
    दिवो॑दासादतिथि॒ग्वस्य॒ राधः॑ शांब॒रं वसु॒ प्रत्य॑ग्रभीष्म ॥

    प्रस्तोक इन् नु राधसस् त इन्द्र दश कोशयीर् दश वाजिनो ऽदात् |
    दिवोदासाद् अतिथिग्वस्य राधः शाम्बरं वसु प्रत्य् अग्रभीष्म ||

    prastoká ínnú rā́dhasasta indra dáśa kóśayīrdáśa vājíno’dāt ǀ
    dívodāsādatithigvásya rā́dhaḥ śāmbarám vásu prátyagrabhīṣma ǁ

    prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt |
    divodāsād atithigvasya rādhaḥ śāmbaraṃ vasu praty agrabhīṣma ||

    प्र॒स्तो॒कः । इत् । नु । राध॑सः । ते॒ । इ॒न्द्र॒ । दश॑ । कोश॑यीः । दश॑ । वा॒जिनः॑ । अ॒दा॒त् ।
    दिवः॑ऽदासात् । अ॒ति॒थि॒ऽग्वस्य॑ । राधः॑ । शा॒म्ब॒रम् । वसु॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ ॥

    प्रस्तोकः । इत् । नु । राधसः । ते । इन्द्र । दश । कोशयीः । दश । वाजिनः । अदात् ।
    दिवःऽदासात् । अतिथिऽग्वस्य । राधः । शाम्बरम् । वसु । प्रति । अग्रभीष्म ॥

    prastokáḥ ǀ ít ǀ nú ǀ rā́dhasaḥ ǀ te ǀ indra ǀ dáśa ǀ kóśayīḥ ǀ dáśa ǀ vājínaḥ ǀ adāt ǀ
    dívaḥ-dāsāt ǀ atithi-gvásya ǀ rā́dhaḥ ǀ śāmbarám ǀ vásu ǀ práti ǀ agrabhīṣma ǁ

    prastokaḥ ǀ it ǀ nu ǀ rādhasaḥ ǀ te ǀ indra ǀ daśa ǀ kośayīḥ ǀ daśa ǀ vājinaḥ ǀ adāt ǀ
    divaḥ-dāsāt ǀ atithi-gvasya ǀ rādhaḥ ǀ śāmbaram ǀ vasu ǀ prati ǀ agrabhīṣma ǁ

    6.47.22 Aṣṭaka 4.7.34.2Anuvāka 6.4.93

  23. Ṛk 23

    दशाश्वां॒दश॒ कोशां॒दश॒ वस्त्राधि॑भोजना ।
    दशो॑ हिरण्यपिं॒डांदिवो॑दासादसानिषं ॥

    दशाश्वान् दश कोशान् दश वस्त्राधिभोजना |
    दशो हिरण्यपिण्डान् दिवोदासाद् असानिषम् ||

    dáśā́śvāndáśa kóśāndáśa vástrā́dhibhojanā ǀ
    dáśo hiraṇyapiṇḍā́ndívodāsādasāniṣam ǁ

    daśāśvān daśa kośān daśa vastrādhibhojanā |
    daśo hiraṇyapiṇḍān divodāsād asāniṣam ||

    दश॑ । अश्वा॑न् । दश॑ । कोशा॑न् । दश॑ । वस्त्रा॑ । अधि॑ऽभोजना ।
    दशो॒ इति॑ । हि॒र॒ण्य॒ऽपि॒ण्डान् । दिवः॑ऽदासात् । अ॒सा॒नि॒ष॒म् ॥

    दश । अश्वान् । दश । कोशान् । दश । वस्त्रा । अधिऽभोजना ।
    दशो इति । हिरण्यऽपिण्डान् । दिवःऽदासात् । असानिषम् ॥

    dáśa ǀ áśvān ǀ dáśa ǀ kóśān ǀ dáśa ǀ vástrā ǀ ádhi-bhojanā ǀ
    dáśo íti ǀ hiraṇya-piṇḍā́n ǀ dívaḥ-dāsāt ǀ asāniṣam ǁ

    daśa ǀ aśvān ǀ daśa ǀ kośān ǀ daśa ǀ vastrā ǀ adhi-bhojanā ǀ
    daśo iti ǀ hiraṇya-piṇḍān ǀ divaḥ-dāsāt ǀ asāniṣam ǁ

