Sūkta 30
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1-3); paṅktiḥ (4); brāhmyuṣnik (5)
2nd set of styles triṣṭubh
-
Ṛk 1
भूय॒ इद्वा॑वृधे वी॒र्या॑यँ॒ एको॑ अजु॒र्यो द॑यते॒ वसू॑नि ।
प्र रि॑रिचे दि॒व इंद्रः॑ पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥भूय इद् वावृधे वीर्यायं एको अजुर्यो दयते वसूनि |
प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धम् इद् अस्य प्रति रोदसी उभे ||bhū́ya ídvāvṛdhe vīryā́yam̐ éko ajuryó dayate vásūni ǀ
prá ririce divá índraḥ pṛthivyā́ ardhámídasya práti ródasī ubhé ǁbhūya id vāvṛdhe vīryāyaṃ eko ajuryo dayate vasūni |
pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe ||भूयः॑ । इत् । व॒वृ॒धे॒ । वी॒र्या॑य । एकः॑ । अ॒जु॒र्यः । द॒य॒ते॒ । वसू॑नि ।
प्र । रि॒रि॒चे॒ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । अ॒र्धम् । इत् । अ॒स्य॒ । प्रति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥भूयः । इत् । ववृधे । वीर्याय । एकः । अजुर्यः । दयते । वसूनि ।
प्र । रिरिचे । दिवः । इन्द्रः । पृथिव्याः । अर्धम् । इत् । अस्य । प्रति । रोदसी इति । उभे इति ॥bhū́yaḥ ǀ ít ǀ vavṛdhe ǀ vīryā́ya ǀ ékaḥ ǀ ajuryáḥ ǀ dayate ǀ vásūni ǀ
prá ǀ ririce ǀ diváḥ ǀ índraḥ ǀ pṛthivyā́ḥ ǀ ardhám ǀ ít ǀ asya ǀ práti ǀ ródasī íti ǀ ubhé íti ǁbhūyaḥ ǀ it ǀ vavṛdhe ǀ vīryāya ǀ ekaḥ ǀ ajuryaḥ ǀ dayate ǀ vasūni ǀ
pra ǀ ririce ǀ divaḥ ǀ indraḥ ǀ pṛthivyāḥ ǀ ardham ǀ it ǀ asya ǀ prati ǀ rodasī iti ǀ ubhe iti ǁ6.30.1 Aṣṭaka 4.7.2.1Anuvāka 6.3.50
-
Ṛk 2
अधा॑ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति ।
दि॒वेदि॑वे॒ सूर्यो॑ दर्श॒तो भू॒द्वि सद्मा॑न्युर्वि॒या सु॒क्रतु॑र्धात् ॥अधा मन्ये बृहद् असुर्यम् अस्य यानि दाधार नकिर् आ मिनाति |
दिवे-दिवे सूर्यो दर्शतो भूद् वि सद्मान्य् उर्विया सुक्रतुर् धात् ||ádhā manye bṛhádasuryámasya yā́ni dādhā́ra nákirā́ mināti ǀ
divédive sū́ryo darśató bhūdví sádmānyurviyā́ sukráturdhāt ǁadhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti |
dive-dive sūryo darśato bhūd vi sadmāny urviyā sukratur dhāt ||अध॑ । म॒न्ये॒ । बृ॒हत् । अ॒सु॒र्य॑म् । अ॒स्य॒ । यानि॑ । दा॒धार॑ । नकिः॑ । आ । मि॒ना॒ति॒ ।
दि॒वेऽदि॑वे । सूर्यः॑ । द॒र्श॒तः । भू॒त् । वि । सद्मा॑नि । उ॒र्वि॒या । सु॒ऽक्रतुः॑ । धा॒त् ॥अध । मन्ये । बृहत् । असुर्यम् । अस्य । यानि । दाधार । नकिः । आ । मिनाति ।
