Sūkta 58
- Devatā देवता
- Pūṣan
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles virāṭtrisṭup (2-4); triṣṭup (1)
2nd set of styles triṣṭubh (1, 3, 4); jagatī (2)
-
Ṛk 1
शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर् इवासि |
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ||śukrám te anyádyajatám te anyádvíṣurūpe áhanī dyáurivāsi ǀ
víśvā hí māyā́ ávasi svadhāvo bhadrā́ te pūṣannihá rātírastu ǁśukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi |
viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu ||शु॒क्रम् । ते॒ । अ॒न्यत् । य॒ज॒तम् । ते॒ । अ॒न्यत् । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । द्यौःऽइ॑व । अ॒सि॒ ।
विश्वाः॑ । हि । मा॒याः । अव॑सि । स्व॒धा॒ऽवः॒ । भ॒द्रा । ते॒ । पू॒ष॒न् । इ॒ह । रा॒तिः । अ॒स्तु॒ ॥शुक्रम् । ते । अन्यत् । यजतम् । ते । अन्यत् । विषुरूपे इति विषुऽरूपे । अहनी इति । द्यौःऽइव । असि ।
विश्वाः । हि । मायाः । अवसि । स्वधाऽवः । भद्रा । ते । पूषन् । इह । रातिः । अस्तु ॥śukrám ǀ te ǀ anyát ǀ yajatám ǀ te ǀ anyát ǀ víṣurūpe íti víṣu-rūpe ǀ áhanī íti ǀ dyáuḥ-iva ǀ asi ǀ
víśvāḥ ǀ hí ǀ māyā́ḥ ǀ ávasi ǀ svadhā-vaḥ ǀ bhadrā́ ǀ te ǀ pūṣan ǀ ihá ǀ rātíḥ ǀ astu ǁśukram ǀ te ǀ anyat ǀ yajatam ǀ te ǀ anyat ǀ viṣurūpe iti viṣu-rūpe ǀ ahanī iti ǀ dyauḥ-iva ǀ asi ǀ
viśvāḥ ǀ hi ǀ māyāḥ ǀ avasi ǀ svadhā-vaḥ ǀ bhadrā ǀ te ǀ pūṣan ǀ iha ǀ rātiḥ ǀ astu ǁ6.58.1 Aṣṭaka 4.8.24.1Anuvāka 6.5.87
-
Ṛk 2
अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः ।
अष्ट्रां॑ पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥अजाश्वः पशुपा वाजपस्त्यो धियञ्जिन्वो भुवने विश्वे अर्पितः |
अष्ट्राम् पूषा शिथिराम् उद्वरीवृजत् संचक्षाणो भुवना देव ईयते ||ajā́śvaḥ paśupā́ vā́japastyo dhiyaṃjinvó bhúvane víśve árpitaḥ ǀ
áṣṭrām pūṣā́ śithirā́mudvárīvṛjatsaṃcákṣāṇo bhúvanā devá īyate ǁajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ |
aṣṭrām pūṣā śithirām udvarīvṛjat saṃcakṣāṇo bhuvanā deva īyate ||अ॒जऽअ॑श्वः । प॒शु॒ऽपाः । वाज॑ऽपस्त्यः । धि॒य॒म्ऽजि॒न्वः । भुव॑ने । विश्वे॑ । अर्पि॑तः ।
अष्ट्रा॑म् । पू॒षा । शि॒थि॒राम् । उ॒त्ऽवरी॑वृजत् । स॒म्ऽचक्षा॑णः । भुव॑ना । दे॒वः । ई॒य॒ते॒ ॥अजऽअश्वः । पशुऽपाः । वाजऽपस्त्यः । धियम्ऽजिन्वः । भुवने । विश्वे । अर्पितः ।
अष्ट्राम् । पूषा । शिथिराम् । उत्ऽवरीवृजत् । सम्ऽचक्षाणः । भुवना । देवः । ईयते ॥ajá-aśvaḥ ǀ paśu-pā́ḥ ǀ vā́ja-pastyaḥ ǀ dhiyam-jinváḥ ǀ bhúvane ǀ víśve ǀ árpitaḥ ǀ
áṣṭrām ǀ pūṣā́ ǀ śithirā́m ǀ ut-várīvṛjat ǀ sam-cákṣāṇaḥ ǀ bhúvanā ǀ deváḥ ǀ īyate ǁaja-aśvaḥ ǀ paśu-pāḥ ǀ vāja-pastyaḥ ǀ dhiyam-jinvaḥ ǀ bhuvane ǀ viśve ǀ arpitaḥ ǀ
aṣṭrām ǀ pūṣā ǀ śithirām ǀ ut-varīvṛjat ǀ sam-cakṣāṇaḥ ǀ bhuvanā ǀ devaḥ ǀ īyate ǁ6.58.2 Aṣṭaka 4.8.24.2Anuvāka 6.5.88
