Ṛk 6.21.6
Saṃhitā
तं पृ॒च्छंतोऽव॑रासः॒ परा॑णि प्र॒त्ना त॑ इंद्र॒ श्रुत्यानु॑ येमुः ।
अर्चा॑मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा॑ म॒हांतं॑ ॥
तम् पृच्छन्तो ऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः |
अर्चामसि वीर ब्रह्मवाहो याद् एव विद्म तात् त्वा महान्तम् ||
tám pṛcchántó’varāsaḥ párāṇi pratnā́ ta indra śrútyā́nu yemuḥ ǀ
árcāmasi vīra brahmavāho yā́devá vidmá tā́ttvā mahā́ntam ǁ
tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ |
arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam ||
Padapāṭha
तम् । पृ॒च्छन्तः॑ । अव॑रासः । परा॑णि । प्र॒त्ना । ते॒ । इ॒न्द्र॒ । श्रुत्या॑ । अनु॑ । ये॒मुः॒ ।
अर्चा॑मसि । वी॒र॒ । ब्र॒ह्म॒ऽवा॒हः॒ । यात् । ए॒व । वि॒द्म । तात् । त्वा॒ । म॒हान्त॑म् ॥
तम् । पृच्छन्तः । अवरासः । पराणि । प्रत्ना । ते । इन्द्र । श्रुत्या । अनु । येमुः ।
अर्चामसि । वीर । ब्रह्मऽवाहः । यात् । एव । विद्म । तात् । त्वा । महान्तम् ॥
tám ǀ pṛcchántaḥ ǀ ávarāsaḥ ǀ párāṇi ǀ pratnā́ ǀ te ǀ indra ǀ śrútyā ǀ ánu ǀ yemuḥ ǀ
árcāmasi ǀ vīra ǀ brahma-vāhaḥ ǀ yā́t ǀ evá ǀ vidmá ǀ tā́t ǀ tvā ǀ mahā́ntam ǁ
tam ǀ pṛcchantaḥ ǀ avarāsaḥ ǀ parāṇi ǀ pratnā ǀ te ǀ indra ǀ śrutyā ǀ anu ǀ yemuḥ ǀ
arcāmasi ǀ vīra ǀ brahma-vāhaḥ ǀ yāt ǀ eva ǀ vidma ǀ tāt ǀ tvā ǀ mahāntam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.021.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.12.01
- Maṇḍala · Anuvāka · Ṛk
- 06.02.110
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.