Sūkta 24
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles paṅktiḥ (3, 5, 9); bhurikpaṅkti (1, 2); nicṛttriṣṭup (4, 7); brāhmībṛhatī (6); triṣṭup (8); virāṭtrisṭup (10)
2nd set of styles triṣṭubh
-
Ṛk 1
वृषा॒ मद॒ इंद्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी ।
अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी |
अर्चत्र्यो मघवा नृभ्य उक्थैर् द्युक्षो राजा गिराम् अक्षितोतिः ||vṛ́ṣā máda índre ślóka ukthā́ sácā sómeṣu sutapā́ ṛjīṣī́ ǀ
arcatryó maghávā nṛ́bhya uktháirdyukṣó rā́jā girā́mákṣitotiḥ ǁvṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī |
arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ ||वृषा॑ । मदः॑ । इन्द्रे॑ । श्लोकः॑ । उ॒क्था । सचा॑ । सोमे॑षु । सु॒त॒ऽपाः । ऋ॒जी॒षी ।
अ॒र्च॒त्र्यः॑ । म॒घऽवा॑ । नृऽभ्यः॑ । उ॒क्थैः । द्यु॒क्षः । राजा॑ । गि॒राम् । अक्षि॑तऽऊतिः ॥वृषा । मदः । इन्द्रे । श्लोकः । उक्था । सचा । सोमेषु । सुतऽपाः । ऋजीषी ।
अर्चत्र्यः । मघऽवा । नृऽभ्यः । उक्थैः । द्युक्षः । राजा । गिराम् । अक्षितऽऊतिः ॥vṛ́ṣā ǀ mádaḥ ǀ índre ǀ ślókaḥ ǀ ukthā́ ǀ sácā ǀ sómeṣu ǀ suta-pā́ḥ ǀ ṛjīṣī́ ǀ
arcatryáḥ ǀ maghá-vā ǀ nṛ́-bhyaḥ ǀ uktháiḥ ǀ dyukṣáḥ ǀ rā́jā ǀ girā́m ǀ ákṣita-ūtiḥ ǁvṛṣā ǀ madaḥ ǀ indre ǀ ślokaḥ ǀ ukthā ǀ sacā ǀ someṣu ǀ suta-pāḥ ǀ ṛjīṣī ǀ
arcatryaḥ ǀ magha-vā ǀ nṛ-bhyaḥ ǀ ukthaiḥ ǀ dyukṣaḥ ǀ rājā ǀ girām ǀ akṣita-ūtiḥ ǁ6.24.1 Aṣṭaka 4.6.17.1Anuvāka 6.3.1
-
Ṛk 2
ततु॑रिर्वी॒रो नर्यो॒ विचे॑ताः॒ श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः ।
वसुः॒ शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाजं॑ ॥ततुरिर् वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः |
वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ||táturirvīró náryo vícetāḥ śrótā hávam gṛṇatá urvyū́tiḥ ǀ
vásuḥ śáṃso narā́m kārúdhāyā vājī́ stutó vidáthe dāti vā́jam ǁtaturir vīro naryo vicetāḥ śrotā havaṃ gṛṇata urvyūtiḥ |
vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam ||ततु॑रिः । वी॒रः । नर्यः॑ । विऽचे॑ताः । श्रोता॑ । हव॑म् । गृ॒ण॒तः । उ॒र्विऽऊ॑तिः ।
वसुः॑ । शंसः॑ । न॒राम् । का॒रुऽधा॑याः । वा॒जी । स्तु॒तः । वि॒दथे॑ । दा॒ति॒ । वाज॑म् ॥ततुरिः । वीरः । नर्यः । विऽचेताः । श्रोता । हवम् । गृणतः । उर्विऽऊतिः ।
वसुः । शंसः । नराम् । कारुऽधायाः । वाजी । स्तुतः । विदथे । दाति । वाजम् ॥táturiḥ ǀ vīráḥ ǀ náryaḥ ǀ ví-cetāḥ ǀ śrótā ǀ hávam ǀ gṛṇatáḥ ǀ urví-ūtiḥ ǀ
vásuḥ ǀ śáṃsaḥ ǀ narā́m ǀ kārú-dhāyāḥ ǀ vājī́ ǀ stutáḥ ǀ vidáthe ǀ dāti ǀ vā́jam ǁtaturiḥ ǀ vīraḥ ǀ naryaḥ ǀ vi-cetāḥ ǀ śrotā ǀ havam ǀ gṛṇataḥ ǀ urvi-ūtiḥ ǀ
vasuḥ ǀ śaṃsaḥ ǀ narām ǀ kāru-dhāyāḥ ǀ vājī ǀ stutaḥ ǀ vidathe ǀ dāti ǀ vājam ǁ6.24.2 Aṣṭaka 4.6.17.2Anuvāka 6.3.2