-
Ṛk 3
यास्ते॑ पूष॒न्नावो॑ अं॒तः स॑मु॒द्रे हि॑र॒ण्ययी॑रं॒तरि॑क्षे॒ चरं॑ति ।
ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒च्छमा॑नः ॥यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे चरन्ति |
ताभिर् यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ||yā́ste pūṣannā́vo antáḥ samudré hiraṇyáyīrantárikṣe cáranti ǀ
tā́bhiryāsi dūtyā́m sū́ryasya kā́mena kṛta śráva icchámānaḥ ǁyās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti |
tābhir yāsi dūtyāṃ sūryasya kāmena kṛta śrava icchamānaḥ ||याः । ते॒ । पू॒ष॒न् । नावः॑ । अ॒न्तरिति॑ । स॒मु॒द्रे । हि॒र॒ण्ययीः॑ । अ॒न्तरि॑क्षे । चर॑न्ति ।
ताभिः॑ । या॒सि॒ । दू॒त्याम् । सूर्य॑स्य । कामे॑न । कृ॒त॒ । श्रवः॑ । इ॒च्छमा॑नः ॥याः । ते । पूषन् । नावः । अन्तरिति । समुद्रे । हिरण्ययीः । अन्तरिक्षे । चरन्ति ।
ताभिः । यासि । दूत्याम् । सूर्यस्य । कामेन । कृत । श्रवः । इच्छमानः ॥yā́ḥ ǀ te ǀ pūṣan ǀ nā́vaḥ ǀ antáríti ǀ samudré ǀ hiraṇyáyīḥ ǀ antárikṣe ǀ cáranti ǀ
tā́bhiḥ ǀ yāsi ǀ dūtyā́m ǀ sū́ryasya ǀ kā́mena ǀ kṛta ǀ śrávaḥ ǀ icchámānaḥ ǁyāḥ ǀ te ǀ pūṣan ǀ nāvaḥ ǀ antariti ǀ samudre ǀ hiraṇyayīḥ ǀ antarikṣe ǀ caranti ǀ
tābhiḥ ǀ yāsi ǀ dūtyām ǀ sūryasya ǀ kāmena ǀ kṛta ǀ śravaḥ ǀ icchamānaḥ ǁ6.58.3 Aṣṭaka 4.8.24.3Anuvāka 6.5.89
-
Ṛk 4
पू॒षा सु॒बंधु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।
यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे॑न कृ॒तं त॒वसं॒ स्वंचं॑ ॥पूषा सुबन्धुर् दिव आ पृथिव्या इऌअस् पतिर् मघवा दस्मवर्चाः |
यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ||pūṣā́ subándhurdivá ā́ pṛthivyā́ iḷáspátirmaghávā dasmávarcāḥ ǀ
yám devā́so ádaduḥ sūryā́yai kā́mena kṛtám tavásam sváñcam ǁpūṣā subandhur diva ā pṛthivyā iḷas patir maghavā dasmavarcāḥ |
yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam ||पू॒षा । सु॒ऽबन्धुः॑ । दि॒वः । आ । पृ॒थि॒व्याः । इ॒ळः । पतिः॑ । म॒घऽवा॑ । द॒स्मऽव॑र्चाः ।
यम् । दे॒वासः॑ । अद॑दुः । सू॒र्यायै॑ । कामे॑न । कृ॒तम् । त॒वस॑म् । सु॒ऽअञ्च॑म् ॥पूषा । सुऽबन्धुः । दिवः । आ । पृथिव्याः । इळः । पतिः । मघऽवा । दस्मऽवर्चाः ।
यम् । देवासः । अददुः । सूर्यायै । कामेन । कृतम् । तवसम् । सुऽअञ्चम् ॥pūṣā́ ǀ su-bándhuḥ ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǀ iḷáḥ ǀ pátiḥ ǀ maghá-vā ǀ dasmá-varcāḥ ǀ
yám ǀ devā́saḥ ǀ ádaduḥ ǀ sūryā́yai ǀ kā́mena ǀ kṛtám ǀ tavásam ǀ su-áñcam ǁpūṣā ǀ su-bandhuḥ ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǀ iḷaḥ ǀ patiḥ ǀ magha-vā ǀ dasma-varcāḥ ǀ
yam ǀ devāsaḥ ǀ adaduḥ ǀ sūryāyai ǀ kāmena ǀ kṛtam ǀ tavasam ǀ su-añcam ǁ6.58.4 Aṣṭaka 4.8.24.4Anuvāka 6.5.90
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.