Sūkta 25
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 7-9); paṅktiḥ (1, 5); triṣṭup (4, 6); bhurikpaṅkti (3)
2nd set of styles triṣṭubh
-
Ṛk 1
या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेंद्र॑ शुष्मि॒न्नस्ति॑ ।
ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥या त ऊतिर् अवमा या परमा या मध्यमेन्द्र शुष्मिन्न् अस्ति |
ताभिर् ऊ षु वृत्रहत्ये ऽवीर् न एभिश् च वाजैर् महान् न उग्र ||yā́ ta ūtíravamā́ yā́ paramā́ yā́ madhyaméndra śuṣminnásti ǀ
tā́bhirū ṣú vṛtrahátye’vīrna ebhíśca vā́jairmahā́nna ugra ǁyā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti |
tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra ||या । ते॒ । ऊ॒तिः । अ॒व॒मा । या । प॒र॒मा । या । म॒ध्य॒मा । इ॒न्द्र॒ । शु॒ष्मि॒न् । अस्ति॑ ।
ताभिः॑ । ऊं॒ इति॑ । सु । वृ॒त्र॒ऽहत्ये॑ । अ॒वीः॒ । नः॒ । ए॒भिः । च॒ । वाजैः॑ । म॒हान् । नः॒ । उ॒ग्र॒ ॥या । ते । ऊतिः । अवमा । या । परमा । या । मध्यमा । इन्द्र । शुष्मिन् । अस्ति ।
ताभिः । ऊं इति । सु । वृत्रऽहत्ये । अवीः । नः । एभिः । च । वाजैः । महान् । नः । उग्र ॥yā́ ǀ te ǀ ūtíḥ ǀ avamā́ ǀ yā́ ǀ paramā́ ǀ yā́ ǀ madhyamā́ ǀ indra ǀ śuṣmin ǀ ásti ǀ
tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ vṛtra-hátye ǀ avīḥ ǀ naḥ ǀ ebhíḥ ǀ ca ǀ vā́jaiḥ ǀ mahā́n ǀ naḥ ǀ ugra ǁyā ǀ te ǀ ūtiḥ ǀ avamā ǀ yā ǀ paramā ǀ yā ǀ madhyamā ǀ indra ǀ śuṣmin ǀ asti ǀ
tābhiḥ ǀ ūṃ iti ǀ su ǀ vṛtra-hatye ǀ avīḥ ǀ naḥ ǀ ebhiḥ ǀ ca ǀ vājaiḥ ǀ mahān ǀ naḥ ǀ ugra ǁ6.25.1 Aṣṭaka 4.6.19.1Anuvāka 6.3.11
-
Ṛk 2
आभिः॒ स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमिं॑द्र ।
आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासीः॑ ॥आभि स्पृधो मिथतीर् अरिषण्यन्न् अमित्रस्य व्यथया मन्युम् इन्द्र |
आभिर् विश्वा अभियुजो विषूचीर् आर्याय विशो ऽव तारीर् दासीः ||ā́bhiḥ spṛ́dho mithatī́ráriṣaṇyannamítrasya vyathayā manyúmindra ǀ
ā́bhirvíśvā abhiyújo víṣūcīrā́ryāya víśó’va tārīrdā́sīḥ ǁābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra |
ābhir viśvā abhiyujo viṣūcīr āryāya viśo 'va tārīr dāsīḥ ||आभिः॑ । स्पृधः॑ । मि॒थ॒तीः । अरि॑षण्यन् । अ॒मित्र॑स्य । व्य॒थ॒य॒ । म॒न्युम् । इ॒न्द्र॒ ।
आभिः॑ । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । विषू॑चीः । आर्या॑य । विशः॑ । अव॑ । ता॒रीः॒ । दासीः॑ ॥आभिः । स्पृधः । मिथतीः । अरिषण्यन् । अमित्रस्य । व्यथय । मन्युम् । इन्द्र ।