    6.47.23 Aṣṭaka 4.7.34.3Anuvāka 6.4.94

  24. Ṛk 24

    दश॒ रथा॒न्प्रष्टि॑मतः श॒तं गा अथ॑र्वभ्यः ।
    अ॒श्व॒थः पा॒यवे॑ऽदात् ॥

    दश रथान् प्रष्टिमतः शतं गा अथर्वभ्यः |
    अश्वथः पायवे ऽदात् ||

    dáśa ráthānpráṣṭimataḥ śatám gā́ átharvabhyaḥ ǀ
    aśvatháḥ pāyáve’dāt ǁ

    daśa rathān praṣṭimataḥ śataṃ gā atharvabhyaḥ |
    aśvathaḥ pāyave 'dāt ||

    दश॑ । रथा॑न् । प्रष्टि॑ऽमतः । श॒तम् । गाः । अथ॑र्वऽभ्यः ।
    अ॒श्व॒थः । पा॒यवे॑ । अ॒दा॒त् ॥

    दश । रथान् । प्रष्टिऽमतः । शतम् । गाः । अथर्वऽभ्यः ।
    अश्वथः । पायवे । अदात् ॥

    dáśa ǀ ráthān ǀ práṣṭi-mataḥ ǀ śatám ǀ gā́ḥ ǀ átharva-bhyaḥ ǀ
    aśvatháḥ ǀ pāyáve ǀ adāt ǁ

    daśa ǀ rathān ǀ praṣṭi-mataḥ ǀ śatam ǀ gāḥ ǀ atharva-bhyaḥ ǀ
    aśvathaḥ ǀ pāyave ǀ adāt ǁ

    6.47.24 Aṣṭaka 4.7.34.4Anuvāka 6.4.95

  25. Ṛk 25

    महि॒ राधो॑ वि॒श्वज॑न्यं॒ दधा॑नान्भ॒रद्वा॑जान्त्सार्ञ्ज॒यो अ॒भ्य॑यष्ट ॥

    महि राधो विश्वजन्यं दधानान् भरद्वाजान् सार्ञ्जयो अभ्य् अयष्ट ||

    máhi rā́dho viśvájanyam dádhānānbharádvājāntsārñjayó abhyáyaṣṭa ǁ

    mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhy ayaṣṭa ||

    महि॑ । राधः॑ । वि॒श्वऽज॑न्यम् । दधा॑नान् । भ॒रत्ऽवा॑जान् । सा॒र्ञ्ज॒यः । अ॒भि । अ॒य॒ष्ट॒ ॥

    महि । राधः । विश्वऽजन्यम् । दधानान् । भरत्ऽवाजान् । सार्ञ्जयः । अभि । अयष्ट ॥

    máhi ǀ rā́dhaḥ ǀ viśvá-janyam ǀ dádhānān ǀ bharát-vājān ǀ sārñjayáḥ ǀ abhí ǀ ayaṣṭa ǁ

    mahi ǀ rādhaḥ ǀ viśva-janyam ǀ dadhānān ǀ bharat-vājān ǀ sārñjayaḥ ǀ abhi ǀ ayaṣṭa ǁ

    6.47.25 Aṣṭaka 4.7.34.5Anuvāka 6.4.96

  26. Ṛk 26

    वन॑स्पते वी॒ड्वं॑गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ ।
    गोभिः॒ संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥

    वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः |
    गोभिः संनद्धो असि वीऌअयस्वास्थाता ते जयतु जेत्वानि ||

    vánaspate vīḍváṅgo hí bhūyā́ asmátsakhā pratáraṇaḥ suvī́raḥ ǀ
    góbhiḥ sáṃnaddho asi vīḷáyasvāsthātā́ te jayatu jétvāni ǁ

    vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ |
    gobhiḥ saṃnaddho asi vīḷayasvāsthātā te jayatu jetvāni ||

    वन॑स्पते । वी॒ळुऽअ॑ङ्गः । हि । भू॒याः । अ॒स्मत्ऽस॑खा । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ ।
    गोभिः॑ । सम्ऽन॑द्धः । अ॒सि॒ । वी॒ळय॑स्व । आ॒ऽस्था॒ता । ते॒ । ज॒य॒तु॒ । जेत्वा॑नि ॥

