Ṛk 6.21.11
Saṃhitā
नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे॑भिः सूनो सहसो॒ यज॑त्रैः ।
ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं॑ च॒क्रुरुप॑रं॒ दसा॑य ॥
नू म आ वाचम् उप याहि विद्वान् विश्वेभिः सूनो सहसो यजत्रैः |
ये अग्निजिह्वा ऋतसाप आसुर् ये मनुं चक्रुर् उपरं दसाय ||
nū́ ma ā́ vā́camúpa yāhi vidvā́nvíśvebhiḥ sūno sahaso yájatraiḥ ǀ
yé agnijihvā́ ṛtasā́pa āsúryé mánum cakrúrúparam dásāya ǁ
nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ |
ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya ||
Padapāṭha
नु । मे॒ । आ । वाच॑म् । उप॑ । या॒हि॒ । वि॒द्वान् । विश्वे॑भिः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यज॑त्रैः ।
ये । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽसापः॑ । आ॒सुः । ये । मनु॑म् । च॒क्रुः । उप॑रम् । दसा॑य ॥
नु । मे । आ । वाचम् । उप । याहि । विद्वान् । विश्वेभिः । सूनो इति । सहसः । यजत्रैः ।
ये । अग्निऽजिह्वाः । ऋतऽसापः । आसुः । ये । मनुम् । चक्रुः । उपरम् । दसाय ॥
nú ǀ me ǀ ā́ ǀ vā́cam ǀ úpa ǀ yāhi ǀ vidvā́n ǀ víśvebhiḥ ǀ sūno íti ǀ sahasaḥ ǀ yájatraiḥ ǀ
yé ǀ agni-jihvā́ḥ ǀ ṛta-sā́paḥ ǀ āsúḥ ǀ yé ǀ mánum ǀ cakrúḥ ǀ úparam ǀ dásāya ǁ
nu ǀ me ǀ ā ǀ vācam ǀ upa ǀ yāhi ǀ vidvān ǀ viśvebhiḥ ǀ sūno iti ǀ sahasaḥ ǀ yajatraiḥ ǀ
ye ǀ agni-jihvāḥ ǀ ṛta-sāpaḥ ǀ āsuḥ ǀ ye ǀ manum ǀ cakruḥ ǀ uparam ǀ dasāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.021.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.12.06
- Maṇḍala · Anuvāka · Ṛk
- 06.02.115
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.