Ṛk 6.58.1
Saṃhitā
शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥
शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर् इवासि |
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ||
śukrám te anyádyajatám te anyádvíṣurūpe áhanī dyáurivāsi ǀ
víśvā hí māyā́ ávasi svadhāvo bhadrā́ te pūṣannihá rātírastu ǁ
śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi |
viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu ||
Padapāṭha
शु॒क्रम् । ते॒ । अ॒न्यत् । य॒ज॒तम् । ते॒ । अ॒न्यत् । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । द्यौःऽइ॑व । अ॒सि॒ ।
विश्वाः॑ । हि । मा॒याः । अव॑सि । स्व॒धा॒ऽवः॒ । भ॒द्रा । ते॒ । पू॒ष॒न् । इ॒ह । रा॒तिः । अ॒स्तु॒ ॥
शुक्रम् । ते । अन्यत् । यजतम् । ते । अन्यत् । विषुरूपे इति विषुऽरूपे । अहनी इति । द्यौःऽइव । असि ।
विश्वाः । हि । मायाः । अवसि । स्वधाऽवः । भद्रा । ते । पूषन् । इह । रातिः । अस्तु ॥
śukrám ǀ te ǀ anyát ǀ yajatám ǀ te ǀ anyát ǀ víṣurūpe íti víṣu-rūpe ǀ áhanī íti ǀ dyáuḥ-iva ǀ asi ǀ
víśvāḥ ǀ hí ǀ māyā́ḥ ǀ ávasi ǀ svadhā-vaḥ ǀ bhadrā́ ǀ te ǀ pūṣan ǀ ihá ǀ rātíḥ ǀ astu ǁ
śukram ǀ te ǀ anyat ǀ yajatam ǀ te ǀ anyat ǀ viṣurūpe iti viṣu-rūpe ǀ ahanī iti ǀ dyauḥ-iva ǀ asi ǀ
viśvāḥ ǀ hi ǀ māyāḥ ǀ avasi ǀ svadhā-vaḥ ǀ bhadrā ǀ te ǀ pūṣan ǀ iha ǀ rātiḥ ǀ astu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.058.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.24.01
- Maṇḍala · Anuvāka · Ṛk
- 06.05.087
- Devatā देवता
- Pūṣan
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.