    वनस्पते । वीळुऽअङ्गः । हि । भूयाः । अस्मत्ऽसखा । प्रऽतरणः । सुऽवीरः ।
    गोभिः । सम्ऽनद्धः । असि । वीळयस्व । आऽस्थाता । ते । जयतु । जेत्वानि ॥

    vánaspate ǀ vīḷú-aṅgaḥ ǀ hí ǀ bhūyā́ḥ ǀ asmát-sakhā ǀ pra-táraṇaḥ ǀ su-vī́raḥ ǀ
    góbhiḥ ǀ sám-naddhaḥ ǀ asi ǀ vīḷáyasva ǀ ā-sthātā́ ǀ te ǀ jayatu ǀ jétvāni ǁ

    vanaspate ǀ vīḷu-aṅgaḥ ǀ hi ǀ bhūyāḥ ǀ asmat-sakhā ǀ pra-taraṇaḥ ǀ su-vīraḥ ǀ
    gobhiḥ ǀ sam-naddhaḥ ǀ asi ǀ vīḷayasva ǀ ā-sthātā ǀ te ǀ jayatu ǀ jetvāni ǁ

    6.47.26 Aṣṭaka 4.7.35.1Anuvāka 6.4.97

  27. Ṛk 27

    दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑ ।
    अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिंद्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥

    दिवस् पृथिव्याः पर्य् ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतं सहः |
    अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ||

    diváspṛthivyā́ḥ páryója údbhṛtam vánaspátibhyaḥ páryā́bhṛtam sáhaḥ ǀ
    apā́mojmā́nam pári góbhirā́vṛtamíndrasya vájram havíṣā rátham yaja ǁ

    divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ |
    apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja ||

    दि॒वः । पृ॒थि॒व्याः । परि॑ । ओजः॑ । उत्ऽभृ॑तम् । वन॒स्पति॑ऽभ्यः । परि॑ । आऽभृ॑तम् । सहः॑ ।
    अ॒पाम् । ओ॒ज्मान॑म् । परि॑ । गोभिः॑ । आऽवृ॑तम् । इन्द्र॑स्य । वज्र॑म् । ह॒विषा॑ । रथ॑म् । य॒ज॒ ॥

    दिवः । पृथिव्याः । परि । ओजः । उत्ऽभृतम् । वनस्पतिऽभ्यः । परि । आऽभृतम् । सहः ।
    अपाम् । ओज्मानम् । परि । गोभिः । आऽवृतम् । इन्द्रस्य । वज्रम् । हविषा । रथम् । यज ॥

    diváḥ ǀ pṛthivyā́ḥ ǀ pári ǀ ójaḥ ǀ út-bhṛtam ǀ vánaspáti-bhyaḥ ǀ pári ǀ ā́-bhṛtam ǀ sáhaḥ ǀ
    apā́m ǀ ojmā́nam ǀ pári ǀ góbhiḥ ǀ ā́-vṛtam ǀ índrasya ǀ vájram ǀ havíṣā ǀ rátham ǀ yaja ǁ

    divaḥ ǀ pṛthivyāḥ ǀ pari ǀ ojaḥ ǀ ut-bhṛtam ǀ vanaspati-bhyaḥ ǀ pari ǀ ā-bhṛtam ǀ sahaḥ ǀ
    apām ǀ ojmānam ǀ pari ǀ gobhiḥ ǀ ā-vṛtam ǀ indrasya ǀ vajram ǀ haviṣā ǀ ratham ǀ yaja ǁ

    6.47.27 Aṣṭaka 4.7.35.2Anuvāka 6.4.98

  28. Ṛk 28

    इंद्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ ।
    सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥

    इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः |
    सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ||

    índrasya vájro marútāmánīkam mitrásya gárbho váruṇasya nā́bhiḥ ǀ
    sémā́m no havyádātim juṣāṇó déva ratha práti havyā́ gṛbhāya ǁ

    indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ |
    semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya ||

    इन्द्र॑स्य । वज्रः॑ । म॒रुता॑म् । अनी॑कम् । मि॒त्रस्य॑ । गर्भः॑ । वरु॑णस्य । नाभिः॑ ।
    सः । इ॒माम् । नः॒ । ह॒व्यऽदा॑तिम् । जु॒षा॒णः । देव॑ । र॒थ॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥

    इन्द्रस्य । वज्रः । मरुताम् । अनीकम् । मित्रस्य । गर्भः । वरुणस्य । नाभिः ।
    सः । इमाम् । नः । हव्यऽदातिम् । जुषाणः । देव । रथ । प्रति । हव्या । गृभाय ॥