-
Ṛk 3
अक्षो॒ न च॒क्र्योः॑ शूर बृ॒हन्प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः ।
वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३॒॑तयो॑ रुरुहुरिंद्र पू॒र्वीः ॥अक्षो न चक्र्योः शूर बृहन् प्र ते मह्ना रिरिचे रोदस्योः |
वृक्षस्य नु ते पुरुहूत वया व्य् ऊतयो रुरुहुर् इन्द्र पूर्वीः ||ákṣo ná cakryóḥ śūra bṛhánprá te mahnā́ ririce ródasyoḥ ǀ
vṛkṣásya nú te puruhūta vayā́ vyū́táyo ruruhurindra pūrvī́ḥ ǁakṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ |
vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ ||अक्षः॑ । न । च॒क्र्योः॑ । शू॒र॒ । बृ॒हन् । प्र । ते॒ । म॒ह्ना । रि॒रि॒चे॒ । रोद॑स्योः ।
वृ॒क्षस्य॑ । नु । ते॒ । पु॒रु॒ऽहू॒त॒ । व॒याः । वि । ऊ॒तयः॑ । रु॒रु॒हुः॒ । इ॒न्द्र॒ । पू॒र्वीः ॥अक्षः । न । चक्र्योः । शूर । बृहन् । प्र । ते । मह्ना । रिरिचे । रोदस्योः ।
वृक्षस्य । नु । ते । पुरुऽहूत । वयाः । वि । ऊतयः । रुरुहुः । इन्द्र । पूर्वीः ॥ákṣaḥ ǀ ná ǀ cakryóḥ ǀ śūra ǀ bṛhán ǀ prá ǀ te ǀ mahnā́ ǀ ririce ǀ ródasyoḥ ǀ
vṛkṣásya ǀ nú ǀ te ǀ puru-hūta ǀ vayā́ḥ ǀ ví ǀ ūtáyaḥ ǀ ruruhuḥ ǀ indra ǀ pūrvī́ḥ ǁakṣaḥ ǀ na ǀ cakryoḥ ǀ śūra ǀ bṛhan ǀ pra ǀ te ǀ mahnā ǀ ririce ǀ rodasyoḥ ǀ
vṛkṣasya ǀ nu ǀ te ǀ puru-hūta ǀ vayāḥ ǀ vi ǀ ūtayaḥ ǀ ruruhuḥ ǀ indra ǀ pūrvīḥ ǁ6.24.3 Aṣṭaka 4.6.17.3Anuvāka 6.3.3
-
Ṛk 4
शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तयः॑ सं॒चर॑णीः ।
व॒त्सानां॒ न तं॒तय॑स्त इंद्र॒ दाम॑न्वंतो अदा॒मानः॑ सुदामन् ॥शचीवतस् ते पुरुशाक शाका गवाम् इव स्रुतयः संचरणीः |
वत्सानां न तन्तयस् त इन्द्र दामन्वन्तो अदामानः सुदामन् ||śácīvataste puruśāka śā́kā gávāmiva srutáyaḥ saṃcáraṇīḥ ǀ
vatsā́nām ná tantáyasta indra dā́manvanto adāmā́naḥ sudāman ǁśacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ |
vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman ||शची॑ऽवतः । ते॒ । पु॒रु॒ऽशा॒क॒ । शाकाः॑ । गवा॑म्ऽइव । स्रु॒तयः॑ । स॒म्ऽचर॑णीः ।
व॒त्साना॑म् । न । त॒न्तयः॑ । ते॒ । इ॒न्द्र॒ । दाम॑न्ऽवन्तः । अ॒दा॒मानः॑ । सु॒ऽदा॒म॒न् ॥शचीऽवतः । ते । पुरुऽशाक । शाकाः । गवाम्ऽइव । स्रुतयः । सम्ऽचरणीः ।
वत्सानाम् । न । तन्तयः । ते । इन्द्र । दामन्ऽवन्तः । अदामानः । सुऽदामन् ॥śácī-vataḥ ǀ te ǀ puru-śāka ǀ śā́kāḥ ǀ gávām-iva ǀ srutáyaḥ ǀ sam-cáraṇīḥ ǀ
vatsā́nām ǀ ná ǀ tantáyaḥ ǀ te ǀ indra ǀ dā́man-vantaḥ ǀ adāmā́naḥ ǀ su-dāman ǁśacī-vataḥ ǀ te ǀ puru-śāka ǀ śākāḥ ǀ gavām-iva ǀ srutayaḥ ǀ sam-caraṇīḥ ǀ
vatsānām ǀ na ǀ tantayaḥ ǀ te ǀ indra ǀ dāman-vantaḥ ǀ adāmānaḥ ǀ su-dāman ǁ6.24.4 Aṣṭaka 4.6.17.4Anuvāka 6.3.4
-
Ṛk 5
अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिंद्रः॑ ।
मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥अन्यद् अद्य कर्वरम् अन्यद् उ श्वो ऽसच् च सन् मुहुर् आचक्रिर् इन्द्रः |
मित्रो नो अत्र वरुणश् च पूषार्यो वशस्य पर्येतास्ति ||anyádadyá kárvaramanyádu śvó’sacca sánmúhurācakríríndraḥ ǀ
mitró no átra váruṇaśca pūṣā́ryó váśasya paryetā́sti ǁanyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ |
mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti ||अ॒न्यत् । अ॒द्य । कर्व॑रम् । अ॒न्यत् । ऊं॒ इति॑ । श्वः । अस॑त् । च॒ । सत् । मुहुः॑ । आ॒ऽच॒क्रिः । इन्द्रः॑ ।
मि॒त्रः । नः॒ । अत्र॑ । वरु॑णः । च॒ । पू॒षा । अ॒र्यः । वश॑स्य । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥अन्यत् । अद्य । कर्वरम् । अन्यत् । ऊं इति । श्वः । असत् । च । सत् । मुहुः । आऽचक्रिः । इन्द्रः ।
मित्रः । नः । अत्र । वरुणः । च । पूषा । अर्यः । वशस्य । परिऽएता । अस्ति ॥anyát ǀ adyá ǀ kárvaram ǀ anyát ǀ ūṃ íti ǀ śváḥ ǀ ásat ǀ ca ǀ sát ǀ múhuḥ ǀ ā-cakríḥ ǀ índraḥ ǀ
mitráḥ ǀ naḥ ǀ átra ǀ váruṇaḥ ǀ ca ǀ pūṣā́ ǀ aryáḥ ǀ váśasya ǀ pari-etā́ ǀ asti ǁanyat ǀ adya ǀ karvaram ǀ anyat ǀ ūṃ iti ǀ śvaḥ ǀ asat ǀ ca ǀ sat ǀ muhuḥ ǀ ā-cakriḥ ǀ indraḥ ǀ
mitraḥ ǀ naḥ ǀ atra ǀ varuṇaḥ ǀ ca ǀ pūṣā ǀ aryaḥ ǀ vaśasya ǀ pari-etā ǀ asti ǁ6.24.5 Aṣṭaka 4.6.17.5Anuvāka 6.3.5
-
Ṛk 6
वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिंद्रानयंत य॒ज्ञैः ।
तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जयं॑त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वाः॑ ॥वि त्वद् आपो न पर्वतस्य पृष्ठाद् उक्थेभिर् इन्द्रानयन्त यज्ञैः |
तं त्वाभिः सुष्टुतिभिर् वाजयन्त आजिं न जग्मुर् गिर्वाहो अश्वाः ||ví tvádā́po ná párvatasya pṛṣṭhā́dukthébhirindrānayanta yajñáiḥ ǀ
tám tvābhíḥ suṣṭutíbhirvājáyanta ājím ná jagmurgirvāho áśvāḥ ǁvi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ |
taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ ||वि । त्वत् । आपः॑ । न । पर्व॑तस्य । पृ॒ष्ठात् । उ॒क्थेभिः॑ । इ॒न्द्र॒ । अ॒न॒य॒न्त॒ । य॒ज्ञैः ।
तम् । त्वा॒ । आ॒भिः । सु॒स्तु॒तिऽभिः॑ । वा॒जय॑न्तः । आ॒जिम् । न । ज॒ग्मुः॒ । गि॒र्वा॒हः॒ । अश्वाः॑ ॥वि । त्वत् । आपः । न । पर्वतस्य । पृष्ठात् । उक्थेभिः । इन्द्र । अनयन्त । यज्ञैः ।
तम् । त्वा । आभिः । सुस्तुतिऽभिः । वाजयन्तः । आजिम् । न । जग्मुः । गिर्वाहः । अश्वाः ॥ví ǀ tvát ǀ ā́paḥ ǀ ná ǀ párvatasya ǀ pṛṣṭhā́t ǀ ukthébhiḥ ǀ indra ǀ anayanta ǀ yajñáiḥ ǀ
tám ǀ tvā ǀ ābhíḥ ǀ sustutí-bhiḥ ǀ vājáyantaḥ ǀ ājím ǀ ná ǀ jagmuḥ ǀ girvāhaḥ ǀ áśvāḥ ǁvi ǀ tvat ǀ āpaḥ ǀ na ǀ parvatasya ǀ pṛṣṭhāt ǀ ukthebhiḥ ǀ indra ǀ anayanta ǀ yajñaiḥ ǀ
