Ṛk 6.21.8
Saṃhitā
स तु श्रु॑धींद्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः ।
त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥
स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः |
त्वं ह्य् आपिः प्रदिवि पितॄणां शश्वद् बभूथ सुहव एष्टौ ||
sá tú śrudhīndra nū́tanasya brahmaṇyató vīra kārudhāyaḥ ǀ
tvám hyā́píḥ pradívi pitṝṇā́m śáśvadbabhū́tha suháva éṣṭau ǁ
sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ |
tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau ||
Padapāṭha
सः । तु । श्रु॒धि॒ । इ॒न्द्र॒ । नूत॑नस्य । ब्र॒ह्म॒ण्य॒तः । वी॒र॒ । का॒रु॒ऽधा॒यः॒ ।
त्वम् । हि । आ॒पिः । प्र॒ऽदिवि॑ । पि॒तॄ॒णाम् । शश्व॑त् । ब॒भूथ॑ । सु॒ऽहवः॑ । आऽइ॑ष्टौ ॥
सः । तु । श्रुधि । इन्द्र । नूतनस्य । ब्रह्मण्यतः । वीर । कारुऽधायः ।
त्वम् । हि । आपिः । प्रऽदिवि । पितॄणाम् । शश्वत् । बभूथ । सुऽहवः । आऽइष्टौ ॥
sáḥ ǀ tú ǀ śrudhi ǀ indra ǀ nū́tanasya ǀ brahmaṇyatáḥ ǀ vīra ǀ kāru-dhāyaḥ ǀ
tvám ǀ hí ǀ āpíḥ ǀ pra-dívi ǀ pitṝṇā́m ǀ śáśvat ǀ babhū́tha ǀ su-hávaḥ ǀ ā́-iṣṭau ǁ
saḥ ǀ tu ǀ śrudhi ǀ indra ǀ nūtanasya ǀ brahmaṇyataḥ ǀ vīra ǀ kāru-dhāyaḥ ǀ
tvam ǀ hi ǀ āpiḥ ǀ pra-divi ǀ pitṝṇām ǀ śaśvat ǀ babhūtha ǀ su-havaḥ ǀ ā-iṣṭau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.021.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.12.03
- Maṇḍala · Anuvāka · Ṛk
- 06.02.112
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.