Sūkta 49
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
Metres by ṛk
1st set of styles triṣṭup (1, 3, 4, 10, 11); nicṛttriṣṭup (5, 6, 9, 13); svarāṭpaṅkti (2, 14); virāṭtrisṭup (8, 12); brāhmyuṣnik (7); atijagatī (15)
2nd set of styles triṣṭubh (1-14); śakvarī (15)
-
Ṛk 1
स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यंता॑ ।
त आ ग॑मंतु॒ त इ॒ह श्रु॑वंतु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥स्तुषे जनं सुव्रतं नव्यसीभिर् गीर्भिर् मित्रावरुणा सुम्नयन्ता |
त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ||stuṣé jánam suvratám návyasībhirgīrbhírmitrā́váruṇā sumnayántā ǀ
tá ā́ gamantu tá ihá śruvantu sukṣatrā́so váruṇo mitró agníḥ ǁstuṣe janaṃ suvrataṃ navyasībhir gīrbhir mitrāvaruṇā sumnayantā |
ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ ||स्तु॒षे । जन॑म् । सु॒ऽव्र॒तम् । नव्य॑सीभिः । गीः॒ऽभिः । मि॒त्रावरु॑णा । सु॒म्न॒ऽयन्ता॑ ।
ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः ॥स्तुषे । जनम् । सुऽव्रतम् । नव्यसीभिः । गीःऽभिः । मित्रावरुणा । सुम्नऽयन्ता ।
ते । आ । गमन्तु । ते । इह । श्रुवन्तु । सुऽक्षत्रासः । वरुणः । मित्रः । अग्निः ॥stuṣé ǀ jánam ǀ su-vratám ǀ návyasībhiḥ ǀ gīḥ-bhíḥ ǀ mitrā́váruṇā ǀ sumna-yántā ǀ
té ǀ ā́ ǀ gamantu ǀ té ǀ ihá ǀ śruvantu ǀ su-kṣatrā́saḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǁstuṣe ǀ janam ǀ su-vratam ǀ navyasībhiḥ ǀ gīḥ-bhiḥ ǀ mitrāvaruṇā ǀ sumna-yantā ǀ
te ǀ ā ǀ gamantu ǀ te ǀ iha ǀ śruvantu ǀ su-kṣatrāsaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǁ6.49.1 Aṣṭaka 4.8.5.1Anuvāka 6.4.125
-
Ṛk 2
वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः ।
दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ॥विशो-विश ईड्यम् अध्वरेष्व् अदृप्तक्रतुम् अरतिं युवत्योः |
दिवः शिशुं सहसः सूनुम् अग्निं यज्ञस्य केतुम् अरुषं यजध्यै ||viśóviśa ī́ḍyamadhvaréṣvádṛptakratumaratím yuvatyóḥ ǀ
diváḥ śíśum sáhasaḥ sūnúmagním yajñásya ketúmaruṣám yájadhyai ǁviśo-viśa īḍyam adhvareṣv adṛptakratum aratiṃ yuvatyoḥ |
divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai ||वि॒शःऽवि॑शः । ईड्य॑म् । अ॒ध्व॒रेषु॑ । अदृ॑प्तऽक्रतुम् । अ॒र॒तिम् । यु॒व॒त्योः ।
दि॒वः । शिशु॑म् । सह॑सः । सू॒नुम् । अ॒ग्निम् । य॒ज्ञस्य॑ । के॒तुम् । अ॒रु॒षम् । यज॑ध्यै ॥विशःऽविशः । ईड्यम् । अध्वरेषु । अदृप्तऽक्रतुम् । अरतिम् । युवत्योः ।
दिवः । शिशुम् । सहसः । सूनुम् । अग्निम् । यज्ञस्य । केतुम् । अरुषम् । यजध्यै ॥viśáḥ-viśaḥ ǀ ī́ḍyam ǀ adhvaréṣu ǀ ádṛpta-kratum ǀ aratím ǀ yuvatyóḥ ǀ