दिवेऽदिवे । सूर्यः । दर्शतः । भूत् । वि । सद्मानि । उर्विया । सुऽक्रतुः । धात् ॥ádha ǀ manye ǀ bṛhát ǀ asuryám ǀ asya ǀ yā́ni ǀ dādhā́ra ǀ nákiḥ ǀ ā́ ǀ mināti ǀ
divé-dive ǀ sū́ryaḥ ǀ darśatáḥ ǀ bhūt ǀ ví ǀ sádmāni ǀ urviyā́ ǀ su-krátuḥ ǀ dhāt ǁadha ǀ manye ǀ bṛhat ǀ asuryam ǀ asya ǀ yāni ǀ dādhāra ǀ nakiḥ ǀ ā ǀ mināti ǀ
dive-dive ǀ sūryaḥ ǀ darśataḥ ǀ bhūt ǀ vi ǀ sadmāni ǀ urviyā ǀ su-kratuḥ ǀ dhāt ǁ6.30.2 Aṣṭaka 4.7.2.2Anuvāka 6.3.51
-
Ṛk 3
अ॒द्या चि॒न्नू चि॒त्तदपो॑ न॒दीनां॒ यदा॑भ्यो॒ अर॑दो गा॒तुमिं॑द्र ।
नि पर्व॑ता अद्म॒सदो॒ न से॑दु॒स्त्वया॑ दृ॒ळ्हानि॑ सुक्रतो॒ रजां॑सि ॥अद्या चिन् नू चित् तद् अपो नदीनां यद् आभ्यो अरदो गातुम् इन्द्र |
नि पर्वता अद्मसदो न सेदुस् त्वया दृऌहानि सुक्रतो रजांसि ||adyā́ cinnū́ cittádápo nadī́nām yádābhyo árado gātúmindra ǀ
ní párvatā admasádo ná sedustváyā dṛḷhā́ni sukrato rájāṃsi ǁadyā cin nū cit tad apo nadīnāṃ yad ābhyo arado gātum indra |
ni parvatā admasado na sedus tvayā dṛḷhāni sukrato rajāṃsi ||अ॒द्य । चि॒त् । नु । चि॒त् । तत् । अपः॑ । न॒दीना॑म् । यत् । आ॒भ्यः॒ । अर॑दः । गा॒तुम् । इ॒न्द्र॒ ।
नि । पर्व॑ताः । अ॒द्म॒ऽसदः॑ । न । से॒दुः॒ । त्वया॑ । दृ॒ळ्हानि॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । रजां॑सि ॥अद्य । चित् । नु । चित् । तत् । अपः । नदीनाम् । यत् । आभ्यः । अरदः । गातुम् । इन्द्र ।
नि । पर्वताः । अद्मऽसदः । न । सेदुः । त्वया । दृळ्हानि । सुक्रतो इति सुऽक्रतो । रजांसि ॥adyá ǀ cit ǀ nú ǀ cit ǀ tát ǀ ápaḥ ǀ nadī́nām ǀ yát ǀ ābhyaḥ ǀ áradaḥ ǀ gātúm ǀ indra ǀ
ní ǀ párvatāḥ ǀ adma-sádaḥ ǀ ná ǀ seduḥ ǀ tváyā ǀ dṛḷhā́ni ǀ sukrato íti su-krato ǀ rájāṃsi ǁadya ǀ cit ǀ nu ǀ cit ǀ tat ǀ apaḥ ǀ nadīnām ǀ yat ǀ ābhyaḥ ǀ aradaḥ ǀ gātum ǀ indra ǀ
ni ǀ parvatāḥ ǀ adma-sadaḥ ǀ na ǀ seduḥ ǀ tvayā ǀ dṛḷhāni ǀ sukrato iti su-krato ǀ rajāṃsi ǁ6.30.3 Aṣṭaka 4.7.2.3Anuvāka 6.3.52
-
Ṛk 4
स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तींद्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् ।
अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रं ॥सत्यम् इत् तन् न त्वावां अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् |
अहन्न् अहिम् परिशयानम् अर्णो ऽवासृजो अपो अच्छा समुद्रम् ||satyámíttánná tvā́vām̐ anyó astī́ndra devó ná mártyo jyā́yān ǀ