    índrasya ǀ vájraḥ ǀ marútām ǀ ánīkam ǀ mitrásya ǀ gárbhaḥ ǀ váruṇasya ǀ nā́bhiḥ ǀ
    sáḥ ǀ imā́m ǀ naḥ ǀ havyá-dātim ǀ juṣāṇáḥ ǀ déva ǀ ratha ǀ práti ǀ havyā́ ǀ gṛbhāya ǁ

    indrasya ǀ vajraḥ ǀ marutām ǀ anīkam ǀ mitrasya ǀ garbhaḥ ǀ varuṇasya ǀ nābhiḥ ǀ
    saḥ ǀ imām ǀ naḥ ǀ havya-dātim ǀ juṣāṇaḥ ǀ deva ǀ ratha ǀ prati ǀ havyā ǀ gṛbhāya ǁ

    6.47.28 Aṣṭaka 4.7.35.3Anuvāka 6.4.99

  29. Ṛk 29

    उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् ।
    स दुं॑दुभे स॒जूरिंद्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥

    उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां विष्ठितं जगत् |
    स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध शत्रून् ||

    úpa śvāsaya pṛthivī́mutá dyā́m purutrā́ te manutām víṣṭhitam jágat ǀ
    sá dundubhe sajū́ríndreṇa deváirdūrā́ddávīyo ápa sedha śátrūn ǁ

    upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat |
    sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn ||

    उप॑ । श्वा॒स॒य॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । पु॒रु॒ऽत्रा । ते॒ । म॒नु॒ता॒म् । विऽस्थि॑तम् । जग॑त् ।
    सः । दु॒न्दु॒भे॒ । स॒ऽजूः । इन्द्रे॑ण । दे॒वैः । दू॒रात् । दवी॑यः । अप॑ । से॒ध॒ । शत्रू॑न् ॥

    उप । श्वासय । पृथिवीम् । उत । द्याम् । पुरुऽत्रा । ते । मनुताम् । विऽस्थितम् । जगत् ।
    सः । दुन्दुभे । सऽजूः । इन्द्रेण । देवैः । दूरात् । दवीयः । अप । सेध । शत्रून् ॥

    úpa ǀ śvāsaya ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ puru-trā́ ǀ te ǀ manutām ǀ ví-sthitam ǀ jágat ǀ
    sáḥ ǀ dundubhe ǀ sa-jū́ḥ ǀ índreṇa ǀ deváiḥ ǀ dūrā́t ǀ dávīyaḥ ǀ ápa ǀ sedha ǀ śátrūn ǁ

    upa ǀ śvāsaya ǀ pṛthivīm ǀ uta ǀ dyām ǀ puru-trā ǀ te ǀ manutām ǀ vi-sthitam ǀ jagat ǀ
    saḥ ǀ dundubhe ǀ sa-jūḥ ǀ indreṇa ǀ devaiḥ ǀ dūrāt ǀ davīyaḥ ǀ apa ǀ sedha ǀ śatrūn ǁ

    6.47.29 Aṣṭaka 4.7.35.4Anuvāka 6.4.100

  30. Ṛk 30

    आ क्रं॑दय॒ बल॒मोजो॑ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः ।
    अप॑ प्रोथ दुंदुभे दु॒च्छुना॑ इ॒त इंद्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ॥

    आ क्रन्दय बलम् ओजो न आ धा नि ष्टनिहि दुरिता बाधमानः |
    अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिर् असि वीऌअयस्व ||

    ā́ krandaya bálamójo na ā́ dhā níḥ ṣṭanihi duritā́ bā́dhamānaḥ ǀ
    ápa protha dundubhe ducchúnā itá índrasya muṣṭírasi vīḷáyasva ǁ

    ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ |
    apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīḷayasva ||

    आ । क्र॒न्द॒य॒ । बल॑म् । ओजः॑ । नः॒ । आ । धाः॒ । निः । स्त॒नि॒हि॒ । दुः॒ऽइ॒ता । बाध॑मानः ।
    अप॑ । प्रो॒थ॒ । दु॒न्दु॒भे॒ । दु॒च्छुनाः॑ । इ॒तः । इन्द्र॑स्य । मु॒ष्टिः । अ॒सि॒ । वी॒ळय॑स्व ॥

    आ । क्रन्दय । बलम् । ओजः । नः । आ । धाः । निः । स्तनिहि । दुःऽइता । बाधमानः ।
    अप । प्रोथ । दुन्दुभे । दुच्छुनाः । इतः । इन्द्रस्य । मुष्टिः । असि । वीळयस्व ॥