आभिः । विश्वाः । अभिऽयुजः । विषूचीः । आर्याय । विशः । अव । तारीः । दासीः ॥ā́bhiḥ ǀ spṛ́dhaḥ ǀ mithatī́ḥ ǀ áriṣaṇyan ǀ amítrasya ǀ vyathaya ǀ manyúm ǀ indra ǀ
ā́bhiḥ ǀ víśvāḥ ǀ abhi-yújaḥ ǀ víṣūcīḥ ǀ ā́ryāya ǀ víśaḥ ǀ áva ǀ tārīḥ ǀ dā́sīḥ ǁābhiḥ ǀ spṛdhaḥ ǀ mithatīḥ ǀ ariṣaṇyan ǀ amitrasya ǀ vyathaya ǀ manyum ǀ indra ǀ
ābhiḥ ǀ viśvāḥ ǀ abhi-yujaḥ ǀ viṣūcīḥ ǀ āryāya ǀ viśaḥ ǀ ava ǀ tārīḥ ǀ dāsīḥ ǁ6.25.2 Aṣṭaka 4.6.19.2Anuvāka 6.3.12
-
Ṛk 3
इंद्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे ।
त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥इन्द्र जामय उत ये ऽजामयो ऽर्वाचीनासो वनुषो युयुज्रे |
त्वम् एषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ||índra jāmáya utá yé’jāmayo’rvācīnā́so vanúṣo yuyujré ǀ
tvámeṣām vithurā́ śávāṃsi jahí vṛ́ṣṇyāni kṛṇuhī́ párācaḥ ǁindra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre |
tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ ||इन्द्र॑ । जा॒मयः॑ । उ॒त । ये । अजा॑मयः । अ॒र्वा॒ची॒नासः॑ । व॒नुषः॑ । यु॒यु॒ज्रे ।
त्वम् । ए॒षा॒म् । वि॒थु॒रा । शवां॑सि । ज॒हि । वृष्ण्या॑नि । कृ॒णु॒हि । परा॑चः ॥इन्द्र । जामयः । उत । ये । अजामयः । अर्वाचीनासः । वनुषः । युयुज्रे ।
त्वम् । एषाम् । विथुरा । शवांसि । जहि । वृष्ण्यानि । कृणुहि । पराचः ॥índra ǀ jāmáyaḥ ǀ utá ǀ yé ǀ ájāmayaḥ ǀ arvācīnā́saḥ ǀ vanúṣaḥ ǀ yuyujré ǀ
tvám ǀ eṣām ǀ vithurā́ ǀ śávāṃsi ǀ jahí ǀ vṛ́ṣṇyāni ǀ kṛṇuhí ǀ párācaḥ ǁindra ǀ jāmayaḥ ǀ uta ǀ ye ǀ ajāmayaḥ ǀ arvācīnāsaḥ ǀ vanuṣaḥ ǀ yuyujre ǀ
tvam ǀ eṣām ǀ vithurā ǀ śavāṃsi ǀ jahi ǀ vṛṣṇyāni ǀ kṛṇuhi ǀ parācaḥ ǁ6.25.3 Aṣṭaka 4.6.19.3Anuvāka 6.3.13
-
Ṛk 4
शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ ।
तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रंद॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥शूरो वा शूरं वनते शरीरैस् तनूरुचा तरुषि यत् कृण्वैते |
तोके वा गोषु तनये यद् अप्सु वि क्रन्दसी उर्वरासु ब्रवैते ||śū́ro vā śū́ram vanate śárīraistanūrúcā táruṣi yátkṛṇváite ǀ
toké vā góṣu tánaye yádapsú ví krándasī urvárāsu brávaite ǁśūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite |
toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite ||शूरः॑ । वा॒ । शूर॑म् । व॒न॒ते॒ । शरी॑रैः । त॒नू॒ऽरुचा॑ । तरु॑षि । यत् । कृ॒ण्वैते॒ इति॑ ।
तो॒के । वा॒ । गोषु॑ । तन॑ये । यत् । अ॒प्ऽसु । वि । क्रन्द॑सी॒ इति॑ । उ॒र्वरा॑सु । ब्रवै॑ते॒ इति॑ ॥शूरः । वा । शूरम् । वनते । शरीरैः । तनूऽरुचा । तरुषि । यत् । कृण्वैते इति ।