tam ǀ tvā ǀ ābhiḥ ǀ sustuti-bhiḥ ǀ vājayantaḥ ǀ ājim ǀ na ǀ jagmuḥ ǀ girvāhaḥ ǀ aśvāḥ ǁ6.24.6 Aṣṭaka 4.6.18.1Anuvāka 6.3.6
-
Ṛk 7
न यं जरं॑ति श॒रदो॒ न मासा॒ न द्याव॒ इंद्र॑मवक॒र्शयं॑ति ।
वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥न यं जरन्ति शरदो न मासा न द्याव इन्द्रम् अवकर्शयन्ति |
वृद्धस्य चिद् वर्धताम् अस्य तनू स्तोमेभिर् उक्थैश् च शस्यमाना ||ná yám járanti śarádo ná mā́sā ná dyā́va índramavakarśáyanti ǀ
vṛddhásya cidvardhatāmasya tanū́ḥ stómebhiruktháiśca śasyámānā ǁna yaṃ jaranti śarado na māsā na dyāva indram avakarśayanti |
vṛddhasya cid vardhatām asya tanū stomebhir ukthaiś ca śasyamānā ||न । यम् । जर॑न्ति । श॒रदः॑ । न । मासाः॑ । न । द्यावः॑ । इन्द्र॑म् । अ॒व॒ऽक॒र्शय॑न्ति ।
वृ॒द्धस्य॑ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥न । यम् । जरन्ति । शरदः । न । मासाः । न । द्यावः । इन्द्रम् । अवऽकर्शयन्ति ।
वृद्धस्य । चित् । वर्धताम् । अस्य । तनूः । स्तोमेभिः । उक्थैः । च । शस्यमाना ॥ná ǀ yám ǀ járanti ǀ śarádaḥ ǀ ná ǀ mā́sāḥ ǀ ná ǀ dyā́vaḥ ǀ índram ǀ ava-karśáyanti ǀ
vṛddhásya ǀ cit ǀ vardhatām ǀ asya ǀ tanū́ḥ ǀ stómebhiḥ ǀ uktháiḥ ǀ ca ǀ śasyámānā ǁna ǀ yam ǀ jaranti ǀ śaradaḥ ǀ na ǀ māsāḥ ǀ na ǀ dyāvaḥ ǀ indram ǀ ava-karśayanti ǀ
vṛddhasya ǀ cit ǀ vardhatām ǀ asya ǀ tanūḥ ǀ stomebhiḥ ǀ ukthaiḥ ǀ ca ǀ śasyamānā ǁ6.24.7 Aṣṭaka 4.6.18.2Anuvāka 6.3.7
-
Ṛk 8
न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् ।
अज्रा॒ इंद्र॑स्य गि॒रय॑श्चिदृ॒ष्वा गं॑भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥न वीऌअवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् |
अज्रा इन्द्रस्य गिरयश् चिद् ऋष्वा गम्भीरे चिद् भवति गाधम् अस्मै ||ná vīḷáve námate ná sthirā́ya ná śárdhate dásyujūtāya stavā́n ǀ
ájrā índrasya giráyaścidṛṣvā́ gambhīré cidbhavati gādhámasmai ǁna vīḷave namate na sthirāya na śardhate dasyujūtāya stavān |
ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai ||न । वी॒ळवे॑ । नम॑ते । न । स्थि॒राय॑ । न । शर्ध॑ते । दस्यु॑ऽजूताय । स्त॒वान् ।
अज्राः॑ । इन्द्र॑स्य । गि॒रयः॑ । चि॒त् । ऋ॒ष्वाः । ग॒म्भी॒रे । चि॒त् । भ॒व॒ति॒ । गा॒धम् । अ॒स्मै॒ ॥न । वीळवे । नमते । न । स्थिराय । न । शर्धते । दस्युऽजूताय । स्तवान् ।
अज्राः । इन्द्रस्य । गिरयः । चित् । ऋष्वाः । गम्भीरे । चित् । भवति । गाधम् । अस्मै ॥ná ǀ vīḷáve ǀ námate ǀ ná ǀ sthirā́ya ǀ ná ǀ śárdhate ǀ dásyu-jūtāya ǀ stavā́n ǀ
ájrāḥ ǀ índrasya ǀ giráyaḥ ǀ cit ǀ ṛṣvā́ḥ ǀ gambhīré ǀ cit ǀ bhavati ǀ gādhám ǀ asmai ǁna ǀ vīḷave ǀ namate ǀ na ǀ sthirāya ǀ na ǀ śardhate ǀ dasyu-jūtāya ǀ stavān ǀ
ajrāḥ ǀ indrasya ǀ girayaḥ ǀ cit ǀ ṛṣvāḥ ǀ gambhīre ǀ cit ǀ bhavati ǀ gādham ǀ asmai ǁ6.24.8 Aṣṭaka 4.6.18.3Anuvāka 6.3.8