    ā́ ǀ krandaya ǀ bálam ǀ ójaḥ ǀ naḥ ǀ ā́ ǀ dhāḥ ǀ níḥ ǀ stanihi ǀ duḥ-itā́ ǀ bā́dhamānaḥ ǀ
    ápa ǀ protha ǀ dundubhe ǀ ducchúnāḥ ǀ itáḥ ǀ índrasya ǀ muṣṭíḥ ǀ asi ǀ vīḷáyasva ǁ

    ā ǀ krandaya ǀ balam ǀ ojaḥ ǀ naḥ ǀ ā ǀ dhāḥ ǀ niḥ ǀ stanihi ǀ duḥ-itā ǀ bādhamānaḥ ǀ
    apa ǀ protha ǀ dundubhe ǀ ducchunāḥ ǀ itaḥ ǀ indrasya ǀ muṣṭiḥ ǀ asi ǀ vīḷayasva ǁ

    6.47.30 Aṣṭaka 4.7.35.5Anuvāka 6.4.101

  31. Ṛk 31

    आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दुं॑दु॒भिर्वा॑वदीति ।
    समश्व॑पर्णा॒श्चरं॑ति नो॒ नरो॒ऽस्माक॑मिंद्र र॒थिनो॑ जयंतु ॥

    आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति |
    सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ||

    ā́mū́raja pratyā́vartayemā́ḥ ketumáddundubhírvāvadīti ǀ
    sámáśvaparṇāścáranti no náro’smā́kamindra rathíno jayantu ǁ

    āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti |
    sam aśvaparṇāś caranti no naro 'smākam indra rathino jayantu ||

    आ । अ॒मूः । अ॒ज॒ । प्र॒ति॒ऽआव॑र्तय । इ॒माः । के॒तु॒ऽमत् । दु॒न्दु॒भिः । वा॒व॒दी॒ति॒ ।
    सम् । अश्व॑ऽपर्णाः । चर॑न्ति । नः॒ । नरः॑ । अ॒स्माक॑म् । इ॒न्द्र॒ । र॒थिनः॑ । ज॒य॒न्तु॒ ॥

    आ । अमूः । अज । प्रतिऽआवर्तय । इमाः । केतुऽमत् । दुन्दुभिः । वावदीति ।
    सम् । अश्वऽपर्णाः । चरन्ति । नः । नरः । अस्माकम् । इन्द्र । रथिनः । जयन्तु ॥

    ā́ ǀ amū́ḥ ǀ aja ǀ prati-ā́vartaya ǀ imā́ḥ ǀ ketu-mát ǀ dundubhíḥ ǀ vāvadīti ǀ
    sám ǀ áśva-parṇāḥ ǀ cáranti ǀ naḥ ǀ náraḥ ǀ asmā́kam ǀ indra ǀ rathínaḥ ǀ jayantu ǁ

    ā ǀ amūḥ ǀ aja ǀ prati-āvartaya ǀ imāḥ ǀ ketu-mat ǀ dundubhiḥ ǀ vāvadīti ǀ
    sam ǀ aśva-parṇāḥ ǀ caranti ǀ naḥ ǀ naraḥ ǀ asmākam ǀ indra ǀ rathinaḥ ǀ jayantu ǁ

    6.47.31 Aṣṭaka 4.7.35.6Anuvāka 6.4.102

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.47 · Soma · Indra · Devās (A) · Pṛthivī (B) · Bṛhaspati(C) · Indra (D) · Prastoka Sārñjaya’s Dānastuti · Ratha · Dundubha · Dundubha (A) · Indra (B)

Interpretations

Ralph T. H. Griffith

Ṛk 1

YEA, this is good to taste and full of. sweetness, verily it is strong and rich in flavour. No one may conquer Indra in the battle when he hath drunken of the draught we offer.

Ṛk 2

This sweet juice here had mightiest power to gladden: it boldened Indra when he siaughtered Vṛtra, When he defeated Śambara's many onslaughts, and battered down his nineand ninety ramparts.

Ṛk 3

This stirreth up my voice when I have drunk it: this hath aroused from sleep my yearning spirit. This Sage hath measured out the six expanses from which no single creature is excluded.

Ṛk 4

This, even this, is he who hath created the breadth of earth, the lofty height of heaven. He formed the nectar in three headlong rivers. Soma supports the wide mid-air above us.

Ṛk 5

He found the wavy sea of brilliant colours in forefront of the Dawns who dwell in brightness. This Mighty One, the Steer begirt by Maruts, hath propped the heavens up with a mighty pillar.