तोके । वा । गोषु । तनये । यत् । अप्ऽसु । वि । क्रन्दसी इति । उर्वरासु । ब्रवैते इति ॥śū́raḥ ǀ vā ǀ śū́ram ǀ vanate ǀ śárīraiḥ ǀ tanū-rúcā ǀ táruṣi ǀ yát ǀ kṛṇváite íti ǀ
toké ǀ vā ǀ góṣu ǀ tánaye ǀ yát ǀ ap-sú ǀ ví ǀ krándasī íti ǀ urvárāsu ǀ brávaite íti ǁśūraḥ ǀ vā ǀ śūram ǀ vanate ǀ śarīraiḥ ǀ tanū-rucā ǀ taruṣi ǀ yat ǀ kṛṇvaite iti ǀ
toke ǀ vā ǀ goṣu ǀ tanaye ǀ yat ǀ ap-su ǀ vi ǀ krandasī iti ǀ urvarāsu ǀ bravaite iti ǁ6.25.4 Aṣṭaka 4.6.19.4Anuvāka 6.3.14
-
Ṛk 5
न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ ।
इंद्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥नहि त्वा शूरो न तुरो न धृष्णुर् न त्वा योधो मन्यमानो युयोध |
इन्द्र नकिष् ट्वा प्रत्य् अस्त्य् एषां विश्वा जातान्य् अभ्य् असि तानि ||nahí tvā śū́ro ná turó ná dhṛṣṇúrná tvā yodhó mányamāno yuyódha ǀ
índra nákiṣṭvā prátyastyeṣām víśvā jātā́nyabhyási tā́ni ǁnahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha |
indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni ||न॒हि । त्वा॒ । शूरः॑ । न । तु॒रः । न । धृ॒ष्णुः । न । त्वा॒ । यो॒धः । मन्य॑मानः । यु॒योध॑ ।
इन्द्र॑ । नकिः॑ । त्वा॒ । प्रति॑ । अ॒स्ति॒ । ए॒षा॒म् । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒सि॒ । तानि॑ ॥नहि । त्वा । शूरः । न । तुरः । न । धृष्णुः । न । त्वा । योधः । मन्यमानः । युयोध ।
इन्द्र । नकिः । त्वा । प्रति । अस्ति । एषाम् । विश्वा । जातानि । अभि । असि । तानि ॥nahí ǀ tvā ǀ śū́raḥ ǀ ná ǀ turáḥ ǀ ná ǀ dhṛṣṇúḥ ǀ ná ǀ tvā ǀ yodháḥ ǀ mányamānaḥ ǀ yuyódha ǀ
índra ǀ nákiḥ ǀ tvā ǀ práti ǀ asti ǀ eṣām ǀ víśvā ǀ jātā́ni ǀ abhí ǀ asi ǀ tā́ni ǁnahi ǀ tvā ǀ śūraḥ ǀ na ǀ turaḥ ǀ na ǀ dhṛṣṇuḥ ǀ na ǀ tvā ǀ yodhaḥ ǀ manyamānaḥ ǀ yuyodha ǀ
indra ǀ nakiḥ ǀ tvā ǀ prati ǀ asti ǀ eṣām ǀ viśvā ǀ jātāni ǀ abhi ǀ asi ǀ tāni ǁ6.25.5 Aṣṭaka 4.6.19.5Anuvāka 6.3.15
-
Ṛk 6
स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धसः॑ समि॒थे हवं॑ते ।
वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वंता॒ यदि॑ वितंत॒सैते॑ ॥स पत्यत उभयोर् नृम्णम् अयोर् यदी वेधसः समिथे हवन्ते |
वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ||sá patyata ubháyornṛmṇámayóryádī vedhásaḥ samithé hávante ǀ
vṛtré vā mahó nṛváti kṣáye vā vyácasvantā yádi vitantasáite ǁsa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante |
vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite ||सः । प॒त्य॒ते॒ । उ॒भयोः॑ । नृ॒म्णम् । अ॒योः । यदि॑ । वे॒धसः॑ । स॒म्ऽइ॒थे । हव॑न्ते ।
वृ॒त्रे । वा॒ । म॒हः । नृ॒ऽवति॑ । क्षये॑ । वा॒ । व्यच॑स्वन्ता । यदि॑ । वि॒त॒न्त॒सैते॒ इति॑ ॥सः । पत्यते । उभयोः । नृम्णम् । अयोः । यदि । वेधसः । सम्ऽइथे । हवन्ते ।
वृत्रे । वा । महः । नृऽवति । क्षये । वा । व्यचस्वन्ता । यदि । वितन्तसैते इति ॥sáḥ ǀ patyate ǀ ubháyoḥ ǀ nṛmṇám ǀ ayóḥ ǀ yádi ǀ vedhásaḥ ǀ sam-ithé ǀ hávante ǀ
vṛtré ǀ vā ǀ maháḥ ǀ nṛ-váti ǀ kṣáye ǀ vā ǀ vyácasvantā ǀ yádi ǀ vitantasáite íti ǁsaḥ ǀ patyate ǀ ubhayoḥ ǀ nṛmṇam ǀ ayoḥ ǀ yadi ǀ vedhasaḥ ǀ sam-ithe ǀ havante ǀ
vṛtre ǀ vā ǀ mahaḥ ǀ nṛ-vati ǀ kṣaye ǀ vā ǀ vyacasvantā ǀ yadi ǀ vitantasaite iti ǁ6.25.6 Aṣṭaka 4.6.20.1Anuvāka 6.3.16
-
Ṛk 7
अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निंद्र॑ त्रा॒तोत भ॑वा वरू॒ता ।
अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इंद्र॑ सू॒रयो॑ दधि॒रे पु॒रो नः॑ ॥अध स्मा ते चर्षणयो यद् एजान् इन्द्र त्रातोत भवा वरूता |
अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ||ádha smā te carṣaṇáyo yádéjāníndra trātótá bhavā varūtā́ ǀ
asmā́kāso yé nṛ́tamāso aryá índra sūráyo dadhiré puró naḥ ǁadha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā |
asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ ||अध॑ । स्म॒ । ते॒ । च॒र्ष॒णयः॑ । यत् । एजा॑न् । इन्द्र॑ । त्रा॒ता । उ॒त । भ॒व॒ । व॒रू॒ता ।
अ॒स्माका॑सः । ये । नृऽत॑मासः । अ॒र्यः । इन्द्र॑ । सू॒रयः॑ । द॒धि॒रे । पु॒रः । नः॒ ॥अध । स्म । ते । चर्षणयः । यत् । एजान् । इन्द्र । त्राता । उत । भव । वरूता ।
अस्माकासः । ये । नृऽतमासः । अर्यः । इन्द्र । सूरयः । दधिरे । पुरः । नः ॥ádha ǀ sma ǀ te ǀ carṣaṇáyaḥ ǀ yát ǀ éjān ǀ índra ǀ trātā́ ǀ utá ǀ bhava ǀ varūtā́ ǀ
asmā́kāsaḥ ǀ yé ǀ nṛ́-tamāsaḥ ǀ aryáḥ ǀ índra ǀ sūráyaḥ ǀ dadhiré ǀ puráḥ ǀ naḥ ǁadha ǀ sma ǀ te ǀ carṣaṇayaḥ ǀ yat ǀ ejān ǀ indra ǀ trātā ǀ uta ǀ bhava ǀ varūtā ǀ
asmākāsaḥ ǀ ye ǀ nṛ-tamāsaḥ ǀ aryaḥ ǀ indra ǀ sūrayaḥ ǀ dadhire ǀ puraḥ ǀ naḥ ǁ6.25.7 Aṣṭaka 4.6.20.2Anuvāka 6.3.17
-
Ṛk 8
अनु॑ ते दायि म॒ह इं॑द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ ।
अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेंद्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ॥अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये |
अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ||ánu te dāyi mahá indriyā́ya satrā́ te víśvamánu vṛtrahátye ǀ