-
Ṛk 9
गं॒भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो यं॑धि सुतपाव॒न्वाजा॑न् ।
स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायां ॥गम्भीरेण न उरुणामत्रिन् प्रेषो यन्धि सुतपावन् वाजान् |
स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्न् अक्तोर् व्युष्टौ परितक्म्यायाम् ||gambhīréṇa na urúṇāmatrinpréṣó yandhi sutapāvanvā́jān ǀ
sthā́ ū ṣú ūrdhvá ūtī́ áriṣaṇyannaktórvyúṣṭau páritakmyāyām ǁgambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān |
sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām ||ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् ।
स्थाः । ऊं॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥गम्भीरेण । नः । उरुणा । अमत्रिन् । प्र । इषः । यन्धि । सुतऽपावन् । वाजान् ।
स्थाः । ऊं इति । सु । ऊर्ध्वः । ऊती । अरिषण्यन् । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाम् ॥gambhīréṇa ǀ naḥ ǀ urúṇā ǀ amatrin ǀ prá ǀ iṣáḥ ǀ yandhi ǀ suta-pāvan ǀ vā́jān ǀ
sthā́ḥ ǀ ūṃ íti ǀ sú ǀ ūrdhváḥ ǀ ūtī́ ǀ áriṣaṇyan ǀ aktóḥ ǀ ví-uṣṭau ǀ pári-takmyāyām ǁgambhīreṇa ǀ naḥ ǀ uruṇā ǀ amatrin ǀ pra ǀ iṣaḥ ǀ yandhi ǀ suta-pāvan ǀ vājān ǀ
sthāḥ ǀ ūṃ iti ǀ su ǀ ūrdhvaḥ ǀ ūtī ǀ ariṣaṇyan ǀ aktoḥ ǀ vi-uṣṭau ǀ pari-takmyāyām ǁ6.24.9 Aṣṭaka 4.6.18.4Anuvāka 6.3.9
-
Ṛk 10
सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमिं॑द्र पाहि रि॒षः ।
अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥सचस्व नायम् अवसे अभीक इतो वा तम् इन्द्र पाहि रिषः |
अमा चैनम् अरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ||sácasva nāyámávase abhī́ka itó vā támindra pāhi riṣáḥ ǀ
amā́ cainamáraṇye pāhi riṣó mádema śatáhimāḥ suvī́rāḥ ǁsacasva nāyam avase abhīka ito vā tam indra pāhi riṣaḥ |
amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ ||सच॑स्व । ना॒यम् । अव॑से । अ॒भीके॑ । इ॒तः । वा॒ । तम् । इ॒न्द्र॒ । पा॒हि॒ । रि॒षः ।
अ॒मा । च॒ । ए॒न॒म् । अर॑ण्ये । पा॒हि॒ । रि॒षः । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥सचस्व । नायम् । अवसे । अभीके । इतः । वा । तम् । इन्द्र । पाहि । रिषः ।
अमा । च । एनम् । अरण्ये । पाहि । रिषः । मदेम । शतऽहिमाः । सुऽवीराः ॥sácasva ǀ nāyám ǀ ávase ǀ abhī́ke ǀ itáḥ ǀ vā ǀ tám ǀ indra ǀ pāhi ǀ riṣáḥ ǀ
amā́ ǀ ca ǀ enam ǀ áraṇye ǀ pāhi ǀ riṣáḥ ǀ mádema ǀ śatá-himāḥ ǀ su-vī́rāḥ ǁsacasva ǀ nāyam ǀ avase ǀ abhīke ǀ itaḥ ǀ vā ǀ tam ǀ indra ǀ pāhi ǀ riṣaḥ ǀ
amā ǀ ca ǀ enam ǀ araṇye ǀ pāhi ǀ riṣaḥ ǀ madema ǀ śata-himāḥ ǀ su-vīrāḥ ǁ6.24.10 Aṣṭaka 4.6.18.5Anuvāka 6.3.10
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.