diváḥ ǀ śíśum ǀ sáhasaḥ ǀ sūnúm ǀ agním ǀ yajñásya ǀ ketúm ǀ aruṣám ǀ yájadhyai ǁviśaḥ-viśaḥ ǀ īḍyam ǀ adhvareṣu ǀ adṛpta-kratum ǀ aratim ǀ yuvatyoḥ ǀ
divaḥ ǀ śiśum ǀ sahasaḥ ǀ sūnum ǀ agnim ǀ yajñasya ǀ ketum ǀ aruṣam ǀ yajadhyai ǁ6.49.2 Aṣṭaka 4.8.5.2Anuvāka 6.4.126
-
Ṛk 3
अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू॑पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो॑ अ॒न्या ।
मि॒थ॒स्तुरा॑ वि॒चरं॑ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा॑ने ॥अरुषस्य दुहितरा विरूपे स्तृभिर् अन्या पिपिशे सूरो अन्या |
मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ||aruṣásya duhitárā vírūpe stṛ́bhiranyā́ pipiśé sū́ro anyā́ ǀ
mithastúrā vicárantī pāvaké mánma śrutám nakṣata ṛcyámāne ǁaruṣasya duhitarā virūpe stṛbhir anyā pipiśe sūro anyā |
mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne ||अ॒रु॒षस्य॑ । दु॒हि॒तरा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । स्तृऽभिः॑ । अ॒न्या । पि॒पि॒शे । सूरः॑ । अ॒न्या ।
मि॒थः॒ऽतुरा॑ । वि॒चर॑न्ती॒ इति॑ वि॒ऽचर॑न्ती । पा॒व॒के इति॑ । मन्म॑ । श्रु॒तम् । न॒क्ष॒तः॒ । ऋ॒च्यमा॑ने॒ इति॑ ॥अरुषस्य । दुहितरा । विरूपे इति विऽरूपे । स्तृऽभिः । अन्या । पिपिशे । सूरः । अन्या ।
मिथःऽतुरा । विचरन्ती इति विऽचरन्ती । पावके इति । मन्म । श्रुतम् । नक्षतः । ऋच्यमाने इति ॥aruṣásya ǀ duhitárā ǀ vírūpe íti ví-rūpe ǀ stṛ́-bhiḥ ǀ anyā́ ǀ pipiśé ǀ sū́raḥ ǀ anyā́ ǀ
mithaḥ-túrā ǀ vicárantī íti vi-cárantī ǀ pāvaké íti ǀ mánma ǀ śrutám ǀ nakṣataḥ ǀ ṛcyámāne íti ǁaruṣasya ǀ duhitarā ǀ virūpe iti vi-rūpe ǀ stṛ-bhiḥ ǀ anyā ǀ pipiśe ǀ sūraḥ ǀ anyā ǀ
mithaḥ-turā ǀ vicarantī iti vi-carantī ǀ pāvake iti ǀ manma ǀ śrutam ǀ nakṣataḥ ǀ ṛcyamāne iti ǁ6.49.3 Aṣṭaka 4.8.5.3Anuvāka 6.4.127
-
Ṛk 4
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रं रथ॒प्रां ।
द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् |
द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ||prá vāyúmácchā bṛhatī́ manīṣā́ bṛhádrayim viśvávāram rathaprā́m ǀ
dyutádyāmā niyútaḥ pátyamānaḥ kavíḥ kavímiyakṣasi prayajyo ǁpra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām |
dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo ||प्र । वा॒युम् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । बृ॒हत्ऽर॑यिम् । वि॒श्वऽवा॑रम् । र॒थ॒ऽप्राम् ।
द्यु॒तत्ऽया॑मा । नि॒ऽयुतः॑ । पत्य॑मानः । क॒विः । क॒विम् । इ॒य॒क्ष॒सि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ॥प्र । वायुम् । अच्छ । बृहती । मनीषा । बृहत्ऽरयिम् । विश्वऽवारम् । रथऽप्राम् ।
