Ṛk 6.24.7
Saṃhitā
न यं जरं॑ति श॒रदो॒ न मासा॒ न द्याव॒ इंद्र॑मवक॒र्शयं॑ति ।
वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥
न यं जरन्ति शरदो न मासा न द्याव इन्द्रम् अवकर्शयन्ति |
वृद्धस्य चिद् वर्धताम् अस्य तनू स्तोमेभिर् उक्थैश् च शस्यमाना ||
ná yám járanti śarádo ná mā́sā ná dyā́va índramavakarśáyanti ǀ
vṛddhásya cidvardhatāmasya tanū́ḥ stómebhiruktháiśca śasyámānā ǁ
na yaṃ jaranti śarado na māsā na dyāva indram avakarśayanti |
vṛddhasya cid vardhatām asya tanū stomebhir ukthaiś ca śasyamānā ||
Padapāṭha
न । यम् । जर॑न्ति । श॒रदः॑ । न । मासाः॑ । न । द्यावः॑ । इन्द्र॑म् । अ॒व॒ऽक॒र्शय॑न्ति ।
वृ॒द्धस्य॑ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥
न । यम् । जरन्ति । शरदः । न । मासाः । न । द्यावः । इन्द्रम् । अवऽकर्शयन्ति ।
वृद्धस्य । चित् । वर्धताम् । अस्य । तनूः । स्तोमेभिः । उक्थैः । च । शस्यमाना ॥
ná ǀ yám ǀ járanti ǀ śarádaḥ ǀ ná ǀ mā́sāḥ ǀ ná ǀ dyā́vaḥ ǀ índram ǀ ava-karśáyanti ǀ
vṛddhásya ǀ cit ǀ vardhatām ǀ asya ǀ tanū́ḥ ǀ stómebhiḥ ǀ uktháiḥ ǀ ca ǀ śasyámānā ǁ
na ǀ yam ǀ jaranti ǀ śaradaḥ ǀ na ǀ māsāḥ ǀ na ǀ dyāvaḥ ǀ indram ǀ ava-karśayanti ǀ
vṛddhasya ǀ cit ǀ vardhatām ǀ asya ǀ tanūḥ ǀ stomebhiḥ ǀ ukthaiḥ ǀ ca ǀ śasyamānā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.024.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.18.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.007
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.