Sūkta 21
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 2, 9, 10, 12); triṣṭup (4-6, 11); nicṛttriṣṭup (3, 7); svarāḍbṛhatī (8)
2nd set of styles triṣṭubh
-
Ṛk 1
इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवंते ।
धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥इमा उ त्वा पुरुतमस्य कारोर् हव्यं वीर हव्या हवन्ते |
धियो रथेष्ठाम् अजरं नवीयो रयिर् विभूतिर् ईयते वचस्या ||imā́ u tvā purutámasya kārórhávyam vīra hávyā havante ǀ
dhíyo ratheṣṭhā́majáram návīyo rayírvíbhūtirīyate vacasyā́ ǁimā u tvā purutamasya kāror havyaṃ vīra havyā havante |
dhiyo ratheṣṭhām ajaraṃ navīyo rayir vibhūtir īyate vacasyā ||इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒ऽतम॑स्य । का॒रोः । हव्य॑म् । वी॒र॒ । हव्याः॑ । ह॒व॒न्ते॒ ।
धियः॑ । र॒थे॒ऽस्थाम् । अ॒जर॑म् । नवी॑यः । र॒यिः । विऽभू॑तिः । ई॒य॒ते॒ । व॒च॒स्या ॥इमाः । ऊं इति । त्वा । पुरुऽतमस्य । कारोः । हव्यम् । वीर । हव्याः । हवन्ते ।
धियः । रथेऽस्थाम् । अजरम् । नवीयः । रयिः । विऽभूतिः । ईयते । वचस्या ॥imā́ḥ ǀ ūṃ íti ǀ tvā ǀ puru-támasya ǀ kāróḥ ǀ hávyam ǀ vīra ǀ hávyāḥ ǀ havante ǀ
dhíyaḥ ǀ rathe-sthā́m ǀ ajáram ǀ návīyaḥ ǀ rayíḥ ǀ ví-bhūtiḥ ǀ īyate ǀ vacasyā́ ǁimāḥ ǀ ūṃ iti ǀ tvā ǀ puru-tamasya ǀ kāroḥ ǀ havyam ǀ vīra ǀ havyāḥ ǀ havante ǀ
dhiyaḥ ǀ rathe-sthām ǀ ajaram ǀ navīyaḥ ǀ rayiḥ ǀ vi-bhūtiḥ ǀ īyate ǀ vacasyā ǁ6.21.1 Aṣṭaka 4.6.11.1Anuvāka 6.2.105
-
Ṛk 2
तमु॑ स्तुष॒ इंद्रं॒ यो विदा॑नो॒ गिर्वा॑हसं गी॒र्भिर्य॒ज्ञवृ॑द्धं ।
यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वं ॥तम् उ स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर् यज्ञवृद्धम् |
यस्य दिवम् अति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ||támu stuṣa índram yó vídāno gírvāhasam gīrbhíryajñávṛddham ǀ
yásya dívamáti mahnā́ pṛthivyā́ḥ purumāyásya riricé mahitvám ǁtam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham |
yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam ||तम् । ऊं॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । यः । विदा॑नः । गिर्वा॑हसम् । गीः॒ऽभिः । य॒ज्ञऽवृ॑द्धम् ।
यस्य॑ । दिव॑म् । अति॑ । म॒ह्ना । पृ॒थि॒व्याः । पु॒रु॒ऽमा॒यस्य॑ । रि॒रि॒चे । म॒हि॒ऽत्वम् ॥तम् । ऊं इति । स्तुषे । इन्द्रम् । यः । विदानः । गिर्वाहसम् । गीःऽभिः । यज्ञऽवृद्धम् ।