द्युतत्ऽयामा । निऽयुतः । पत्यमानः । कविः । कविम् । इयक्षसि । प्रयज्यो इति प्रऽयज्यो ॥prá ǀ vāyúm ǀ áccha ǀ bṛhatī́ ǀ manīṣā́ ǀ bṛhát-rayim ǀ viśvá-vāram ǀ ratha-prā́m ǀ
dyutát-yāmā ǀ ni-yútaḥ ǀ pátyamānaḥ ǀ kavíḥ ǀ kavím ǀ iyakṣasi ǀ prayajyo íti pra-yajyo ǁpra ǀ vāyum ǀ accha ǀ bṛhatī ǀ manīṣā ǀ bṛhat-rayim ǀ viśva-vāram ǀ ratha-prām ǀ
dyutat-yāmā ǀ ni-yutaḥ ǀ patyamānaḥ ǀ kaviḥ ǀ kavim ǀ iyakṣasi ǀ prayajyo iti pra-yajyo ǁ6.49.4 Aṣṭaka 4.8.5.4Anuvāka 6.4.128
-
Ṛk 5
स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो॑ वि॒रुक्मा॒न्मन॑सा युजा॒नः ।
येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥स मे वपुश् छदयद् अश्विनोर् यो रथो विरुक्मान् मनसा युजानः |
येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ||sá me vápuśchadayadaśvínoryó rátho virúkmānmánasā yujānáḥ ǀ
yéna narā nāsatyeṣayádhyai vartíryāthástánayāya tmáne ca ǁsa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ |
yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca ||सः । मे॒ । वपुः॑ । छ॒द॒य॒त् । अ॒श्विनोः॑ । यः । रथः॑ । वि॒रुक्मा॑न् । मन॑सा । यु॒जा॒नः ।
येन॑ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै॑ । व॒र्तिः । या॒थः । तन॑याय । त्मने॑ । च॒ ॥सः । मे । वपुः । छदयत् । अश्विनोः । यः । रथः । विरुक्मान् । मनसा । युजानः ।
येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च ॥sáḥ ǀ me ǀ vápuḥ ǀ chadayat ǀ aśvínoḥ ǀ yáḥ ǀ ráthaḥ ǀ virúkmān ǀ mánasā ǀ yujānáḥ ǀ
yéna ǀ narā ǀ nāsatyā ǀ iṣayádhyai ǀ vartíḥ ǀ yātháḥ ǀ tánayāya ǀ tmáne ǀ ca ǁsaḥ ǀ me ǀ vapuḥ ǀ chadayat ǀ aśvinoḥ ǀ yaḥ ǀ rathaḥ ǀ virukmān ǀ manasā ǀ yujānaḥ ǀ
yena ǀ narā ǀ nāsatyā ǀ iṣayadhyai ǀ vartiḥ ǀ yāthaḥ ǀ tanayāya ǀ tmane ǀ ca ǁ6.49.5 Aṣṭaka 4.8.5.5Anuvāka 6.4.129
-
Ṛk 6
पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि ।
सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वं ॥पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतम् अप्यानि |
सत्यश्रुतः कवयो यस्य गीर्भिर् जगत स्थातर् जगद् आ कृणुध्वम् ||párjanyavātā vṛṣabhā pṛthivyā́ḥ púrīṣāṇi jinvatamápyāni ǀ
sátyaśrutaḥ kavayo yásya gīrbhírjágataḥ sthātarjágadā́ kṛṇudhvam ǁparjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni |
satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam ||पर्ज॑न्यवाता । वृ॒ष॒भा॒ । पृ॒थि॒व्याः । पुरी॑षाणि । जि॒न्व॒त॒म् । अप्या॑नि ।
सत्य॑ऽश्रुतः । क॒व॒यः॒ । यस्य॑ । गीः॒ऽभिः । जग॑तः । स्था॒तः॒ । जग॑त् । आ । कृ॒णु॒ध्व॒म् ॥पर्जन्यवाता । वृषभा । पृथिव्याः । पुरीषाणि । जिन्वतम् । अप्यानि ।
