Ṛk 6.49.13
Saṃhitā
यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ ।
तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒३॒॑ तना॑ च ॥
यो रजांसि विममे पार्थिवानि त्रिश् चिद् विष्णुर् मनवे बाधिताय |
तस्य ते शर्मन्न् उपदद्यमाने राया मदेम तन्वा तना च ||
yó rájāṃsi vimamé pā́rthivāni tríścidvíṣṇurmánave bādhitā́ya ǀ
tásya te śármannupadadyámāne rāyā́ madema tanvā́ tánā ca ǁ
yo rajāṃsi vimame pārthivāni triś cid viṣṇur manave bādhitāya |
tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca ||
Padapāṭha
यः । रजां॑सि । वि॒ऽम॒मे । पार्थि॑वानि । त्रिः । चि॒त् । विष्णुः॑ । मन॑वे । बा॒धि॒ताय॑ ।
तस्य॑ । ते॒ । शर्म॑न् । उ॒प॒ऽद॒द्यमा॑ने । रा॒या । म॒दे॒म॒ । त॒न्वा॑ । तना॑ । च॒ ॥
यः । रजांसि । विऽममे । पार्थिवानि । त्रिः । चित् । विष्णुः । मनवे । बाधिताय ।
तस्य । ते । शर्मन् । उपऽदद्यमाने । राया । मदेम । तन्वा । तना । च ॥
yáḥ ǀ rájāṃsi ǀ vi-mamé ǀ pā́rthivāni ǀ tríḥ ǀ cit ǀ víṣṇuḥ ǀ mánave ǀ bādhitā́ya ǀ
tásya ǀ te ǀ śárman ǀ upa-dadyámāne ǀ rāyā́ ǀ madema ǀ tanvā́ ǀ tánā ǀ ca ǁ
yaḥ ǀ rajāṃsi ǀ vi-mame ǀ pārthivāni ǀ triḥ ǀ cit ǀ viṣṇuḥ ǀ manave ǀ bādhitāya ǀ
tasya ǀ te ǀ śarman ǀ upa-dadyamāne ǀ rāyā ǀ madema ǀ tanvā ǀ tanā ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.049.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.07.03
- Maṇḍala · Anuvāka · Ṛk
- 06.04.137
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Ṛjiśvan Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.