Ṛk 6.24.8
Saṃhitā
न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् ।
अज्रा॒ इंद्र॑स्य गि॒रय॑श्चिदृ॒ष्वा गं॑भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥
न वीऌअवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् |
अज्रा इन्द्रस्य गिरयश् चिद् ऋष्वा गम्भीरे चिद् भवति गाधम् अस्मै ||
ná vīḷáve námate ná sthirā́ya ná śárdhate dásyujūtāya stavā́n ǀ
ájrā índrasya giráyaścidṛṣvā́ gambhīré cidbhavati gādhámasmai ǁ
na vīḷave namate na sthirāya na śardhate dasyujūtāya stavān |
ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai ||
Padapāṭha
न । वी॒ळवे॑ । नम॑ते । न । स्थि॒राय॑ । न । शर्ध॑ते । दस्यु॑ऽजूताय । स्त॒वान् ।
अज्राः॑ । इन्द्र॑स्य । गि॒रयः॑ । चि॒त् । ऋ॒ष्वाः । ग॒म्भी॒रे । चि॒त् । भ॒व॒ति॒ । गा॒धम् । अ॒स्मै॒ ॥
न । वीळवे । नमते । न । स्थिराय । न । शर्धते । दस्युऽजूताय । स्तवान् ।
अज्राः । इन्द्रस्य । गिरयः । चित् । ऋष्वाः । गम्भीरे । चित् । भवति । गाधम् । अस्मै ॥
ná ǀ vīḷáve ǀ námate ǀ ná ǀ sthirā́ya ǀ ná ǀ śárdhate ǀ dásyu-jūtāya ǀ stavā́n ǀ
ájrāḥ ǀ índrasya ǀ giráyaḥ ǀ cit ǀ ṛṣvā́ḥ ǀ gambhīré ǀ cit ǀ bhavati ǀ gādhám ǀ asmai ǁ
na ǀ vīḷave ǀ namate ǀ na ǀ sthirāya ǀ na ǀ śardhate ǀ dasyu-jūtāya ǀ stavān ǀ
ajrāḥ ǀ indrasya ǀ girayaḥ ǀ cit ǀ ṛṣvāḥ ǀ gambhīre ǀ cit ǀ bhavati ǀ gādham ǀ asmai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.024.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.18.03
- Maṇḍala · Anuvāka · Ṛk
- 06.03.008
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.