सत्यऽश्रुतः । कवयः । यस्य । गीःऽभिः । जगतः । स्थातः । जगत् । आ । कृणुध्वम् ॥párjanyavātā ǀ vṛṣabhā ǀ pṛthivyā́ḥ ǀ púrīṣāṇi ǀ jinvatam ǀ ápyāni ǀ
sátya-śrutaḥ ǀ kavayaḥ ǀ yásya ǀ gīḥ-bhíḥ ǀ jágataḥ ǀ sthātaḥ ǀ jágat ǀ ā́ ǀ kṛṇudhvam ǁparjanyavātā ǀ vṛṣabhā ǀ pṛthivyāḥ ǀ purīṣāṇi ǀ jinvatam ǀ apyāni ǀ
satya-śrutaḥ ǀ kavayaḥ ǀ yasya ǀ gīḥ-bhiḥ ǀ jagataḥ ǀ sthātaḥ ǀ jagat ǀ ā ǀ kṛṇudhvam ǁ6.49.6 Aṣṭaka 4.8.6.1Anuvāka 6.4.130
-
Ṛk 7
पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् ।
ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ॥पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् |
ग्नाभिर् अच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ||pā́vīravī kanyā́ citrā́yuḥ sárasvatī vīrápatnī dhíyam dhāt ǀ
gnā́bhirácchidram śaraṇám sajóṣā durādhárṣam gṛṇaté śárma yaṃsat ǁpāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt |
gnābhir acchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat ||पावी॑रवी । क॒न्या॑ । चि॒त्रऽआ॑युः । सर॑स्वती । वी॒रऽप॑त्नी । धिय॑म् । धा॒त् ।
ग्नाभिः॑ । अच्छि॑द्रम् । श॒र॒णम् । स॒ऽजोषाः॑ । दुः॒ऽआ॒धर्ष॑म् । गृ॒ण॒ते । शर्म॑ । यं॒स॒त् ॥पावीरवी । कन्या । चित्रऽआयुः । सरस्वती । वीरऽपत्नी । धियम् । धात् ।
ग्नाभिः । अच्छिद्रम् । शरणम् । सऽजोषाः । दुःऽआधर्षम् । गृणते । शर्म । यंसत् ॥pā́vīravī ǀ kanyā́ ǀ citrá-āyuḥ ǀ sárasvatī ǀ vīrá-patnī ǀ dhíyam ǀ dhāt ǀ
gnā́bhiḥ ǀ ácchidram ǀ śaraṇám ǀ sa-jóṣāḥ ǀ duḥ-ādhárṣam ǀ gṛṇaté ǀ śárma ǀ yaṃsat ǁpāvīravī ǀ kanyā ǀ citra-āyuḥ ǀ sarasvatī ǀ vīra-patnī ǀ dhiyam ǀ dhāt ǀ
gnābhiḥ ǀ acchidram ǀ śaraṇam ǀ sa-joṣāḥ ǀ duḥ-ādharṣam ǀ gṛṇate ǀ śarma ǀ yaṃsat ǁ6.49.7 Aṣṭaka 4.8.6.2Anuvāka 6.4.131
-
Ṛk 8
प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कं ।
स नो॑ रासच्छु॒रुध॑श्चं॒द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥पथस्-पथः परिपतिं वचस्या कामेन कृतो अभ्य् आनऌ अर्कम् |
स नो रासच् छुरुधश् चन्द्राग्रा धियं-धियं सीषधाति प्र पूषा ||patháspathaḥ páripatim vacasyā́ kā́mena kṛtó abhyā́naḷarkám ǀ
sá no rāsacchurúdhaścandrā́grā dhíyaṃdhiyam sīṣadhāti prá pūṣā́ ǁpathas-pathaḥ paripatiṃ vacasyā kāmena kṛto abhy ānaḷ arkam |
sa no rāsac churudhaś candrāgrā dhiyaṃ-dhiyaṃ sīṣadhāti pra pūṣā ||प॒थःऽप॑थः । परि॑ऽपतिम् । व॒च॒स्या । कामे॑न । कृ॒तः । अ॒भि । आ॒न॒ट् । अ॒र्कम् ।
सः । नः॒ । रा॒स॒त् । शु॒रुधः॑ । च॒न्द्रऽअ॑ग्राः । धिय॑म्ऽधियम् । सी॒स॒धा॒ति॒ । प्र । पू॒षा ॥पथःऽपथः । परिऽपतिम् । वचस्या । कामेन । कृतः । अभि । आनट् । अर्कम् ।
