Ṛk 6.58.3
Saṃhitā
यास्ते॑ पूष॒न्नावो॑ अं॒तः स॑मु॒द्रे हि॑र॒ण्ययी॑रं॒तरि॑क्षे॒ चरं॑ति ।
ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒च्छमा॑नः ॥
यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे चरन्ति |
ताभिर् यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ||
yā́ste pūṣannā́vo antáḥ samudré hiraṇyáyīrantárikṣe cáranti ǀ
tā́bhiryāsi dūtyā́m sū́ryasya kā́mena kṛta śráva icchámānaḥ ǁ
yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti |
tābhir yāsi dūtyāṃ sūryasya kāmena kṛta śrava icchamānaḥ ||
Padapāṭha
याः । ते॒ । पू॒ष॒न् । नावः॑ । अ॒न्तरिति॑ । स॒मु॒द्रे । हि॒र॒ण्ययीः॑ । अ॒न्तरि॑क्षे । चर॑न्ति ।
ताभिः॑ । या॒सि॒ । दू॒त्याम् । सूर्य॑स्य । कामे॑न । कृ॒त॒ । श्रवः॑ । इ॒च्छमा॑नः ॥
याः । ते । पूषन् । नावः । अन्तरिति । समुद्रे । हिरण्ययीः । अन्तरिक्षे । चरन्ति ।
ताभिः । यासि । दूत्याम् । सूर्यस्य । कामेन । कृत । श्रवः । इच्छमानः ॥
yā́ḥ ǀ te ǀ pūṣan ǀ nā́vaḥ ǀ antáríti ǀ samudré ǀ hiraṇyáyīḥ ǀ antárikṣe ǀ cáranti ǀ
tā́bhiḥ ǀ yāsi ǀ dūtyā́m ǀ sū́ryasya ǀ kā́mena ǀ kṛta ǀ śrávaḥ ǀ icchámānaḥ ǁ
yāḥ ǀ te ǀ pūṣan ǀ nāvaḥ ǀ antariti ǀ samudre ǀ hiraṇyayīḥ ǀ antarikṣe ǀ caranti ǀ
tābhiḥ ǀ yāsi ǀ dūtyām ǀ sūryasya ǀ kāmena ǀ kṛta ǀ śravaḥ ǀ icchamānaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.058.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.24.03
- Maṇḍala · Anuvāka · Ṛk
- 06.05.089
- Devatā देवता
- Pūṣan
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.