áhannáhim pariśáyānamárṇó’vāsṛjo apó ácchā samudrám ǁsatyam it tan na tvāvāṃ anyo astīndra devo na martyo jyāyān |
ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram ||स॒त्यम् । इत् । तत् । न । त्वाऽवा॑न् । अ॒न्यः । अ॒स्ति॒ । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ । ज्याया॑न् ।
अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । अव॑ । अ॒सृ॒जः॒ । अ॒पः । अच्छ॑ । स॒मु॒द्रम् ॥सत्यम् । इत् । तत् । न । त्वाऽवान् । अन्यः । अस्ति । इन्द्र । देवः । न । मर्त्यः । ज्यायान् ।
अहन् । अहिम् । परिऽशयानम् । अर्णः । अव । असृजः । अपः । अच्छ । समुद्रम् ॥satyám ǀ ít ǀ tát ǀ ná ǀ tvā́-vān ǀ anyáḥ ǀ asti ǀ índra ǀ deváḥ ǀ ná ǀ mártyaḥ ǀ jyā́yān ǀ
áhan ǀ áhim ǀ pari-śáyānam ǀ árṇaḥ ǀ áva ǀ asṛjaḥ ǀ apáḥ ǀ áccha ǀ samudrám ǁsatyam ǀ it ǀ tat ǀ na ǀ tvā-vān ǀ anyaḥ ǀ asti ǀ indra ǀ devaḥ ǀ na ǀ martyaḥ ǀ jyāyān ǀ
ahan ǀ ahim ǀ pari-śayānam ǀ arṇaḥ ǀ ava ǀ asṛjaḥ ǀ apaḥ ǀ accha ǀ samudram ǁ6.30.4 Aṣṭaka 4.7.2.4Anuvāka 6.3.53
-
Ṛk 5
त्वम॒पो वि दुरो॒ विषू॑ची॒रिंद्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य ।
राजा॑भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं॑ ज॒नयं॒द्यामु॒षासं॑ ॥त्वम् अपो वि दुरो विषूचीर् इन्द्र दृऌहम् अरुजः पर्वतस्य |
राजाभवो जगतश् चर्षणीनां साकं सूर्यं जनयन् द्याम् उषासम् ||tvámapó ví dúro víṣūcīríndra dṛḷhámarujaḥ párvatasya ǀ
rā́jābhavo jágataścarṣaṇīnā́m sākám sū́ryam janáyandyā́muṣā́sam ǁtvam apo vi duro viṣūcīr indra dṛḷham arujaḥ parvatasya |
rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam ||त्वम् । अ॒पः । वि । दुरः॑ । विषू॑चीः । इन्द्र॑ । दृ॒ळ्हम् । अ॒रु॒जः॒ । पर्व॑तस्य ।
राजा॑ । अ॒भ॒वः॒ । जग॑तः । च॒र्ष॒णी॒नाम् । सा॒कम् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षस॑म् ॥त्वम् । अपः । वि । दुरः । विषूचीः । इन्द्र । दृळ्हम् । अरुजः । पर्वतस्य ।
राजा । अभवः । जगतः । चर्षणीनाम् । साकम् । सूर्यम् । जनयन् । द्याम् । उषसम् ॥tvám ǀ apáḥ ǀ ví ǀ dúraḥ ǀ víṣūcīḥ ǀ índra ǀ dṛḷhám ǀ arujaḥ ǀ párvatasya ǀ
rā́jā ǀ abhavaḥ ǀ jágataḥ ǀ carṣaṇīnā́m ǀ sākám ǀ sū́ryam ǀ janáyan ǀ dyā́m ǀ uṣásam ǁtvam ǀ apaḥ ǀ vi ǀ duraḥ ǀ viṣūcīḥ ǀ indra ǀ dṛḷham ǀ arujaḥ ǀ parvatasya ǀ
rājā ǀ abhavaḥ ǀ jagataḥ ǀ carṣaṇīnām ǀ sākam ǀ sūryam ǀ janayan ǀ dyām ǀ uṣasam ǁ6.30.5 Aṣṭaka 4.7.2.5Anuvāka 6.3.54
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.