यस्य । दिवम् । अति । मह्ना । पृथिव्याः । पुरुऽमायस्य । रिरिचे । महिऽत्वम् ॥tám ǀ ūṃ íti ǀ stuṣe ǀ índram ǀ yáḥ ǀ vídānaḥ ǀ gírvāhasam ǀ gīḥ-bhíḥ ǀ yajñá-vṛddham ǀ
yásya ǀ dívam ǀ áti ǀ mahnā́ ǀ pṛthivyā́ḥ ǀ puru-māyásya ǀ riricé ǀ mahi-tvám ǁtam ǀ ūṃ iti ǀ stuṣe ǀ indram ǀ yaḥ ǀ vidānaḥ ǀ girvāhasam ǀ gīḥ-bhiḥ ǀ yajña-vṛddham ǀ
yasya ǀ divam ǀ ati ǀ mahnā ǀ pṛthivyāḥ ǀ puru-māyasya ǀ ririce ǀ mahi-tvam ǁ6.21.2 Aṣṭaka 4.6.11.2Anuvāka 6.2.106
-
Ṛk 3
स इत्तमो॑ऽवयु॒नं त॑त॒न्वत्सूर्ये॑ण व॒युन॑वच्चकार ।
क॒दा ते॒ मर्ता॑ अ॒मृत॑स्य॒ धामेय॑क्षंतो॒ न मि॑नंति स्वधावः ॥स इत् तमो ऽवयुनं ततन्वत् सूर्येण वयुनवच् चकार |
कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ||sá íttámo’vayunám tatanvátsū́ryeṇa vayúnavaccakāra ǀ
kadā́ te mártā amṛ́tasya dhā́méyakṣanto ná minanti svadhāvaḥ ǁsa it tamo 'vayunaṃ tatanvat sūryeṇa vayunavac cakāra |
kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ ||सः । इत् । तमः॑ । अ॒व॒यु॒नम् । त॒त॒न्वत् । सूर्ये॑ण । व॒युन॑ऽवत् । च॒का॒र॒ ।
क॒दा । ते॒ । मर्ताः॑ । अ॒मृत॑स्य । धाम॑ । इय॑क्षन्तः । न । मि॒न॒न्ति॒ । स्व॒धा॒ऽवः॒ ॥सः । इत् । तमः । अवयुनम् । ततन्वत् । सूर्येण । वयुनऽवत् । चकार ।
कदा । ते । मर्ताः । अमृतस्य । धाम । इयक्षन्तः । न । मिनन्ति । स्वधाऽवः ॥sáḥ ǀ ít ǀ támaḥ ǀ avayunám ǀ tatanvát ǀ sū́ryeṇa ǀ vayúna-vat ǀ cakāra ǀ
kadā́ ǀ te ǀ mártāḥ ǀ amṛ́tasya ǀ dhā́ma ǀ íyakṣantaḥ ǀ ná ǀ minanti ǀ svadhā-vaḥ ǁsaḥ ǀ it ǀ tamaḥ ǀ avayunam ǀ tatanvat ǀ sūryeṇa ǀ vayuna-vat ǀ cakāra ǀ
kadā ǀ te ǀ martāḥ ǀ amṛtasya ǀ dhāma ǀ iyakṣantaḥ ǀ na ǀ minanti ǀ svadhā-vaḥ ǁ6.21.3 Aṣṭaka 4.6.11.3Anuvāka 6.2.107
-
Ṛk 4
यस्ता च॒कार॒ स कुह॑ स्वि॒दिंद्रः॒ कमा जनं॑ चरति॒ कासु॑ वि॒क्षु ।
कस्ते॑ य॒ज्ञो मन॑से॒ शं वरा॑य॒ को अ॒र्क इं॑द्र कत॒मः स होता॑ ॥यस् ता चकार स कुह स्विद् इन्द्रः कम् आ जनं चरति कासु विक्षु |
कस् ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ||yástā́ cakā́ra sá kúha svidíndraḥ kámā́ jánam carati kā́su vikṣú ǀ
káste yajñó mánase śám várāya kó arká indra katamáḥ sá hótā ǁyas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu |
kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā ||यः । ता । च॒कार॑ । सः । कुह॑ । स्वि॒त् । इन्द्रः॑ । कम् । आ । जन॑म् । च॒र॒ति॒ । कासु॑ । वि॒क्षु ।
