Ṛk 6.25.4
Saṃhitā
शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ ।
तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रंद॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥
शूरो वा शूरं वनते शरीरैस् तनूरुचा तरुषि यत् कृण्वैते |
तोके वा गोषु तनये यद् अप्सु वि क्रन्दसी उर्वरासु ब्रवैते ||
śū́ro vā śū́ram vanate śárīraistanūrúcā táruṣi yátkṛṇváite ǀ
toké vā góṣu tánaye yádapsú ví krándasī urvárāsu brávaite ǁ
śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite |
toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite ||
Padapāṭha
शूरः॑ । वा॒ । शूर॑म् । व॒न॒ते॒ । शरी॑रैः । त॒नू॒ऽरुचा॑ । तरु॑षि । यत् । कृ॒ण्वैते॒ इति॑ ।
तो॒के । वा॒ । गोषु॑ । तन॑ये । यत् । अ॒प्ऽसु । वि । क्रन्द॑सी॒ इति॑ । उ॒र्वरा॑सु । ब्रवै॑ते॒ इति॑ ॥
शूरः । वा । शूरम् । वनते । शरीरैः । तनूऽरुचा । तरुषि । यत् । कृण्वैते इति ।
तोके । वा । गोषु । तनये । यत् । अप्ऽसु । वि । क्रन्दसी इति । उर्वरासु । ब्रवैते इति ॥
śū́raḥ ǀ vā ǀ śū́ram ǀ vanate ǀ śárīraiḥ ǀ tanū-rúcā ǀ táruṣi ǀ yát ǀ kṛṇváite íti ǀ
toké ǀ vā ǀ góṣu ǀ tánaye ǀ yát ǀ ap-sú ǀ ví ǀ krándasī íti ǀ urvárāsu ǀ brávaite íti ǁ
śūraḥ ǀ vā ǀ śūram ǀ vanate ǀ śarīraiḥ ǀ tanū-rucā ǀ taruṣi ǀ yat ǀ kṛṇvaite iti ǀ
toke ǀ vā ǀ goṣu ǀ tanaye ǀ yat ǀ ap-su ǀ vi ǀ krandasī iti ǀ urvarāsu ǀ bravaite iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.025.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.19.04
- Maṇḍala · Anuvāka · Ṛk
- 06.03.014
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.