Ṛk 6

Drink Soma boldly from the beaker, Indra, in war for treasures, Hero, Vṛtra-slayer! Fill thyself full at the mid-day libation, and give us wealth, thou Treasury of riches.

Ṛk 7

Look out for us, O Indra, as our Leader, and guide us on to gain yet goodlier treasure. Excellent Guardian, bear us well through peril, and lead us on to wealth with careful guidance.

Ṛk 8

Lead us to ample room, O thou who knowest, to happiness, security, and sunlight. High, Indra, are the arms of thee the Mighty: may we betake. us to their lofty shelter.

Ṛk 9

Set us on widest chariot-seat, O Indra, with two steeds best to draw, O Lord of Hundreds! Bring us the best among all sorts of viands: let not the foe's wealth, Maghavan, subdue us.

Ṛk 10

Be gracious, Indra, let my days be lengthened: sharpen my thought as ’twere a blade of iron Approve whatever words I speak, dependent on thee, and grant me thy divine protection.

Ṛk 11

Indra the Rescuer, Indra the Helper, Hero who listens at each invocation, Śakra I call, Indra invoked of many. May Indra Maghavan prosper and bless us.

Ṛk 12

May helpful Indra as our good Protector, Lord of all treasures, favour us with succour, Baffle our foes, and give us rest and safety, and may we be the lords of hero vigour.

Ṛk 13

May we enjoy the grace of him the Holy, yea, may we dwell in his auspicious favour. May helpful Indra as our good Preserver drive from us, even from afar, our foemen.

Ṛk 14

Like rivers rushing down a slope, O Indra, to thee haste songs and prayers and linked verses. Thou gatherest, Thunderer! like widespread bounty, kine, water, drops, and manifold libations.

Ṛk 15

Who lauds him, satisfies him, pays him worship? E’en the rich noble still hath found him mighty. With power, as when one moves his feet alternate, he makes the last precede, the foremost follow.

Ṛk 16

Famed is the Hero as each strong man's tamer, ever advancing one and then another. King of both worlds, hating the high and haughty, Indra protects the men who are his people.

Ṛk 17

He loves no more the men he loved aforetime: he turns and moves away allied with others. Rejecting those who disregard his worship, Indra victorious lives through many autumns.

Ṛk 18

In every figure he hath been the mode: this is his only form for us to look on. Indra moves multiform by his illusions; for his Bay Steeds are yoked, ten times a hundred.

Ṛk 19

Here Tvaṣṭar, yoking to the car the Bay Steeds, hath extended sway. Who will for ever stand upon the foeman's side, even when our princes sit at ease?

Ṛk 20

Gods, we have reached a country void of pasture the land, though spacious, was too small to hold us. Bṛhaspati, provide in war for cattle; find a path, Indra, for this faithful singer.

Ṛk 21

Day after day far from their seat he drove them, alike, from place to place, those darksome creatures. The Hero slew the meanly-huckstering Dāsas, Varcin and Śambara, where the waters gather.

Ṛk 22

Out of thy bounty, Indra, hath Prastoka bestowed ten coffers and ten mettled horses. We have received in turn from Divodāsa Śambara's wealth, the gift of Atithigva.

Ṛk 23

Ten horses and ten treasure-chests, ten garments as an added gift, These and ten lumps of gold have I received from Divodāsa's hand.

Ṛk 24

Ten cars with extra steed to each, for the Atharvans hundred cows, Hath Asvatha to Payu given.

Ṛk 25

Thus Sṛñjaya's son honoured the Bharadvājas, recipients of all noble gifts and bounty.

Ṛk 26

Lord of the wood, be firm and strong in body: be, bearing us, a brave victorious hero Show forth thy strength, compact with straps of leather, and let thy rider win all spoils of battle.

Ṛk 27

Its mighty strength was borrowed from the heaven and earth: its conquering force was brought from sovrans of the wood. Honour with holy gifts the Car like Indra's bolt, the Car bound round with straps, the vigour of the floods.

Ṛk 28

Thou Bolt of Indra, Vanguard of the Maruts, close knit to Varuṇa and Child of Mitra,— As such, accepting gifts which here we offer, receive, O Godlike Chariot, these oblations.

Ṛk 29

Send forth thy voice aloud through earth and heaven, and let the world in all its breadth regard thee; O Drum, accordant with the Gods and Indra, drive thou afar, yea, very far, our foemen.

Ṛk 30

Thunder out strength and fill us full of vigour: yea, thunder forth and drive away all dangers. Drive hence, O War-drum, drive away misfortune: thou art the Fist of Indra: show thy firmness.