कः । ते॒ । य॒ज्ञः । मन॑से । शम् । वरा॑य । कः । अ॒र्कः । इ॒न्द्र॒ । क॒त॒मः । सः । होता॑ ॥यः । ता । चकार । सः । कुह । स्वित् । इन्द्रः । कम् । आ । जनम् । चरति । कासु । विक्षु ।
कः । ते । यज्ञः । मनसे । शम् । वराय । कः । अर्कः । इन्द्र । कतमः । सः । होता ॥yáḥ ǀ tā́ ǀ cakā́ra ǀ sáḥ ǀ kúha ǀ svit ǀ índraḥ ǀ kám ǀ ā́ ǀ jánam ǀ carati ǀ kā́su ǀ vikṣú ǀ
káḥ ǀ te ǀ yajñáḥ ǀ mánase ǀ śám ǀ várāya ǀ káḥ ǀ arkáḥ ǀ indra ǀ katamáḥ ǀ sáḥ ǀ hótā ǁyaḥ ǀ tā ǀ cakāra ǀ saḥ ǀ kuha ǀ svit ǀ indraḥ ǀ kam ǀ ā ǀ janam ǀ carati ǀ kāsu ǀ vikṣu ǀ
kaḥ ǀ te ǀ yajñaḥ ǀ manase ǀ śam ǀ varāya ǀ kaḥ ǀ arkaḥ ǀ indra ǀ katamaḥ ǀ saḥ ǀ hotā ǁ6.21.4 Aṣṭaka 4.6.11.4Anuvāka 6.2.108
-
Ṛk 5
इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः ।
ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत् सखायः |
ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ||idā́ hí te véviṣataḥ purājā́ḥ pratnā́sa āsúḥ purukṛtsákhāyaḥ ǀ
yé madhyamā́sa utá nū́tanāsa utā́vamásya puruhūta bodhi ǁidā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ |
ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi ||इ॒दा । हि । ते॒ । वेवि॑षतः । पु॒रा॒ऽजाः । प्र॒त्नासः॑ । आ॒सुः । पु॒रु॒ऽकृ॒त् । सखा॑यः ।
ये । म॒ध्य॒मासः॑ । उ॒त । नूत॑नासः । उ॒त । अ॒व॒मस्य॑ । पु॒रु॒ऽहू॒त॒ । बो॒धि॒ ॥इदा । हि । ते । वेविषतः । पुराऽजाः । प्रत्नासः । आसुः । पुरुऽकृत् । सखायः ।
ये । मध्यमासः । उत । नूतनासः । उत । अवमस्य । पुरुऽहूत । बोधि ॥idā́ ǀ hí ǀ te ǀ véviṣataḥ ǀ purā-jā́ḥ ǀ pratnā́saḥ ǀ āsúḥ ǀ puru-kṛt ǀ sákhāyaḥ ǀ
yé ǀ madhyamā́saḥ ǀ utá ǀ nū́tanāsaḥ ǀ utá ǀ avamásya ǀ puru-hūta ǀ bodhi ǁidā ǀ hi ǀ te ǀ veviṣataḥ ǀ purā-jāḥ ǀ pratnāsaḥ ǀ āsuḥ ǀ puru-kṛt ǀ sakhāyaḥ ǀ
ye ǀ madhyamāsaḥ ǀ uta ǀ nūtanāsaḥ ǀ uta ǀ avamasya ǀ puru-hūta ǀ bodhi ǁ6.21.5 Aṣṭaka 4.6.11.5Anuvāka 6.2.109
-
Ṛk 6
तं पृ॒च्छंतोऽव॑रासः॒ परा॑णि प्र॒त्ना त॑ इंद्र॒ श्रुत्यानु॑ येमुः ।
अर्चा॑मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा॑ म॒हांतं॑ ॥तम् पृच्छन्तो ऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः |
अर्चामसि वीर ब्रह्मवाहो याद् एव विद्म तात् त्वा महान्तम् ||tám pṛcchántó’varāsaḥ párāṇi pratnā́ ta indra śrútyā́nu yemuḥ ǀ