ánu kṣatrámánu sáho yajatréndra devébhiránu te nṛṣáhye ǁanu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye |
anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye ||अनु॑ । ते॒ । दा॒यि॒ । म॒हे । इ॒न्द्रि॒याय॑ । स॒त्रा । ते॒ । विश्व॑म् । अनु॑ । वृ॒त्र॒ऽहत्ये॑ ।
अनु॑ । क्ष॒त्रम् । अनु॑ । सहः॑ । य॒ज॒त्र॒ । इन्द्र॑ । दे॒वेभिः॑ । अनु॑ । ते॒ । नृ॒ऽसह्ये॑ ॥अनु । ते । दायि । महे । इन्द्रियाय । सत्रा । ते । विश्वम् । अनु । वृत्रऽहत्ये ।
अनु । क्षत्रम् । अनु । सहः । यजत्र । इन्द्र । देवेभिः । अनु । ते । नृऽसह्ये ॥ánu ǀ te ǀ dāyi ǀ mahé ǀ indriyā́ya ǀ satrā́ ǀ te ǀ víśvam ǀ ánu ǀ vṛtra-hátye ǀ
ánu ǀ kṣatrám ǀ ánu ǀ sáhaḥ ǀ yajatra ǀ índra ǀ devébhiḥ ǀ ánu ǀ te ǀ nṛ-sáhye ǁanu ǀ te ǀ dāyi ǀ mahe ǀ indriyāya ǀ satrā ǀ te ǀ viśvam ǀ anu ǀ vṛtra-hatye ǀ
anu ǀ kṣatram ǀ anu ǀ sahaḥ ǀ yajatra ǀ indra ǀ devebhiḥ ǀ anu ǀ te ǀ nṛ-sahye ǁ6.25.8 Aṣṭaka 4.6.20.3Anuvāka 6.3.18
-
Ṛk 9
ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विंद्र॑ रारं॒धि मि॑थ॒तीरदे॑वीः ।
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णंतो॑ भ॒रद्वा॑जा उ॒त त॑ इंद्र नू॒नं ॥एवा न स्पृधः सम् अजा समत्स्व् इन्द्र रारन्धि मिथतीर् अदेवीः |
विद्याम वस्तोर् अवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ||evā́ naḥ spṛ́dhaḥ sámajā samátsvíndra rārandhí mithatī́rádevīḥ ǀ
vidyā́ma vástorávasā gṛṇánto bharádvājā utá ta indra nūnám ǁevā na spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ |
vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam ||ए॒व । नः॒ । स्पृधः॑ । सम् । अ॒ज॒ । स॒मत्ऽसु॑ । इन्द्र॑ । र॒र॒न्धि । मि॒थ॒तीः । अदे॑वीः ।
वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । भ॒रत्ऽवा॑जाः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥एव । नः । स्पृधः । सम् । अज । समत्ऽसु । इन्द्र । ररन्धि । मिथतीः । अदेवीः ।
विद्याम । वस्तोः । अवसा । गृणन्तः । भरत्ऽवाजाः । उत । ते । इन्द्र । नूनम् ॥evá ǀ naḥ ǀ spṛ́dhaḥ ǀ sám ǀ aja ǀ samát-su ǀ índra ǀ rarandhí ǀ mithatī́ḥ ǀ ádevīḥ ǀ
vidyā́ma ǀ vástoḥ ǀ ávasā ǀ gṛṇántaḥ ǀ bharát-vājāḥ ǀ utá ǀ te ǀ indra ǀ nūnám ǁeva ǀ naḥ ǀ spṛdhaḥ ǀ sam ǀ aja ǀ samat-su ǀ indra ǀ rarandhi ǀ mithatīḥ ǀ adevīḥ ǀ
vidyāma ǀ vastoḥ ǀ avasā ǀ gṛṇantaḥ ǀ bharat-vājāḥ ǀ uta ǀ te ǀ indra ǀ nūnam ǁ6.25.9 Aṣṭaka 4.6.20.4Anuvāka 6.3.19
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.