सः । नः । रासत् । शुरुधः । चन्द्रऽअग्राः । धियम्ऽधियम् । सीसधाति । प्र । पूषा ॥patháḥ-pathaḥ ǀ pári-patim ǀ vacasyā́ ǀ kā́mena ǀ kṛtáḥ ǀ abhí ǀ ānaṭ ǀ arkám ǀ
sáḥ ǀ naḥ ǀ rāsat ǀ śurúdhaḥ ǀ candrá-agrāḥ ǀ dhíyam-dhiyam ǀ sīsadhāti ǀ prá ǀ pūṣā́ ǁpathaḥ-pathaḥ ǀ pari-patim ǀ vacasyā ǀ kāmena ǀ kṛtaḥ ǀ abhi ǀ ānaṭ ǀ arkam ǀ
saḥ ǀ naḥ ǀ rāsat ǀ śurudhaḥ ǀ candra-agrāḥ ǀ dhiyam-dhiyam ǀ sīsadhāti ǀ pra ǀ pūṣā ǁ6.49.8 Aṣṭaka 4.8.6.3Anuvāka 6.4.132
-
Ṛk 9
प्र॒थ॒म॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्वं॑ ।
होता॑ यक्षद्यज॒तं प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ॥प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिम् ऋभ्वम् |
होता यक्षद् यजतम् पस्त्यानाम् अग्निस् त्वष्टारं सुहवं विभावा ||prathamabhā́jam yaśásam vayodhā́m supāṇím devám sugábhastimṛ́bhvam ǀ
hótā yakṣadyajatám pastyā́nāmagnístváṣṭāram suhávam vibhā́vā ǁprathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam |
hotā yakṣad yajatam pastyānām agnis tvaṣṭāraṃ suhavaṃ vibhāvā ||प्र॒थ॒म॒ऽभाज॑म् । य॒शस॑म् । व॒यः॒ऽधाम् । सु॒ऽपा॒णिम् । दे॒वम् । सु॒ऽगभ॑स्तिम् । ऋभ्व॑म् ।
होता॑ । य॒क्ष॒त् । य॒ज॒तम् । प॒स्त्या॑नाम् । अ॒ग्निः । त्वष्टा॑रम् । सु॒ऽहव॑म् । वि॒भाऽवा॑ ॥प्रथमऽभाजम् । यशसम् । वयःऽधाम् । सुऽपाणिम् । देवम् । सुऽगभस्तिम् । ऋभ्वम् ।
होता । यक्षत् । यजतम् । पस्त्यानाम् । अग्निः । त्वष्टारम् । सुऽहवम् । विभाऽवा ॥prathama-bhā́jam ǀ yaśásam ǀ vayaḥ-dhā́m ǀ su-pāṇím ǀ devám ǀ su-gábhastim ǀ ṛ́bhvam ǀ
hótā ǀ yakṣat ǀ yajatám ǀ pastyā́nām ǀ agníḥ ǀ tváṣṭāram ǀ su-hávam ǀ vibhā́-vā ǁprathama-bhājam ǀ yaśasam ǀ vayaḥ-dhām ǀ su-pāṇim ǀ devam ǀ su-gabhastim ǀ ṛbhvam ǀ
hotā ǀ yakṣat ǀ yajatam ǀ pastyānām ǀ agniḥ ǀ tvaṣṭāram ǀ su-havam ǀ vibhā-vā ǁ6.49.9 Aṣṭaka 4.8.6.4Anuvāka 6.4.133
-
Ṛk 10
भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ ।
बृ॒हंत॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तासः॑ ॥भुवनस्य पितरं गीर्भिर् आभी रुद्रं दिवा वर्धया रुद्रम् अक्तौ |
बृहन्तम् ऋष्वम् अजरं सुषुम्नम् ऋधग् घुवेम कविनेषितासः ||bhúvanasya pitáram gīrbhírābhī́ rudrám dívā vardháyā rudrámaktáu ǀ
bṛhántamṛṣvámajáram suṣumnámṛ́dhagghuvema kavíneṣitā́saḥ ǁbhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau |
bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhag ghuvema kavineṣitāsaḥ ||भुव॑नस्य । पि॒तर॑म् । गीः॒ऽभिः । आ॒भिः । रु॒द्रम् । दिवा॑ । व॒र्धय॑ । रु॒द्रम् । अ॒क्तौ ।
बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । सु॒ऽसु॒म्नम् । ऋध॑क् । हु॒वे॒म॒ । क॒विना॑ । इ॒षि॒तासः॑ ॥भुवनस्य । पितरम् । गीःऽभिः । आभिः । रुद्रम् । दिवा । वर्धय । रुद्रम् । अक्तौ ।
बृहन्तम् । ऋष्वम् । अजरम् । सुऽसुम्नम् । ऋधक् । हुवेम । कविना । इषितासः ॥bhúvanasya ǀ pitáram ǀ gīḥ-bhíḥ ǀ ābhíḥ ǀ rudrám ǀ dívā ǀ vardháya ǀ rudrám ǀ aktáu ǀ
bṛhántam ǀ ṛṣvám ǀ ajáram ǀ su-sumnám ǀ ṛ́dhak ǀ huvema ǀ kavínā ǀ iṣitā́saḥ ǁbhuvanasya ǀ pitaram ǀ gīḥ-bhiḥ ǀ ābhiḥ ǀ rudram ǀ divā ǀ vardhaya ǀ rudram ǀ aktau ǀ
bṛhantam ǀ ṛṣvam ǀ ajaram ǀ su-sumnam ǀ ṛdhak ǀ huvema ǀ kavinā ǀ iṣitāsaḥ ǁ6.49.10 Aṣṭaka 4.8.6.5Anuvāka 6.4.134
-
Ṛk 11
आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो गं॒त गृ॑ण॒तो व॑र॒स्यां ।
अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धंत॑ इ॒त्था नक्षं॑तो नरो अंगिर॒स्वत् ॥आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् |
अचित्रं चिद् धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ||ā́ yuvānaḥ kavayo yajñiyāso máruto gantá gṛṇató varasyā́m ǀ
acitrám ciddhí jínvathā vṛdhánta itthā́ nákṣanto naro aṅgirasvát ǁā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām |
acitraṃ cid dhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat ||आ । यु॒वा॒नः॒ । क॒व॒यः॒ । य॒ज्ञि॒या॒सः॒ । मरु॑तः । ग॒न्त । गृ॒ण॒तः । व॒र॒स्याम् ।
अ॒चि॒त्रम् । चि॒त् । हि । जिन्व॑थ । वृ॒धन्तः॑ । इ॒त्था । नक्ष॑न्तः । न॒रः॒ । अ॒ङ्गि॒र॒स्वत् ॥आ । युवानः । कवयः । यज्ञियासः । मरुतः । गन्त । गृणतः । वरस्याम् ।
अचित्रम् । चित् । हि । जिन्वथ । वृधन्तः । इत्था । नक्षन्तः । नरः । अङ्गिरस्वत् ॥ā́ ǀ yuvānaḥ ǀ kavayaḥ ǀ yajñiyāsaḥ ǀ márutaḥ ǀ gantá ǀ gṛṇatáḥ ǀ varasyā́m ǀ
acitrám ǀ cit ǀ hí ǀ jínvatha ǀ vṛdhántaḥ ǀ itthā́ ǀ nákṣantaḥ ǀ naraḥ ǀ aṅgirasvát ǁā ǀ yuvānaḥ ǀ kavayaḥ ǀ yajñiyāsaḥ ǀ marutaḥ ǀ ganta ǀ gṛṇataḥ ǀ varasyām ǀ
acitram ǀ cit ǀ hi ǀ jinvatha ǀ vṛdhantaḥ ǀ itthā ǀ nakṣantaḥ ǀ naraḥ ǀ aṅgirasvat ǁ6.49.11 Aṣṭaka 4.8.7.1Anuvāka 6.4.135
-
Ṛk 12
प्र वी॒राय॒ प्र त॒वसे॑ तु॒रायाजा॑ यू॒थेव॑ पशु॒रक्षि॒रस्तं॑ ।
स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं॑ वच॒नस्य॒ विपः॑ ॥प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिर् अस्तम् |
स पिस्पृशति तन्वि श्रुतस्य स्तृभिर् न नाकं वचनस्य विपः ||prá vīrā́ya prá taváse turā́yā́jā yūthéva paśurákṣirástam ǀ
sá pispṛśati tanví śrutásya stṛ́bhirná nā́kam vacanásya vípaḥ ǁpra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam |
sa pispṛśati tanvi śrutasya stṛbhir na nākaṃ vacanasya vipaḥ ||प्र । वी॒राय॑ । प्र । त॒वसे॑ । तु॒राय॑ । अज॑ । यू॒थाऽइ॑व । प॒शु॒ऽरक्षिः॑ । अस्त॑म् ।
सः । पि॒स्पृ॒श॒ति॒ । त॒न्वि॑ । श्रु॒तस्य॑ । स्तृऽभिः॑ । न । नाक॑म् । व॒च॒नस्य॑ । विपः॑ ॥प्र । वीराय । प्र । तवसे । तुराय । अज । यूथाऽइव । पशुऽरक्षिः । अस्तम् ।
सः । पिस्पृशति । तन्वि । श्रुतस्य । स्तृऽभिः । न । नाकम् । वचनस्य । विपः ॥prá ǀ vīrā́ya ǀ prá ǀ taváse ǀ turā́ya ǀ ája ǀ yūthā́-iva ǀ paśu-rákṣiḥ ǀ ástam ǀ
sáḥ ǀ pispṛśati ǀ tanví ǀ śrutásya ǀ stṛ́-bhiḥ ǀ ná ǀ nā́kam ǀ vacanásya ǀ vípaḥ ǁpra ǀ vīrāya ǀ pra ǀ tavase ǀ turāya ǀ aja ǀ yūthā-iva ǀ paśu-rakṣiḥ ǀ astam ǀ
saḥ ǀ pispṛśati ǀ tanvi ǀ śrutasya ǀ stṛ-bhiḥ ǀ na ǀ nākam ǀ vacanasya ǀ vipaḥ ǁ6.49.12 Aṣṭaka 4.8.7.2Anuvāka 6.4.136
-
Ṛk 13
यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ ।
तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒३॒॑ तना॑ च ॥यो रजांसि विममे पार्थिवानि त्रिश् चिद् विष्णुर् मनवे बाधिताय |
तस्य ते शर्मन्न् उपदद्यमाने राया मदेम तन्वा तना च ||yó rájāṃsi vimamé pā́rthivāni tríścidvíṣṇurmánave bādhitā́ya ǀ
tásya te śármannupadadyámāne rāyā́ madema tanvā́ tánā ca ǁyo rajāṃsi vimame pārthivāni triś cid viṣṇur manave bādhitāya |
tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca ||यः । रजां॑सि । वि॒ऽम॒मे । पार्थि॑वानि । त्रिः । चि॒त् । विष्णुः॑ । मन॑वे । बा॒धि॒ताय॑ ।
तस्य॑ । ते॒ । शर्म॑न् । उ॒प॒ऽद॒द्यमा॑ने । रा॒या । म॒दे॒म॒ । त॒न्वा॑ । तना॑ । च॒ ॥यः । रजांसि । विऽममे । पार्थिवानि । त्रिः । चित् । विष्णुः । मनवे । बाधिताय ।
तस्य । ते । शर्मन् । उपऽदद्यमाने । राया । मदेम । तन्वा । तना । च ॥yáḥ ǀ rájāṃsi ǀ vi-mamé ǀ pā́rthivāni ǀ tríḥ ǀ cit ǀ víṣṇuḥ ǀ mánave ǀ bādhitā́ya ǀ
tásya ǀ te ǀ śárman ǀ upa-dadyámāne ǀ rāyā́ ǀ madema ǀ tanvā́ ǀ tánā ǀ ca ǁyaḥ ǀ rajāṃsi ǀ vi-mame ǀ pārthivāni ǀ triḥ ǀ cit ǀ viṣṇuḥ ǀ manave ǀ bādhitāya ǀ
tasya ǀ te ǀ śarman ǀ upa-dadyamāne ǀ rāyā ǀ madema ǀ tanvā ǀ tanā ǀ ca ǁ6.49.13 Aṣṭaka 4.8.7.3Anuvāka 6.4.137
-
Ṛk 14
तन्नोऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् ।
तदोष॑धीभिर॒भि रा॑ति॒षाचो॒ भगः॒ पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ॥तन् नो ऽहिर् बुध्न्यो अद्भिर् अर्कैस् तत् पर्वतस् तत् सविता चनो धात् |
तद् ओषधीभिर् अभि रातिषाचो भगः पुरन्धिर् जिन्वतु प्र राये ||tánnó’hirbudhnyó adbhírarkáistátpárvatastátsavitā́ cáno dhāt ǀ
tádóṣadhībhirabhí rātiṣā́co bhágaḥ púraṃdhirjinvatu prá rāyé ǁtan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt |
tad oṣadhībhir abhi rātiṣāco bhagaḥ purandhir jinvatu pra rāye ||तत् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒त्ऽभिः । अ॒र्कैः । तत् । पर्व॑तः । तत् । स॒वि॒ता । चनः॑ । धा॒त् ।
तत् । ओष॑धीभिः । अ॒भि । रा॒ति॒ऽसाचः॑ । भगः॑ । पुर॑म्ऽधिः । जि॒न्व॒तु॒ । प्र । रा॒ये ॥तत् । नः । अहिः । बुध्न्यः । अत्ऽभिः । अर्कैः । तत् । पर्वतः । तत् । सविता । चनः । धात् ।
तत् । ओषधीभिः । अभि । रातिऽसाचः । भगः । पुरम्ऽधिः । जिन्वतु । प्र । राये ॥tát ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ at-bhíḥ ǀ arkáiḥ ǀ tát ǀ párvataḥ ǀ tát ǀ savitā́ ǀ cánaḥ ǀ dhāt ǀ
tát ǀ óṣadhībhiḥ ǀ abhí ǀ rāti-sā́caḥ ǀ bhágaḥ ǀ púram-dhiḥ ǀ jinvatu ǀ prá ǀ rāyé ǁtat ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ at-bhiḥ ǀ arkaiḥ ǀ tat ǀ parvataḥ ǀ tat ǀ savitā ǀ canaḥ ǀ dhāt ǀ
tat ǀ oṣadhībhiḥ ǀ abhi ǀ rāti-sācaḥ ǀ bhagaḥ ǀ puram-dhiḥ ǀ jinvatu ǀ pra ǀ rāye ǁ6.49.14 Aṣṭaka 4.8.7.4Anuvāka 6.4.138
-
Ṛk 15
नु नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्रां पु॑रु॒वीरं॑ म॒ह ऋ॒तस्य॑ गो॒पां ।
क्षयं॑ दाता॒जरं॒ येन॒ जना॒न्त्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य१॒॑श्नवा॑म ॥नु नो रयिं रथ्यं चर्षणिप्राम् पुरुवीरम् मह ऋतस्य गोपाम् |
क्षयं दाताजरं येन जनान् स्पृधो अदेवीर् अभि च क्रमाम विश आदेवीर् अभ्य् अश्नवाम ||nú no rayím rathyám carṣaṇiprā́m puruvī́ram mahá ṛtásya gopā́m ǀ
kṣáyam dātājáram yéna jánāntspṛ́dho ádevīrabhí ca krámāma víśa ā́devīrabhyáśnávāma ǁnu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām |
kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma ||नु । नः॒ । र॒यिम् । र॒थ्य॑म् । च॒र्ष॒णि॒ऽप्राम् । पु॒रु॒ऽवीर॑म् । म॒हः । ऋ॒तस्य॑ । गो॒पाम् ।
क्षय॑म् । दा॒त॒ । अ॒जर॑म् । येन॑ । जना॑न् । स्पृधः॑ । अदे॑वीः । अ॒भि । च॒ । क्रमा॑म । विशः॑ । आऽदे॑वीः । अ॒भि । अ॒श्नवा॑म ॥नु । नः । रयिम् । रथ्यम् । चर्षणिऽप्राम् । पुरुऽवीरम् । महः । ऋतस्य । गोपाम् ।
क्षयम् । दात । अजरम् । येन । जनान् । स्पृधः । अदेवीः । अभि । च । क्रमाम । विशः । आऽदेवीः । अभि । अश्नवाम ॥nú ǀ naḥ ǀ rayím ǀ rathyám ǀ carṣaṇi-prā́m ǀ puru-vī́ram ǀ maháḥ ǀ ṛtásya ǀ gopā́m ǀ
kṣáyam ǀ dāta ǀ ajáram ǀ yéna ǀ jánān ǀ spṛ́dhaḥ ǀ ádevīḥ ǀ abhí ǀ ca ǀ krámāma ǀ víśaḥ ǀ ā́-devīḥ ǀ abhí ǀ aśnávāma ǁnu ǀ naḥ ǀ rayim ǀ rathyam ǀ carṣaṇi-prām ǀ puru-vīram ǀ mahaḥ ǀ ṛtasya ǀ gopām ǀ
kṣayam ǀ dāta ǀ ajaram ǀ yena ǀ janān ǀ spṛdhaḥ ǀ adevīḥ ǀ abhi ǀ ca ǀ kramāma ǀ viśaḥ ǀ ā-devīḥ ǀ abhi ǀ aśnavāma ǁ6.49.15 Aṣṭaka 4.8.7.5Anuvāka 6.4.139
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.