árcāmasi vīra brahmavāho yā́devá vidmá tā́ttvā mahā́ntam ǁtam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ |
arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam ||तम् । पृ॒च्छन्तः॑ । अव॑रासः । परा॑णि । प्र॒त्ना । ते॒ । इ॒न्द्र॒ । श्रुत्या॑ । अनु॑ । ये॒मुः॒ ।
अर्चा॑मसि । वी॒र॒ । ब्र॒ह्म॒ऽवा॒हः॒ । यात् । ए॒व । वि॒द्म । तात् । त्वा॒ । म॒हान्त॑म् ॥तम् । पृच्छन्तः । अवरासः । पराणि । प्रत्ना । ते । इन्द्र । श्रुत्या । अनु । येमुः ।
अर्चामसि । वीर । ब्रह्मऽवाहः । यात् । एव । विद्म । तात् । त्वा । महान्तम् ॥tám ǀ pṛcchántaḥ ǀ ávarāsaḥ ǀ párāṇi ǀ pratnā́ ǀ te ǀ indra ǀ śrútyā ǀ ánu ǀ yemuḥ ǀ
árcāmasi ǀ vīra ǀ brahma-vāhaḥ ǀ yā́t ǀ evá ǀ vidmá ǀ tā́t ǀ tvā ǀ mahā́ntam ǁtam ǀ pṛcchantaḥ ǀ avarāsaḥ ǀ parāṇi ǀ pratnā ǀ te ǀ indra ǀ śrutyā ǀ anu ǀ yemuḥ ǀ
arcāmasi ǀ vīra ǀ brahma-vāhaḥ ǀ yāt ǀ eva ǀ vidma ǀ tāt ǀ tvā ǀ mahāntam ǁ6.21.6 Aṣṭaka 4.6.12.1Anuvāka 6.2.110
-
Ṛk 7
अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ ।
तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानम् अभि तत् सु तिष्ठ |
तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ||abhí tvā pā́jo rakṣáso ví tasthe máhi jajñānámabhí tátsú tiṣṭha ǀ
táva pratnéna yújyena sákhyā vájreṇa dhṛṣṇo ápa tā́ nudasva ǁabhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha |
tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva ||अ॒भि । त्वा॒ । पाजः॑ । र॒क्षसः॑ । वि । त॒स्थे॒ । महि॑ । ज॒ज्ञा॒नम् । अ॒भि । तत् । सु । ति॒ष्ठ॒ ।
तव॑ । प्र॒त्नेन॑ । युज्ये॑न । सख्या॑ । वज्रे॑ण । धृ॒ष्णो॒ इति॑ । अप॑ । ता । नु॒द॒स्व॒ ॥अभि । त्वा । पाजः । रक्षसः । वि । तस्थे । महि । जज्ञानम् । अभि । तत् । सु । तिष्ठ ।
तव । प्रत्नेन । युज्येन । सख्या । वज्रेण । धृष्णो इति । अप । ता । नुदस्व ॥abhí ǀ tvā ǀ pā́jaḥ ǀ rakṣásaḥ ǀ ví ǀ tasthe ǀ máhi ǀ jajñānám ǀ abhí ǀ tát ǀ sú ǀ tiṣṭha ǀ
táva ǀ pratnéna ǀ yújyena ǀ sákhyā ǀ vájreṇa ǀ dhṛṣṇo íti ǀ ápa ǀ tā́ ǀ nudasva ǁabhi ǀ tvā ǀ pājaḥ ǀ rakṣasaḥ ǀ vi ǀ tasthe ǀ mahi ǀ jajñānam ǀ abhi ǀ tat ǀ su ǀ tiṣṭha ǀ
tava ǀ pratnena ǀ yujyena ǀ sakhyā ǀ vajreṇa ǀ dhṛṣṇo iti ǀ apa ǀ tā ǀ nudasva ǁ6.21.7 Aṣṭaka 4.6.12.2Anuvāka 6.2.111
-
Ṛk 8
स तु श्रु॑धींद्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः ।
त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः |
त्वं ह्य् आपिः प्रदिवि पितॄणां शश्वद् बभूथ सुहव एष्टौ ||sá tú śrudhīndra nū́tanasya brahmaṇyató vīra kārudhāyaḥ ǀ
tvám hyā́píḥ pradívi pitṝṇā́m śáśvadbabhū́tha suháva éṣṭau ǁsa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ |
tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau ||सः । तु । श्रु॒धि॒ । इ॒न्द्र॒ । नूत॑नस्य । ब्र॒ह्म॒ण्य॒तः । वी॒र॒ । का॒रु॒ऽधा॒यः॒ ।
त्वम् । हि । आ॒पिः । प्र॒ऽदिवि॑ । पि॒तॄ॒णाम् । शश्व॑त् । ब॒भूथ॑ । सु॒ऽहवः॑ । आऽइ॑ष्टौ ॥सः । तु । श्रुधि । इन्द्र । नूतनस्य । ब्रह्मण्यतः । वीर । कारुऽधायः ।
त्वम् । हि । आपिः । प्रऽदिवि । पितॄणाम् । शश्वत् । बभूथ । सुऽहवः । आऽइष्टौ ॥sáḥ ǀ tú ǀ śrudhi ǀ indra ǀ nū́tanasya ǀ brahmaṇyatáḥ ǀ vīra ǀ kāru-dhāyaḥ ǀ
tvám ǀ hí ǀ āpíḥ ǀ pra-dívi ǀ pitṝṇā́m ǀ śáśvat ǀ babhū́tha ǀ su-hávaḥ ǀ ā́-iṣṭau ǁsaḥ ǀ tu ǀ śrudhi ǀ indra ǀ nūtanasya ǀ brahmaṇyataḥ ǀ vīra ǀ kāru-dhāyaḥ ǀ
tvam ǀ hi ǀ āpiḥ ǀ pra-divi ǀ pitṝṇām ǀ śaśvat ǀ babhūtha ǀ su-havaḥ ǀ ā-iṣṭau ǁ6.21.8 Aṣṭaka 4.6.12.3Anuvāka 6.2.112
-
Ṛk 9
प्रोतये॒ वरु॑णं मि॒त्रमिंद्रं॑ म॒रुतः॑ कृ॒ष्वाव॑से नो अ॒द्य ।
प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं॑धिं सवि॒तार॒मोष॑धीः॒ पर्व॑तांश्च ॥प्रोतये वरुणम् मित्रम् इन्द्रम् मरुतः कृष्वावसे नो अद्य |
प्र पूषणं विष्णुम् अग्निम् पुरन्धिं सवितारम् ओषधीः पर्वतांश् च ||prótáye váruṇam mitrámíndram marútaḥ kṛṣvā́vase no adyá ǀ
prá pūṣáṇam víṣṇumagním púraṃdhim savitā́ramóṣadhīḥ párvatāṃśca ǁprotaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya |
pra pūṣaṇaṃ viṣṇum agnim purandhiṃ savitāram oṣadhīḥ parvatāṃś ca ||प्र । ऊ॒तये॑ । वरु॑णम् । मि॒त्रम् । इन्द्र॑म् । म॒रुतः॑ । कृ॒ष्व॒ । अव॑से । नः॒ । अ॒द्य ।
प्र । पू॒षण॑म् । विष्णु॑म् । अ॒ग्निम् । पुर॑म्ऽधि॑म् । स॒वि॒तार॑म् । ओष॑धीः । पर्व॑तान् । च॒ ॥प्र । ऊतये । वरुणम् । मित्रम् । इन्द्रम् । मरुतः । कृष्व । अवसे । नः । अद्य ।
प्र । पूषणम् । विष्णुम् । अग्निम् । पुरम्ऽधिम् । सवितारम् । ओषधीः । पर्वतान् । च ॥prá ǀ ūtáye ǀ váruṇam ǀ mitrám ǀ índram ǀ marútaḥ ǀ kṛṣva ǀ ávase ǀ naḥ ǀ adyá ǀ
prá ǀ pūṣáṇam ǀ víṣṇum ǀ agním ǀ púram-dhim ǀ savitā́ram ǀ óṣadhīḥ ǀ párvatān ǀ ca ǁpra ǀ ūtaye ǀ varuṇam ǀ mitram ǀ indram ǀ marutaḥ ǀ kṛṣva ǀ avase ǀ naḥ ǀ adya ǀ
pra ǀ pūṣaṇam ǀ viṣṇum ǀ agnim ǀ puram-dhim ǀ savitāram ǀ oṣadhīḥ ǀ parvatān ǀ ca ǁ6.21.9 Aṣṭaka 4.6.12.4Anuvāka 6.2.113
-
Ṛk 10
इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो॑ अ॒भ्य॑र्चंत्य॒र्कैः ।
श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ॑ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ॥इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्य् अर्चन्त्य् अर्कैः |
श्रुधी हवम् आ हुवतो हुवानो न त्वावां अन्यो अमृत त्वद् अस्ति ||imá u tvā puruśāka prayajyo jaritā́ro abhyárcantyarkáiḥ ǀ
śrudhī́ hávamā́ huvató huvānó ná tvā́vām̐ anyó amṛta tvádasti ǁima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ |
śrudhī havam ā huvato huvāno na tvāvāṃ anyo amṛta tvad asti ||इ॒मे । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒ऽशा॒क॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो । ज॒रि॒तारः॑ । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
श्रु॒धि । हव॑म् । आ । हु॒व॒तः । हु॒वा॒नः । न । त्वाऽवा॑न् । अ॒न्यः । अ॒मृ॒त॒ । त्वत् । अ॒स्ति॒ ॥इमे । ऊं इति । त्वा । पुरुऽशाक । प्रयज्यो इति प्रऽयज्यो । जरितारः । अभि । अर्चन्ति । अर्कैः ।
श्रुधि । हवम् । आ । हुवतः । हुवानः । न । त्वाऽवान् । अन्यः । अमृत । त्वत् । अस्ति ॥imé ǀ ūṃ íti ǀ tvā ǀ puru-śāka ǀ prayajyo íti pra-yajyo ǀ jaritā́raḥ ǀ abhí ǀ arcanti ǀ arkáiḥ ǀ
śrudhí ǀ hávam ǀ ā́ ǀ huvatáḥ ǀ huvānáḥ ǀ ná ǀ tvā́-vān ǀ anyáḥ ǀ amṛta ǀ tvát ǀ asti ǁime ǀ ūṃ iti ǀ tvā ǀ puru-śāka ǀ prayajyo iti pra-yajyo ǀ jaritāraḥ ǀ abhi ǀ arcanti ǀ arkaiḥ ǀ
śrudhi ǀ havam ǀ ā ǀ huvataḥ ǀ huvānaḥ ǀ na ǀ tvā-vān ǀ anyaḥ ǀ amṛta ǀ tvat ǀ asti ǁ6.21.10 Aṣṭaka 4.6.12.5Anuvāka 6.2.114
-
Ṛk 11
नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे॑भिः सूनो सहसो॒ यज॑त्रैः ।
ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं॑ च॒क्रुरुप॑रं॒ दसा॑य ॥नू म आ वाचम् उप याहि विद्वान् विश्वेभिः सूनो सहसो यजत्रैः |
ये अग्निजिह्वा ऋतसाप आसुर् ये मनुं चक्रुर् उपरं दसाय ||nū́ ma ā́ vā́camúpa yāhi vidvā́nvíśvebhiḥ sūno sahaso yájatraiḥ ǀ
yé agnijihvā́ ṛtasā́pa āsúryé mánum cakrúrúparam dásāya ǁnū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ |
ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya ||नु । मे॒ । आ । वाच॑म् । उप॑ । या॒हि॒ । वि॒द्वान् । विश्वे॑भिः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यज॑त्रैः ।
ये । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽसापः॑ । आ॒सुः । ये । मनु॑म् । च॒क्रुः । उप॑रम् । दसा॑य ॥नु । मे । आ । वाचम् । उप । याहि । विद्वान् । विश्वेभिः । सूनो इति । सहसः । यजत्रैः ।
ये । अग्निऽजिह्वाः । ऋतऽसापः । आसुः । ये । मनुम् । चक्रुः । उपरम् । दसाय ॥nú ǀ me ǀ ā́ ǀ vā́cam ǀ úpa ǀ yāhi ǀ vidvā́n ǀ víśvebhiḥ ǀ sūno íti ǀ sahasaḥ ǀ yájatraiḥ ǀ
yé ǀ agni-jihvā́ḥ ǀ ṛta-sā́paḥ ǀ āsúḥ ǀ yé ǀ mánum ǀ cakrúḥ ǀ úparam ǀ dásāya ǁnu ǀ me ǀ ā ǀ vācam ǀ upa ǀ yāhi ǀ vidvān ǀ viśvebhiḥ ǀ sūno iti ǀ sahasaḥ ǀ yajatraiḥ ǀ
ye ǀ agni-jihvāḥ ǀ ṛta-sāpaḥ ǀ āsuḥ ǀ ye ǀ manum ǀ cakruḥ ǀ uparam ǀ dasāya ǁ6.21.11 Aṣṭaka 4.6.12.6Anuvāka 6.2.115
-
Ṛk 12
स नो॑ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा॑नः ।
ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि॑र्न इंद्रा॒भि व॑क्षि॒ वाजं॑ ॥स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद् विदानः |
ये अश्रमास उरवो वहिष्ठास् तेभिर् न इन्द्राभि वक्षि वाजम् ||sá no bodhi puraetā́ sugéṣūtá durgéṣu pathikṛ́dvídānaḥ ǀ
yé áśramāsa urávo váhiṣṭhāstébhirna indrābhí vakṣi vā́jam ǁsa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ |
ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam ||सः । नः॒ । बो॒धि॒ । पु॒रः॒ऽए॒ता । सु॒ऽगेषु॑ । उ॒त । दुः॒ऽगेषु॑ । प॒थि॒ऽकृत् । विदा॑नः ।
ये । अश्र॑मासः । उ॒रवः॑ । वहि॑ष्ठाः । तेभिः॑ । नः॒ । इ॒न्द्र॒ । अ॒भि । व॒क्षि॒ । वाज॑म् ॥सः । नः । बोधि । पुरःऽएता । सुऽगेषु । उत । दुःऽगेषु । पथिऽकृत् । विदानः ।
ये । अश्रमासः । उरवः । वहिष्ठाः । तेभिः । नः । इन्द्र । अभि । वक्षि । वाजम् ॥sáḥ ǀ naḥ ǀ bodhi ǀ puraḥ-etā́ ǀ su-géṣu ǀ utá ǀ duḥ-géṣu ǀ pathi-kṛ́t ǀ vídānaḥ ǀ
yé ǀ áśramāsaḥ ǀ urávaḥ ǀ váhiṣṭhāḥ ǀ tébhiḥ ǀ naḥ ǀ indra ǀ abhí ǀ vakṣi ǀ vā́jam ǁsaḥ ǀ naḥ ǀ bodhi ǀ puraḥ-etā ǀ su-geṣu ǀ uta ǀ duḥ-geṣu ǀ pathi-kṛt ǀ vidānaḥ ǀ
ye ǀ aśramāsaḥ ǀ uravaḥ ǀ vahiṣṭhāḥ ǀ tebhiḥ ǀ naḥ ǀ indra ǀ abhi ǀ vakṣi ǀ vājam ǁ6.21.12 Aṣṭaka 4.6.12.7Anuvāka 6.2.116
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.